________________
२०४
राजप्रश्नीयउपाङ्गसूत्रम्-४ दुभिक्खदोसमारिभयविप्पमुक्क खेमं सिवं सुभिक्खं पसंतडिंबडमरं रज्जं पसासेमाणे विहरइ ।
___ तस्स णं सेयोरन्नो धारिणीनामं देवी होत्था, सुकुमालपाणिपाया अहीनपडिपुन्नपंचिंदियसरीरालक्खणवंजणगुणोववेया माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुंदरंगा ससिसोमागारकंतपियदंसणासुरूवाकरयलपरिमियपसत्थतिवलिबलियमज्झा कुंडलुल्लिहिय (वीण) गंडलेहा कोमुइयरयणियरविमलपडिपुन्नसोमवयणा सिंगारागारचारूवेसा संगयगसहसियभणियचिट्ठियविलासललियसंलावन्उणजुत्तोवयारकुसला सुंदरथणजघनवयणकरचरणनयनायण्णविलासकलिया सेएण रन्ना सद्धिं अनुरता अविरत्ता इढे सद्दफरिसे रसरूवगंधे पंचविहे माणुस्सएकामभोगे पञ्चणुभवमामा विहरइ एष राजदेवीवर्णकः ।
___ अस्य व्याख्या-'महयाहिमवंतेति' महाहिमवान् हैमवतस्य क्षेत्रस्योत्तरतः सीमाकारी वर्षधरपर्वतः मलयः-पर्वतविशेषः सुप्रतीतोमन्दरो-मेरुमहेन्द्रः शक्रदिकोदेवराजस्तद्वत सार:प्रधानो महाहिमवन्महामलयमन्दरमहेन्द्रसारः, तथा अत्यन्तविशुद्ध राजकुलवंशेप्रसूतोऽत्यन्तविशुद्धराजकुलवंशप्रसूतः, तथा निरन्तरंरायलकखमविराइयंगमंगे' इति निरन्तरम्-अपलक्षणव्यवधानाभावेन राजलक्षणैः-राज्यसूचकैर्लक्षणैर्विराजितानि अङ्गमङ्गानि-अङ्गप्रत्यङ्गानि यस्य स निरन्तरराजलक्षमविराजिताङ्गमङ्गः, तथा बहुभिर्जनैः बहुमानेन–अन्तरङ्गप्रीत्या पूजितो बुजनबहुमानपूजितः, कस्मादित्याह ।
“सव्वगुणसमिद्धे' सर्वै शौर्योपशमादिभिर्गुणैः समृद्धः-स्फीतः- सर्वगुणसमृद्धः ततो बहुजनबहुमानपूजितो, गुणवत्सुप्रायः सर्वेषामपिबहुमानसम्भवात्, तथा खत्तिये' इति क्षत्रस्यापत्यं क्षत्रियः 'क्षत्रादिय' इतिइयप्रत्ययः, अनेन नवमाष्टमादिनन्दवत्राजकुलप्रसूतोऽपिनहीनजातीयः, किन्तु उत्तमजातीय इत्यावेदितं, तथा 'मुदितः सर्वकालं हर्षवान्, प्रत्यनीकोपद्रवासम्भवात्, तदसम्भवस्व प्रत्यनीकानामेवाभावात्, तथा चाह-'मुद्धाभिसित्ते' प्रायः सर्वैरपि प्रत्यन्तराजैः प्रतापमसहमानैर्नान्यथाऽस्माकं गतिरिति परिभाव्य सूर्द्धभि मस्तकैरभिषिक्तः-पूजितो मूर्धाभिषिक्तः, तथामातृपितृभ्यां सुजातो मातृपितृसुजातः, अनेन समस्तगर्भाधानप्रभृतिसम्भविदोषविकल इत्यावेदितः, तथा दया(द्रव्य)प्राप्तः स्वभावतः सुद्धजीवद्रव्यत्वाद् ।
तथा सेवागतानामपूर्वापूर्वनृपाणां सीमां-मर्यादां करोति यथा एवं वर्तितव्यमेवं नेति सीमङ्करः, तथा पूर्वपुरुषपरम्परायातां स्वदेशप्रवर्त्तमानां सीमां-मर्यादां धारयति-पालयति न तुविलुम्पतीतिसीमन्धरः, तताक्षेमं वशवर्तिनांउपद्रवाभावं करोति क्षेमकरः चौरादिसंहारात् तथा तत् धारयति आरक्षकनियोजनात् क्षेमन्धरः, अत एव मनुष्येनद्र, तथा जनपदस्य पितेव जनपदपिता, कथं पितेवेत्यत आह–'जनपदपालः' जनपदंपालयतीतिजनपदपालः, ततो भवति जनपदस्य पितेव, तथाजनपदस्य शान्तिकरितयापुरोहितइह जनपदपुरोहितः, तथा सेतुः-मार्गस्तं करोतीती सेतुकरः,मार्गदशकइतिभावः, केतुः-चिहन्नतत्करोतीति केतुकरः, अद्भुतसंविधानकारीतिभावः, तथा नरेषु मनुष्येषु मध्ये प्रवरो नरप्रवरः सच सामान्यमनुष्यापेक्षयापिस्यादत आह
'पुरिसवरे' पुरुषेषु-पुरुषाभिमानानेषु मध्ये वरः-प्रधान उत्तमपौरुषोपेतत्वादिति पुरुषवरः, यतः पुरुषः सिंह इवाप्तिमल्लतया पुरुषसिंहः, तथा पुरुषो व्याघ्रइवशूरतयापुरुषव्याघ्रः, पुरुष आसीविष इव दोषविनाशनशीलतया पुरुषासीविषः पुरुषः वरपुण्डरीकमिवोत्तमतया
Jain Education International
For Private & Personal Use Only
For P
www.jainelibrary.org