SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १५९ 'वसट्टमयग' त्ति वशेन - विषयपारतन्त्रयेण ऋताः पीडिता वशार्ता, वशं वाविषयपरतन्त्रतां ऋता-गता वशार्तास्ते सन्तो ये मृतास्ते वशार्तमृता वशर्तमृता वा शब्दादिरक्तहरिणादिवदिति 'नियाणमयग' त्ति निदानं कृत्वा बालतपश्चरणादिमन्तो ये मृतास्ते तथा 'अंतोसल्लमयग' त्ति अनुद्धृतभावशल्या मध्यवर्तिभल्लयादिशल्या वा सन्तो ये मृताः 'गिरिपडियग' त्ति गिरेः-पर्वतात्पतिताः गिरिर्वा - महापाषाणः पतितो येषामुपरि ते तथा, एवं तरुपतितकाः, 'मरुपडियग'त्ति मरौ - निर्जलदेशे पतिता ये ते तथा, मरोर्वा - निर्जलदेशावयवविशेषात् स्थलादित्यर्थः पतिता ये ते तथा । मूलं -४४ 'भरपडियग' त्ति क्वचित्तत्र भरात् - तृणकर्पासादिभरात्पतिता भरो वा पतितो येषामुपरि ते तथा, 'गिरिपक्खंदोलया' गिरिपक्षे-पर्वतपार्श्वे छिन्नटङ्कगिरौ वाऽऽत्मानमन्दोलयन्ति ये ते तथा, तेषां च तदन्दोलनमन्दोलकात्पातेनात्मनो मरणार्थम्, एवं तरुपक्षान्दोलकादयोऽपीति, 'सत्थोवाडियग’त्ति शस्त्रेणात्मानमवपाटयन्ति - विदारयन्ति मरणार्थं ये ते तथा, 'वेहाणसिग' त्ति विहायसि - आकाशे तरुशाखादावात्मन उल्लम्बनेन यन्मरणं भवति तद्वैहायसं तदस्ति येषां ते प्राकृत शैलीवशात् वेहाणसिया, 'गिद्धपट्टग' त्ति ये मरणार्थं पुरुषकरिकरभरासभादिकलेवरमध्ये निपतिताः सन्तो गृधैः स्पृष्टास्तुण्डैर्विदारिता म्रियन्ते ते गृध्रस्पृष्टकाः 'असंकिलिठ्ठपरिणाम' त्ति संक्लिष्टपरिणामा हि महार्तरौद्रध्यानावेशेन देवत्वं न लभन्त इति भावः ६ । मू. (४४ - वर्तते) से जे मे गामागरनयरनिगमरायहाणिखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसंनिवेसेसु मणुआ भवंति, तंहा - पगइभद्दगा पगइउवसंता पगइपतुकोहमाणमायालोहा मिउमद्दवसंपन्ना अल्लीणा विणीआ अम्माविउसुस्सूसका अम्मापिईणं अनतिक्कमणिज्जवयणा अप्पिच्छा अप्पारंभा अप्पपरिग्गहा - -- अप्पेणं आरंभेणं अप्पेणं समारंभेणं अप्पेणं आरंभसमारंभेणं वित्तिं कप्पेमाणा बहूई वासाइं आउअं पालंति पालित्ता कालमासे कालं किच्चा अन्नतरेसु वाणमंतरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, तहिं तेसिं गती तहिं तेसिं ठिती तहिं तेसिं उववाए पन्नत्ते । तेसि णं भंते! देवाणं केवइअं कालं ठिती पन्नत्ता ?, गोयमा ! चउद्दसवाससहस्सा ७ । बृ. 'पगइभद्दग' त्ति प्रकृत्या - स्वभावत एव न परानुवृत्यादिना भद्रकाः - परोपकारकरणशीलाः प्रकृतिभद्रकाः 'पगइउवसंता' इत्यत्र उपशान्ताः - क्रोधोदयाभावात् 'पगइतनुकोहमानमायलोह'त्ति सत्यपि कषायोदये प्रतनुक्रोधादिभावाः 'मिउमद्दवसंपन्न ' त्ति मृदु यन्मार्दवम्अत्यर्थमहङ्कृ तिजयं ये सम्पन्नाः - प्राप्तास्ते तथा 'आलीण' त्ति आलीना - गुरुमाश्रिताः, 'भद्दग' त्ति क्वचित्तत्र भद्रकाः - अनुपतापकाः सेव्यशक्षागुणात्, तत एव विनीताः । एतदेवाह -‘अम्मापिऊण सुस्सूसगा' अम्बापित्रोः शुश्रूषकाः - सेवकाः, अत एव 'अम्मापिऊणं अनइक्कमणिज्जवयणा' इहैवं सम्बन्धः - अम्बापित्रोः सत्कमनतिक्रमणीयं वचनं येषां ते तथा, तथा 'अप्पिच्छा' अमहेच्छाः 'अप्पारंभा अप्पपरिग्गहत्ति इहारम्भः - पृथिव्यादिजीवोपमर्द कृष्यादिरूपः परिग्रहस्तु- धनधान्यादिस्वीकारः, एतदेव वाक्यान्तरेणाह - 'अप्पेण आरंभेण'मित्यादि, इहारम्भो–जीवानां विनाशः समारम्भः तेषामेव परितापकरणं, आरम्भसमारम्भस्त्वेतहूयं, 'वित्ति'त वृत्ति-जीविकां 'कप्पेमाण' त्ति कल्पयन्तः कुर्वाणाः ७ । मू. (४४ - वर्तते) से जाओ इमाओ गामागरनयरनिगमरायहाणिखेडकब्बडमडंबदोण For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy