SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २९६ राजप्रश्नीयउपाङ्गसूत्रम्-३९ वर्णकनिवेशःप्रज्ञप्तः, तपनीयमयानि हस्ततलपादतलानि अङ्करलमयाअन्तः-मध्ये लोहिताक्षरलप्रतिसेका नरवाः कनकमया जङघाः कनकमयानि जानूनि कनकमया ऊरवः कनकमय्यो गात्रष्टयः तपनीयमयानाभयोरिष्ठमय्योरोमराजयः तपनीयमयाःचुचुकाः-स्तनाग्रभागाः तपनीयमयाः श्रीवृक्षाः शिलाप्रवालमयाविद्रममया ओष्ठाः स्फटिकमया दन्ताः तपनीयमया जिह्वाः तपनीयमयानि तालुकानि कनकमय्यो नासिकाः अन्तर्लोहिताक्षप्रतिसेकाः अङ्कमयान्यक्षीणि अन्तर्लोहिताक्षप्रतिसेकानि रिष्ठनमयानि अक्षिपत्राणि रिष्ठरत्नमय्यो ध्रुवः कनकमयाः कपोलाः कनकमयाः श्रवणाः कनकमय्यो ललाटपट्टिकाः वज्रमय्यः शीर्षघटिकाः तपनीयमय्य केशान्तकेशभूयः, केशान्तभूमयः केशभूमयश्चेतिभावः, रिष्ठमया उपरिमूर्द्धजाः-केशाः, तासां जिनप्रतिमानांपृष्ठत एकैकाछत्रधारप्रतिमा हिमरजतकुन्देन्दुप्रकाशंसकोरेण्टमाल्यादिधवलमातपत्रंगृहीत्वा सलीलं घरन्ती तिष्ठति, तथा तासांजिनप्रतिमानांप्रत्येकमुभयोः पार्श्वयोद्वेचामरधारप्रतिमेप्रज्ञप्ते। तेच 'चंदप्पभवयरवेरुलियनानामणिरयणखचियचित्तदंडाओ' इति चन्द्रप्रभः-चन्द्रकान्तो वज्रं वैडूर्यं च प्रतीतं चन्द्रप्रभवज्रवैडूर्याणि शेषाणि च नानामणिरत्नानि खचितानि येषु दण्डेषु ते तथा, एवंरूपाश्चित्रा-नानाप्रकारा दण्डा येषां तानि तथा, सूत्रे स्त्रीत्वं प्राकृतत्वात्, ‘सुहुमरययदीहवालाउ' इति सूक्ष्मा रजतमया दीर्घा वाला येषां तानि तथा संखंककुंददगरयअमयमहियफेणपुंजसन्निकासाओधवलाओ' इतिप्रतीतं, चामराणि गृहीत्वा सलीलं वीजयन्त्यस्तिठन्ति, ताश्च ‘सव्वरयणामईओ अच्छाओ' इत्यादि प्राग्वत् । 'तासि ण' मित्यादि, तासां जिनप्रतिमानां पुरतो द्वे द्वे नागप्रतिमे द्वे द्वे यक्षप्रतिमें द्वे द्वे भूतप्रतिमेद्वे द्वे कुण्डधारप्रतिमे सन्निक्षिप्ते तिष्ठतः, तस्मिंश्च देवच्छन्द तासां जिनप्रतिमानांपुरतः अष्टशतं घण्टानामष्टशतं चन्दनकलशानामष्टशतं मङ्गलकलशानामष्टशतं भृङ्गाराणामष्टशतमादर्शानामष्टशतं स्थालानामष्टशतं पात्रीणामष्टशतं सुप्रतिष्ठानामष्टशतं मनोगुलिकानांपीठिकाविशेषाणामष्टशतंवातकरणामष्टशतंचित्राणांरत्नकरण्डकाणामष्टशतं हयकण्ठानामष्टशतं गजकण्ठानां अष्टशतं नरकण्ठानामष्टशतं किन्नरकण्ठानामष्टशतं किंपुरुषकण्ठानामष्टशतं महोरगकण्ठानामष्टशतं वृषभकण्ठानामष्टशतं पुष्पचङ्गेरीणामष्टशतं माल्यचङ्गेरीमां, मुकुलानि पुष्पाणि ग्रथितानि माल्यानि। अष्टशतं चर्णचङ्गेरीणामष्टशतं गन्धचङ्गेरीणामष्टशतं वस्त्रचङ्गेरीणामष्टशतमाभरणचङ्गेरीणामष्टशतं सिद्धार्थचङ्गेरीनामष्टशतंलोमहस्तचङ्गेरीणां, अष्टशतंलोमहस्तकानां, लोमहस्तकं च मयूरपुच्छपुअनिका, अष्टशत् पुष्पपटलकानामेवं माल्यचूर्णगन्धवसभरणसिद्धार्थकलोमहस्तकपटलकानामपिप्रत्येकं २ अष्टशतंवक्तव्यं, अष्टशतं सिंहासनानामष्टशतंछत्राणामष्टशतं चामराणामष्टशतं तैलसमुद्गकानामष्टशतं कोष्ठसमुद्गकानामष्टशतं पत्रसमुद्गकानामष्टशतं चोयकसमुद्गकानामष्टशतं तगरसमुद्गकानामष्टशतमेलासमुद्गकानामष्टशतं हरितालसमुद्गकानामष्टशतं हिङ्गुलकसमुद्गकानामष्टशतंमनःशिलासमुद्गककानामष्टशतमञ्जनसमुद्गकानांसर्वाण्यपि अमूनि तैलादीनि परमसुरभिगन्धोपेतानि, अष्ठशतंध्वजानाम्, अत्रसङ्ग्रहणिगाथा ॥१॥ "चंदनकलसा भिंगारगा य आयंसया य थाला य । पातीई सुपइट्टा मणगुलिका वायकरगा य॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy