________________
२९८
राजप्रश्नीयउपाङ्गसूत्रम्-४०
तस्य च हृदस्य उत्तरपूर्वस्यां दिशि अत्र महत्येकाअभिषेकसभा प्रज्ञप्ता, सा च सुधर्मसभावत् प्रमाणस्वरूपद्वारत्रयमुखमण्डपादिप्रकारेण तावद्वक्तव्यायावद् गोमानसीवक्तव्यता, तदनन्तरं तथैव उल्लोकवर्णनं भूमिभागवर्णनं च तावत् यावन्मणीनां स्पर्श, तस्या अभिषेकसभाया बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे महत्येका मणिपीठिका प्रज्ञप्ता, साऽप्यष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्यतः ‘सव्वरयणामयी' इत्यादि प्राग्वत् ।
___ तस्या मणिपीठिकाया उपरि अत्र महदेकं सिंहसनं, सिंहासनवर्णकः प्राग्वत्, नवरमत्र परिवारभूतानि भद्रासनान च वक्तव्यानि, तस्मिंश्च सिंहासने सूर्याभस्य देवस्य सुबहु अभिषेकभाण्डम्-अभिषेकयोग्य उपस्कारः सन्निक्षिप्तः तिष्ठति, 'तीसेणंअभिसेयसभाए अट्ठमंगलका' इत्यादि प्राग्वत्, तस्याश्चअभिषेकसभाया उत्तरपूर्वस्यां दिशिअत्र महत्येकाअलङ्कारसभा प्रज्ञप्ता, साचाभिषेकसभावत्प्रमाणस्वरपद्वारत्रयमुखमण्डपप्रेक्षागृहमण्डपादिवर्णनप्रकारण तावद्वक्तवया यावद् परिवारसिंहासनं, तत्र सूर्याभस्य देवस्यअलङ्कारिकं-अलङ्कारयोग्यंभाण्डं संनिक्षिप्तमस्ति, शेषां प्राग्वत्।
तस्याश्च अलङ्कारसभाया उत्तरपूर्वस्यां दिशि अत्रमहत्येका व्यवसायसभा प्रज्ञप्ता, साच अभिषेकसभावत् प्रमाणस्वरूपद्वारत्रयमुखमण्डपादिचर्णनम्कारेणतावद्वक्तव्यायावतसिंहासनं सपरिवारं, तत्रमहदेकंपुस्तकरलं सन्निक्षिप्तमस्ति, तस्य च पुस्तकरलस्यअयमेतद्रूपो ‘वर्णावासो' वर्णकनिवेशः प्रज्ञप्तः, रिष्ठमय्यौ-रिष्ठरलमय्यौ कम्बिके पृष्ठके इतभावः, रत्नमयो दवरको यत्र पत्राणिप्रोतानि सन्ति, नानामणिमयोग्रन्थिदवरकस्यादौ येन पत्राणिननिर्गच्छन्ति, अङ्करलमयानि पत्राणि, नानामणिमयं लिव्यासनं, मषीभाजनमित्यर्थः, तपनीयमयी शृङ्खला मषीभाजनसत्का, रिष्ठरलमयं उपरितनं तस्य छादनं, रिष्ठमयी-रिष्ठरत्नमयी मषी, वज्रमयी लेखनी, रिष्ठमयान्यक्षराणि, धार्मिकं लेख्यं, कवचित्
धम्मिए सत्थे' इति पाठः, तत्र धार्मिकं शास्त्रमिति व्याख्येयं, तस्याश्च उपपातसभाया उत्तरपूर्वस्यां दिशिमहदेकं बलिपीठंप्रज्ञप्तं, तच्चाष्टीयोजनानिआयामविष्कम्भतः चत्वारियोजनानि बाहल्यतः सर्वरत्नमयं 'अच्छ' मित्यादि प्राग्वत् । तस्य च बलिपीठस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका नन्दापुष्करिणी प्रज्ञप्ता, सा च हृदप्रमाणा, हृदस्येव च तस्या अपि त्रिसोपानवर्णनं तोरणवर्णनं च प्राग्वत्।
तदेवं यत्र याद्दगपंच सूर्याभस्य देवस्य विमानं तत्रताध्यूपंचोपनर्णितं, सम्प्रति सूर्याभो देव उत्पन्नः सन् यदकरोत् यथा च तस्याऽभिषेकोऽभवत् तदुपदर्शयति
मू.(४१) तेणंकालेणंतेणंसमएणं सूरियाभे देवेअहुणोववण्णभित्तएचेवसमाणे पंचविहाए पज्जत्तीए पज्जत्तीभावंगच्छइ, जहा-आहारपजत्तीएसरीरपजत्ती इंदियपज्जत्तीएआणपाणपजत्तीए भासामणपज्जत्तीए।
तएणंतस्ससूरियाभस्स देवस्स पंचविहाए पजत्तीए पजत्तीभावंगयस्स समाणस्स इमेयारूवे अब्भत्थिए चितिए पत्थिए मनोगए संकप्पे समुपज्जित्था-किं मे पुट्विं करणिजं? किं मे पच्छा करणिजं? किं मे पुब्बिं सेयं? किंमे पच्छा सेयं? कि मे पुबिपि पच्छावि हियाए सुहाए खमाए निस्सेसाए आनुगामियत्ताए भविस्सइ ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org