________________
१६२
औपपातिकउपाङ्गसूत्रम्-४४
तेनैव बहुकालं भोजनतो यापयन्ति 'उड्डुंडग' ति ऊर्डीकृतदण्डा ये सञ्चरन्ति 'दिसापेक्खिणो' त्ति उदकेन दिशः प्रोक्ष्य ये फलपुष्पादि समुच्चिन्वन्ति 'वाकवासिणो' त्ति वल्कलवाससः 'चेलवासिणो' त्ति व्यक्तं पाठान्तरे ' वेलवासिणो' त्ति समुद्रवेलासन्निधिवासिनः 'जलवासिणो' त्ति ये जलनिमग्ना एवासते, शेषाः प्रतीताः ।
नवरं ‘जलाभिसेयकढिणगाया' इति ये अस्नात्वा न भुञ्जते स्नानाद्वा पाण्डुरीभूतगात्रा इति वृद्धाः, पाठान्तरे जलाभिषेककठिनं गात्रं भूताः - प्राप्ता ये ते तथा, 'इंगालसोल्लिय'त्ति अङ्गारैरिव पक्कं 'कंडुसोल्लियं' ति कन्दुपक्कमिवेति 'पलिओवमं वाससयसहस्समब्महियं' ति मकारस्य प्राकृतप्रभवत्वाद्वर्षशतसहस्रभ्यधिकमित्यर्थः, अथवा पल्योपमं वर्षशतसहस्रमभ्यधिकंच पल्योपमादित्येवं गमनिका ॥
मू. (४४- वर्तते) से जे इमे जाव सन्निवेसेसु पव्वइया समणा भवंति, तंजहा—कंदप्पिया कुक्कइया मोहरिया गीयरइप्पिया नच्चणसीला ते णं एएणं विहारेणं विहरमाणा बहूई वासाई सामण्णपरियायं पाउणंति बहूइं वासाइं सामण्णपरियायं पाउणित्ता तस्स ठाणस्स अनालोइअअप्पडिक्कंता कालमासे कालं किच्चा उक्कोसेणं सोहम्मे कप्पे कंदप्पएस देवेसु देवत्ताए उववत्तारो भवंति, तहिं तेसिं गती तहिं तेसिं गती तहिं तेसिं ठिती, सेसं तं चेव, नवरं पलिओवमं वाससहस्समब्भहियं ठिती ११ ।
से जे इमे जाव सन्निवेसेसु परिव्वायगा भवंति, तंजहा- संखा जोई कविला भिउच्चा हंसा परमहंसा बहुउदया कुडिव्वया कण्हपिरव्वायगा, तत्थ खलु इमे अठ्ठ माहणपरिव्वायगा भवंति, तंजहा -
बृ. 'पव्वइया समण' त्ति निर्ग्रन्था इत्यर्थ, 'कंदप्पिय'त्ति कान्दर्पिकाः - नानाविधहासकारिणः 'कुक्कइय'त्ति कुकुचेनकुत्सितावस्पन्देन चरन्तीति कौकुचिकाः, ये हि भ्रूनयनवदनकरचरणादिभिर्भाण्डा इव तथा चेष्टन्ते यथा स्वयमहसन्त एव परान् हासयन्तीति 'मोहरिय'त्ति मुखरानानाविधासम्बद्धाभिधायिनस्त एव मौखरिकाः 'गीयरइपिय' त्ति गीतेन या रती - रमणं क्रडा सा प्रिया येषां गीतरतयोवा लोकाः प्रियायेषां ते तथा 'सामण्णपरियागं' ति श्रामण्यपर्यायं साधुत्वमित्यर्थ 'पाउणंति' त्ति प्रापयन्ति पूरयन्तीत्यर्थ ११ ।
“परिव्वायगत्ति मस्करिणः ‘संख'त्ति साङ्ख्याः बुद्धयहङ्कारादिकार्यग्रामवादिनः प्रकृतीश्वरयोः जगत्कारणत्वमभ्युपगताः 'जोई 'त्ति योगिनः अध्यात्मशास्त्रानुष्ठायिनः 'कविल' त्ति कपिलो देवता येषां ते कापिलाः, साङ्ख्या एव निरीश्वरा इत्यर्थ, 'भिउच्च' त्ति भृगुः - लोकप्रसिद्ध ऋषिविशेषस्तस्यैते इष्या इति भार्गवाः, 'हंसा परमहंसा बहुउदगा कुलिव्वया' इत्येते चत्वारोऽपि परिव्राजकमते यतिविशेषाः, तत्र हंसा ये पर्वतकुहरपथाश्रमदेवकुलारामवासिनो भिक्षार्थं च ग्रामं प्रविशन्ति, परमहंसास्तु ये नदीपुलिनसमागमप्रदेशेषु वसन्ति चीरकौपीनकुशांश्च त्यक्त्वा प्राणान् परित्यजन्ति ।
बहूदकास्तु ग्रामे एकरात्रिका नगरे पञ्चरात्रिकाः प्राप्तभोगांश्च ये भुञ्जन्त इति, कुटीव्रताः - कुटीचराः, ते च गृहे वर्तमाना व्यपगतक्रधलोभमोहाः अहङ्कारं वर्जयन्तीति, 'कण्हपरिव्वायग’तति कृष्णपरिव्राजकाः परिव्राजकविशेषा एव, नारायणभक्तिका इति केचित् कण्हे अ अरकंडेय, अंबडे य परासरे ।
For Private & Personal Use Only
मू. (४५)
Jain Education International
www.jainelibrary.org