________________
२३२
राजप्रश्नीयउपाङ्गसूत्रम्-१५
वैडूर्यरत्नमया विमलाः स्तम्भा यत्र तत् सुश्लिष्टविशिष्टसंस्थितप्रशस्तवैडूर्यविमलस्तम्भ, तथा नाना मणयः खचिता यत्र भूमिभागे स नानामणिखचितः सुखादिदर्शनात् क्तान्तस्य पाक्षिकः परनिपातः नाणामणिखचित उज्वलो बहुसमः-अत्यन्तसमः सुविभक्त भूमिभागो यत्र तत् नानामणिखचितोज्जवलबहुसमसुविभक्तभूमिभागं, तथा इहामृगा-वृकाः ऋषुभतुरगनरमगरविहगाः प्रतीताः व्यालाः-स्वापदभुजगाः किंनरा-व्यन्तरविशेषाःरूरवो-मृगाःसरभाः आटव्या महाकायाः पशवःचमरा-आटव्यागावःकुञ्जरा-दन्तिनःवनलता-अशोकादिलताः पद्मलताः-पद्मिन्यः
___एतासां भक्त्या-विच्छित्या चित्रम्-आलेखो यत्र तदिहामृगऋषभतुरगनरमकरविहगव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापद्मलताभक्तिचित्रं, तथा स्तम्भोद्गतयास्तम्भोपरिवर्त्तिन्या वज्ररत्नमय्या वेदिकया परिगतं सद् यदभिरामं तत् स्तम्भोद्गतवज्रवेदिकापरिगताभिरामं, तथा स्तम्भो द्गतया-स्तम्भोपरिवर्त्तिन्या वज्ररत्नमय्या वेदिकया परिगतं सद् यदभिरामं तत् स्तम्भोद्गतवज्रवेदिकापरिगताभिरामं, 'विजाहरजमलजुगलजन्तजुत्तं पिव अच्चीसहस्समालिणीय मिति विद्याधरन्तीति विद्याधरा-विशिष्टविद्याशक्तिमन्तः तेषांयमलयुगला नि-समानशीलानि नद्वानितेषांयन्त्राणि-प्रपञ्चाविशेषास्तैर्युक्तमिव अर्चिषां-मणिरत्नप्रभाज्वालानां सहस्रमालनीयं-परिचारणीयं, किमुक्तं भवति।
___ एवं नाम अत्यद्भुतैर्मणिरलप्रभाजालैराकलितमिव भाति यथा नूनमिदं न स्वाभाविकं, किन्तु विशिष्टविद्याशक्तिमुत्पुरुषप्रपञ्चप्रभावितामिति, 'रूवगसहस्सकलितंभिसिमाणंभिब्भिसमाणं चकखुल्लोयणलेसं सुहफासं सस्सिरीयरूव मिति प्राग्वत्, कचिदेतन दृश्यते, 'कञ्चणमणिरयणथूभियाग'मितिकाञ्चनंचमणयश्च रत्नानिचकाञ्चनमणिरत्नानितेषां तन्मयी स्तूपिकाशिखरंयस्य तत्तथानानाविधाभि-नानाप्रकाराभि पञ्चवर्णाभिर्घण्टाभिपताकाभिश्चपरि-सामस्त्येन मण्डितमग्रं-शिखरंयस्य तन्नानाविधपञ्चवर्णघण्टापताकापरिमाण्डिताग्रशिखरं, चपलं-चञ्चलं चिकचिकीयमानत्वात् मरीचिकवचं-किरणजालपरिक्षेपं विनिर्मुञ्चत् ‘लाउल्लोइयमहिय'मिति लाइयं नाम-यद्भूमेर्गोमयादिनोपलेपनं उल्लोइयं-कुडयानांमालस्यच सेटिकादिभिस्मृष्टीकरणं लाउल्लोइयाभ्यामिव महितं-पूजितं लाउल्लोइयमहियं ।।
तथा गोशीर्षेण-गोशीर्षनामकचन्दनेन ददरेण-बहलेन चपेटाकारेण वा दत्ताः पञ्चाङ्गुलयस्तला--हस्तका यत्र तद्गोशीर्षरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलं, तथा उपचितानिवेशिताः चन्दनकलशा-मङ्गलकलशा यत्र तदुपचितचन्दनकलशं, 'चंदनघडसुकयतोरणपडिदुवारदेसभागमिति' चन्दनघटैः-चन्दनकलशैः सुकृतानिसुष्ठुकृतानि शोभितानीतितात्पर्यार्थ, यानि तोरणानि तानि चन्दनघटसुकृतानि तानि तोरणानि प्रति द्वारकेशभाग-द्वारदेशभागे यत्र तत् चन्दघटसुकृततोरणप्रतिद्वारदेशभागं, तथा 'आसतोत्सत्तविपुलवट्टवग्धारियमल्लदामकलाव मितिआ-अवाङ् अधोभूमौ लग्न इत्यर्थः, उत्सक्तं-ऊर्ध्वसक्तं उल्लोतले उपरि सम्बद्ध इत्यर्थः विपुलो-विस्तीर्णवृत्तो-वर्तुलः वग्धाग्यि इति-प्रलम्बितोमाल्यदामकलापः-पुष्पमालासमूहो यत्र तदासक्तोत्सक्तविपुलवृत्तप्रलम्बितमाल्यदामकलापं ।
तथापञ्चवर्णेन सरसेन-सच्छायेन सुरभिणामुक्तेन-क्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेणपूजयाकलितं पञ्चवर्णसरससरभिमुक्तपुष्पपुोपचारकलितं, 'कालागुरुपवरकुन्दुरुक्कतुरुक्कघूव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org