________________
मूलं- ५५
३२५
‘निस्संकिये' निसंशयः ‘निक्कंखिये' दर्शनान्तराकाङ्क्षारहितः 'निव्वितिगिच्छे' फलं प्रति निशङ्कः 'लद्धट्टे' अर्थश्रवणतः 'गहिअट्टे' अर्थावधारणतः 'पुच्छियट्ठे' संशये सति 'अहिगयट्ठे' सम्यगुत्तरश्रवणतो विमलबोधात्, 'विनिच्छियट्टे' पदार्थोपलम्भात् 'अट्ठिमिंजपेम्माणुरागरत्ते' अस्थीनि प्रसिद्धानि तानि च मिञ्जा चन्तमन्मध्यवर्ती मज्जा अस्थिमञ्जानः ते प्रेमाणुरागेण - सर्वज्ञप्रवचनप्रीतिलक्षणकुसुम्भादिरागेण रक्ता इव रक्ता यस्य स तथा, केनोल्लेखेनेत्यत आह
'अयमाउसो ! निग्गंथे पावयणे अट्ठे परमट्ठे' सेसे अणट्टे' आउसो इति आयुष्मन् !, एतच्च सामर्थ्य पुत्रादेरामन्त्रणं, शेषमिति - धनधान्यपुत्रदारराज्यकुप्रवचनादि, 'ऊसियफलिहे' इति उच्छ्रितं स्फाटिकमिव स्फाटिकम्-अन्तःकरणं यस्य स तथा, मौनीन्द्रप्रवचनावाप्तया परितुष्टमना इत्यर्थ, एषा वृद्धव्याख्या, अपरेत्वाहुः - उच्छ्रितः - अर्गलास्थानादपनीय ऊर्ध्वोकृतो न तिरश्चीनः, कपाटपश्चाद्भागादपनीत इत्यर्थः उत्सृतो वा अपगतः परिधा - अर्गला गृहद्वारे यस्यासौ उच्छ्रितपरिघ उत्सृतपरिघो वा, औदार्यातिरेकतोऽतिशयदानदायित्वेन भिक्षुकप्रवेशार्थमनर्गलितगृहद्वार इत्यर्थः, ‘अवंगुयदुवारे' अप्रावृतद्वारः भिक्षुकप्रवेशार्थं कपाटानामपि पश्चात्करणात्, वृद्धानां तु भावनावाक्यमेवं सम्यगदर्शनलाभे सति न कस्माच्चित् पाखण्डिकाद्विभेति शोभनमार्गपरिग्रहेण उद्घाटितशिरास्तिष्ठतोति भावः ।
'चियत्तंतेउरघरपवेसे' 'वियत्ते' ति नाप्रीतिकरः अन्तःपुरगृहे प्रवेशः- शिष्टजनप्रवेशनं यस्य स तथा अनेनानीर्ष्यालुत्वमस्योक्तम्, अथवा चियत्तः - प्रीतिकरो लोकानामन्तः पुरे गृहे वा प्रवेशो यस्यातिधार्मिकतया सर्वत्रानाशङ्कनीयत्वात् स तथा, 'चाउदसमुद्दिट्ठपुन्नमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालेमाणे' इति, चतुर्द्दश्यामष्टम्यामुद्दिष्टमित्यवमावास्यां पोर्णमास्यांच प्रतिपूर्णम् - अहोरात्रं यावत् षोषधम् - आहारादिपोषधं सम्यक् अनुपालयत् ।
'पीढफलगे 'ति पीढम् - आसनं फलकम् - अवष्टम्भार्थं 'सिज्जा' वसति शयनं वा यत्र प्रसारितपादैः सुप्यते संस्तारको लघुतरः 'वत्थपडिग्गहकंबलपायपुंछणेणं' ति वस्त्रं प्रतीतं भक्तं पानं वा गृह्णातीति पतद्ग्रहः लिहादित्वादचपत्ययः - पात्रं पादप्रोञ्छनकं - रजोहरणं औषधं प्रतीतं भेषजं - पथ्यं 'अहापरिग्गहेहिं तवोकम्मोह अप्पाणं भावेमाणे विहरइ' सुगमं, क्वचित्पाठः'बहूहिं सीलव्वयगुणवेरमणपोसहोववासेहिं अप्पाणं भावेमाणे विहरइ' इति, तत्र शीलव्रतानिस्थूलप्राणातिपातविरमणादीनि गुणव्रतानि - दिव्रतानि - दिव्रतादीनि पौषधोपवासाःचतुर्द्दश्यादिपर्वतिथ्युपवासादिस्तैरात्मानं भावयंन् विहरति आस्ते ॥
मू. (५६) तए णं से जियसत्तुराया अन्नया कयाइ महत्थं जाव पाहुडं सज्जेइ २ त्ता चित्तं सारहिं सद्दावेइ सद्दावित्ता एवं वयासी- गच्छाहि णं तुमं चित्ता ! सेयवियं नगरिं पएसिस्स रन्नो इमं महत्थं जाव पाहुडंउवणेहि, मम पाउग्गंच णं जहाभणियं अवितहमसंदिद्धं वयणं विन्नवेहित्तिकड विसज्जिए ।
तणं से चित्ते सारही जियसत्तुणा रन्ना विसज्जिए समाणे तं महत्थं जाव गिण्हइ जाव जियसत्तुस्स रन्नो अंतियाआ पडिनिक्खमइ २ त्ता सावत्थीनगरीएमज्झंमज्झेणं निग्गच्छइ २ जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छति २ त्तां तं महत्थं जाव ठवइ, पहाए जाव सरीरे सकोरंट० महया० पायचारविहारेण महया पुरिसवग्गुरापरिक्खित्ते, रायमग्गमोगाढाओ आवा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org