________________
१७२
औपपातिकउपाङ्गसूत्रम्-५० यः स तथा, त्यक्तौ वा गृहान्तःपुरयोरकस्मात् प्रवेशो येन स तथा, 'चउद्दसअठ्ठमुद्दिठ्ठपुन्नमासिणीस'त्ति उद्दिष्टा-अमावास्या 'पडिपन्नं पोसहं अनुपालेमाणे'त्ति आहारपौषधादिभेदाच्चतूरूपमपीति, 'समणे निग्गंथे फासुएसणिज्जेणं असनपानखाइमसाइमेणं वत्थपडिग्गहकम्बलपायपुच्छणेणं' अत्र च पडिग्गहत्ति-प्रतिग्रहः पतद्ग्रहो वा-पात्रं पायपुच्छणंति-पादप्रोक्षणं रजोहरणं 'ओसहभेसज्जेणं तिऔषधम्-एकद्रव्याश्रयं भैषज्यं-द्रव्यसमुदायरूपमथवा औषधंत्रिफलादि भैषज्यं-पथ्यं पाडिहारिएणं पीढफलगसेज्जासंथारएणंपडिलाहेमाणे'त्तिप्रतिहारः-प्र त्यर्पणं प्रयोजन मस्येति प्रातिहारिकं तेन पीठम्-आसनं फलकम्-अवष्टम्भनार्थः काष्ठविशेषः
शय्या-वसतिः शयनं वा यत्र प्रसारितपादैः संस्तारको-लघुतरं शयनमेव ‘सीलव्वयगुणवेरमणपञ्चक्खाणपोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावमाणे त्ति शीलव्रतानि-अणुव्रतानि गुणा-गुणव्रतानि विरमणानि-रागादिविरतिप्रकाराः प्रत्याख्या-नानि नमस्कारासहित्तादीनि पौषधोपवासः-अष्टम्यादिपर्वदिनेषूपवसनम्, आहारादित्याग इत्यर्थः, 'नो कप्पइअक्खसोयप्पमाणमेत्तंपिजलंसयराहं उत्तरित्तए' अक्षश्रोतःप्रमाणा-गन्त्रीचक्रनाभिच्छिद्रप्रमाणा मात्रा यस्य तत्तथा, सयराहं-अकस्मात् हेलयेत्यर्थः, 'आहाकम्मिए' इत्यादि व्यक्तं, नवरं 'रइए इव'त्ति रचितम्-औद्देशिकभेदो यन्मोदकचूर्णादि पुनर्मोदकतया कूरदध्यादिकंवा वत्करम्बकादितया विरचितं तद्रचितमित्युच्यते, इह चेतिशब्द उपप्रदर्शने, वाशब्दो विकल्पे,
___ ‘कान्तारभत्ते इ वत्ति कान्तारम्-अरण्यं तत्र भिक्षुकाणां निर्वाहणार्थं यत्संस्क्रियते तत्कान्तारभक्तमिति, 'दुब्भिक्खभत्ते इ व्व'त्ति दुर्भिक्षभक्तं यद्भिक्षुकार्थं दुर्भिक्षे संस्क्रियते, औद्देशिकादिभेदाश्चैते, 'वद्दलियाभत्ते इ वत्ति वर्दलिका-दुर्दिनं 'गिलाणभत्ते इ वत्ति ग्लानः सन्नारोग्याय यद्ददाति तद् ग्लानभक्तं ‘पाहुणगभत्ते इ वत्ति प्राघूर्णाकः-कोऽपि क्वचिद्गतो वप्रतिसिद्धयेसंस्कृत्य ददातिप्राधर्णकावा-साध्वादयइहायाता इतियहापवतितमार्णकभक्तं 'मूलभोयणे इव'त्ति मूलानिपद्मासिर्ना टिकादीनां यावत्करणादिदं पदत्रयं दृश्यं 'कन्दमोयणे इ वत्ति कन्दाः-सूरणकन्दादयः ‘फलभोयणे इव'त्ति फलानि आन्त्रादीनां ‘हरियभोयणे इवत्ति हरितानि-मधुरतृणकटुकभाण्डादीनि बीयभोयणे इव'त्ति बीजानि-शालितिलादीनि ‘भोत्तए वत्ति भोक्तुं वा 'पायए वत्ति पातुंवा आधाकर्मकादिपानकादीनीति!
'अवज्झाणायरिए'त्ति अपध्यानेन आदिनाआचरिता-आसेवितोयः अपध्यानस्य वा यदाचरितम्-आसेवनं सोऽनर्थदण्ड इति, ‘पमादायरिए'त्ति प्रमादेन-घृतगुडादिद्रव्याणां स्थगनादिकरणेआलस्यलक्षणेन आचरितोयस्तस्यवायदाचरितंसोऽनर्थदण्डःप्रमादातचरितः प्रमादाचरितं वेति 'हिंसप्पयाणे'त्ति हिंस्रस्य-खड्गादेः प्रदानम्-अन्यस्यार्पणं निष्प्रयोजनमेवेति हिंम्रप्रदानं, पावकम्मोवएसे'त्तिपापकर्मोपदेशः-कृष्याधुपदेशःप्रयोजनंविनेति, सावजेत्तिकट्ठ'त्ति यदिदंजलस्य परिमाणकरणंतज्जलंसावद्यमितिकृत्वाक सावंद्यमपिकथमित्याह-'जीवत्तिकट्ठत्ति जीवा अप्कायिका एत इतिकृत्वा,
अथवा कस्मात्परिपूतं गृह्णातीत्यत आह-सावद्यमितिकृत्वा, एतदेव कुत इत्याह-जीवा इतिकृत्वा, पूतरकादिजीवा इह सन्तीतिकृत्वेति भावः । 'अएन्नउत्थिए वत्ति अन्ययूथिकाअर्हत्सङ्घापेक्षयाअन्येशाक्यादयः 'चेइयाई तिअर्हच्चैत्यानि-जिनप्रतिमाइत्यर्थः ‘नन्नत्थअरहंतेहि वत्ति न कल्पते, इह योऽयं नेति प्रतिषेधः सोऽन्यत्रार्हद्दयः,अर्हतो वर्जयित्वेत्यर्थः, स हि किल For Private & Personal Use Only
www.jainelibrary.org
Jain Education International