SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ २०६ राजप्रश्नीयउपाङ्गसूत्रम्-४ ___ उच्यते, जलस्यातिभृतेकुण्डे पुरुषेस्त्रियांवानिवेशितायांयजलंनिस्सरतितद्यदि द्रोणप्रमाणं भवति तदापुरुषः स्त्री वा मानप्राप्त उच्यते, तथा उन्मानं-अर्द्धभारप्रमाणता, साचैवं-तुलायामारोपितः पुरुषः स्त्रीवा यद्यद्धभारंलति तदास उन्मानप्राप्तोऽभिधीयते, प्रमाणं-स्वाङ्गुलेनाष्टोत्तरशतोच्छ्रयिता, ततो मानोन्मानप्रमाणैः प्रतिपूर्णानि अन्यूनानि सुजातानिजन्मदोषरहितानिअरौद्राकारंकान्तं-कमनीयं प्रियं-द्रष्टणामानन्दोत्पादकंदर्शनं-रूपं यस्याः सा शशिसोमाकारकान्तप्रियदर्शना, अतएव सुरूपा, तथा करतलपरिमितो-मुष्टिग्राह्यः प्रशस्तलक्षणोपेतस्त्रिवलीको बलिवयोपेतो रेखात्रयोपेतो बलिको-बलवान मध्योमध्यभागो यस्याः सा करतलपरिमितप्रशस्तत्रिवलीक बलिकमध्या।। तथा कुण्डलाभ्या उल्लिखिता-घृष्टा गण्डलेखा-कपोलविरचितमृगमदादिरेखा यस्याः सा कुण्डलोल्लिखितगण्डलेखा, 'कोमुईयरयणियरविमलपडिपुन्नसोमवयणा' कौमुदी-कार्तिकीपौर्णमासी तस्यां रजनिकरः-चंद्रमास्तद्वद्विमलं-निर्मलं प्रतिपूर्णम्-अन्यनातिरिक्तमानं सौम्यम्-अरौद्राकारंवदनं यस्याः सा तथा, शृङ्गारस्यरसविशेषस्यागारमिवागारं, अथवा शृङ्गारोमण्डनभूषणाटोपस्तप्रधान आकारः-आकृतिर्यस्याः सा तथा, चारु वेषो-नेपथ्यं यस्याः सा तथा, ततः कर्मधारयः, शृङ्गारागारचारुवेषा, तथा सङ्गतायेगतहसितभणितचेष्टितविलासललितसंलापनिपुणयुक्तोपचारकुशला, तत्र सङ्गतं नासङ्गतं गतं यदगुप्ततया तद्गृहस्यैवान्तर्गमनंनतु बहि स्वेच्छाचारितया सङ्गतं हसितं यत्करपोलविकाशमात्रसूचितं न त्वट्टहासादि 'हसियं कषोलकहकहिय' मिति वचनात्।। सङ्गतंभणितंयत्समागते प्रयोजने नर्मभाणितिपरिहारेण विवक्षितार्थमात्रप्रतिपादनं सङ्गतं चेष्टितं यत्कुचजघनाद्यवयवाच्छादनपरतयोपवेशनशयनोत्थानादिसङ्गतो विलासःस्वकुलौचित्येन शृङ्गारादिकरणं, तथा सुन्दरै स्तनजघनवदनकरचरणनयनलावण्यविलासैः कलिता, अत्र विलासः-स्थानासनगमनादिरूपश्चेष्टाविशेषः, उकतंच॥१॥ ___ "स्थानासनगमनानां, हस्तभूनेवकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टोऽसौ विलासः स्यात् ।।" -अन्ये त्वाहुः-विलासो नेत्रजो विकारः, तथा चोक्तं॥१॥ “हावो मुखविकारः स्यात्, भावश्चित्तसमुद्भवः । विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रूसमुद्भवः॥" तेणं कालेणं ते णं समएणं समणे भगवं महावीरे जाव चउतीसबुद्धवयणाइसेससंपत्ते पणतीसच्चवयणातिसेससंपत्ते आगासगएणं चक्केणं आगासगतेणं छत्तेणं आगासगयाहिं सेयचामराहिं आगासफालिहमएणं सपायपीढेण सीहासणेण पुरतो धम्मज्झएणं पगढिज्जमाणेणं चउदसहिं समणसाहस्सीहिं छत्तीसाए अज्जियासहस्सीहिं सद्धिं सम्परिवुडे पुव्वाणुपुब्बिं चरमाणे गामाणुगामं दुइज्जमाणे सुहं सुहेणं विहरमाणे जेणेव आमलकप्पा नयरी जेणेव वनसंडे जेणेव असोगवरपायवे जेणेव पुढविसिलापट्टे तेणेव उवागच्छइ, २त्ताअहापडिरूवं उग्गहंउग्गिहित्ता असोगरपायवस्सअह पुढविसिलापट्टगंसिपुरत्याभिमुहे संपलिअंकनिसन्ने संजमेणंतवसाअप्पाणं भावेमाणे विहरति"। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy