________________
मूलं-५
२११
वृ. 'तत्र' तस्मिन्विपुलेनावधिना जम्बूद्वीपविषये दर्शने प्रवर्त्तमाने सति 'श्रमणं' श्राम्यतितपस्यति नानाविधमिति श्रमणः, भगः - समग्रैश्वर्यादिलक्षणः, उक्तं च“ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ।।"
11 9 11
भगोऽस्यास्तीति भगवान् भगवन्तं 'सूर वीर विक्रन्तौ' वीरयति - कषायान् प्रति विक्रमति स्मेति वीरः महांश्चासौ वीरश्च महावीरस्तं, जम्बूद्वीपे भारते वर्षे आमलकल्पायां नगर्यां बहिराम्रशालवने चैत्ये अशोकवरपादपस्याधः पृथिवीशिलापट्टके सम्पर्यङ्कनिष्णणं श्रमणगणसमृद्धिसंपरिवृत प्रतिरूपमवग्रहं गृहीत्वा संयमेन तपसा आत्मानं भावयन्तं पश्यति, दृष्ट्वा च - 'हट्ठतुट्ठमानंदिए ' इति, हृष्टतुष्टोऽतीवतुष्ट इति भावः, अथवा हृष्टो नाम विस्मयमापन्नो, यथा-अहो भगवानास्ते इति, तुष्टः – सन्तोषं कृतवान्, या - भव्यमभूत् यन्मया भगवानालोकितः, तोषवशादेव चित्तमानन्दितं - स्फीतीभूतं 'टु नदि समृद्धावि' ति वचना, यस्य स चित्तानन्दितः, सुखादिदर्शनात्पाक्षिको निष्ठान्तस्य परनिपातः, मकारः प्राकृतत्वादलाक्षणिकस्ततः पदत्रयस्य पदद्वय मीलने कर्मधारयः 'पीइमणे इति' प्रीतिर्मनसि यस्यासौ प्रीतिमनाः, भगवति बहुमानपरायण इति भावः, ततः क्रमेण बहुमानोत्कर्षवशात् 'परमसोमनस्सिए' इति शोभनं मनो यस्य स सुमनास्तस्य भावः सौमनस्यं परमं च तत्सौमनस्यं च परमसौमनस्यं तत्सञ्जातमस्येति परमसौमनस्थितः, एतदेव व्यकीकुर्व्वनाह-'हरिवसवसविसप्पमाणहियए' हर्षवशेन विसप्पत्-विस्तारयायि हृदयं यस्य स हर्षवशविसर्प्पद्धदयः हर्षवशादेव 'वियसियवरकमलनयणे' विकसिते वरकमलवत् नयने यस्य स तथा हर्षवशादेव शरीरोद्धर्षेण 'पयलियवरकडगतुडियकेउरमउडकुंडले 'ति प्रचलितानि वराणि कटकानि-कलाचिकारभारणानि त्रुटितानि - बाहुरक्षकाः केउराणि - बाह्लाभरणगतुयकेउरमउडकुंडलेति प्रचलितानि वराणि कटकानि - कलाचिकाभरणानि त्रुटितानि बाहुरक्षकाः केउराणि–बाह्याभरणविशेषरूपाणि मुकुटो मौलिभूषणं कुण्डले कर्णाभरणे यस्य स प्रचलितवरकटकत्रुटितकेयूरमुकुटकुण्डलः ।
तथा हारेण विराजमानेन रचितं-शोभितं वक्षो यस्य स हारविराजमानरचितवक्षाः, ततः पूर्वपदेन कर्मधारयः समासः, तथा प्रलम्बते इति प्रलम्बः - पदकस्तं प्रलम्बमानं - आभरणविशेषं घोलन्ति च भूषणानि धरन्तीति प्रलम्बप्रलम्बमानघोलद्भूषणधरः, सूत्रे च प्लम्बमानपदस्य विशेष्यात्परतो निपातः प्राकृतत्वात्, हर्षवशादेव 'ससंभमं' संभ्रम इह विवक्षितक्रयाया बहुमानपूर्विका प्रवृत्ति सह सम्भ्रमो यस्य वन्दनस्य नमनस्य वा तत्सम्प्रभमं, क्रयाविशेषणेतत् त्वरितं - शीघ्रं पञ्च्चोरुहति २ त्ता पाउया ओमुयइ ओमुयइत्ता तित्थयराभिमुहे सत्तट्ठपयाई अनुगच्छइ अनुगच्छित्ता वामं जाणु अंचेइ (उफत्पाटयति) दाहिणं जाणु धरमितलंसि निहट्टु तिखुत्तो मुद्धाणं धरणितलंसि निमेs निमित्ता (निवेसेइ २ त्ता) ।
ईसिंपन्नमइ पत्रमित्ता कडियतुडियथंभियभुयाओ साहरइ साहरित्ता करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी- नमोऽत्युं णं अरिहंताणं भगवंताणं जाव ठाणं संपत्ताणं, नमोऽत्थुणं समणस्स भगवओ महावीरस्स आदिगरस्स तित्थयरस्स जाव संपाविउकामस्स, वंदामि ण भगवंतं तत्थगयं इह गए इति परिग्रहः पश्यति मां स भगवान् तत्र गत इह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org