________________
५१९
द्वार-२, अध्ययनं-५,
'सेहुसमणेत्तिस एवश्रमण इति वाक्ये निष्ठा, किंभूतोऽसावित्याह-श्रुतधारकःऋजुकःअवक्रः उद्यतोवा-अनलसः संयमी, सुसाधुः-सुठुनिर्वाणसाधनपरः शरणं-त्राणंसर्वभूतानांपृथिव्यादीनांरक्षणादिना सर्वजगद्वत्सलः-सर्वजगद्वात्सल्यकर्ता हित इत्यर्थः, सत्यभाषकश्चेति, संसारान्ते स्थितश्च ‘संसारसमुच्छिण्णे'त्ति समुच्छिन्नसंसारः सततं-सदा मरणानां पारगः सर्वदैव तस्य न बालादिमरणानि भविष्यन्तीत्यर्थः, पारगश्च सर्वेषां संशयानां छेदक इत्यर्थः, प्रवचनमातृभिरष्टाभिः-सितिपञ्चकगुप्तित्रयरूपाभिः करणभूताभिरष्टकर्मरूपोयो ग्रन्थिस्तस्यविमोचको यःस तथा,
अष्टमानमथनः-अष्टमदस्थाननाशकः स्वसमयकुशलश्च-स्वसिद्धान्तनिपुणश्च भवति सुखदुःखनिर्विशेषो-हर्षादिरहित इत्यर्थः, 'अभितरबाहिरे'त्तिअभ्यन्तरस्यैव शरीरस्य कर्मलक्षणस्य तापकत्वादाभ्यन्तरं-प्रायश्चित्तादि षड्विधं बाह्यस्याप्यौदारिकलसक्षणस्य शरीरस्य तापकत्वाद्
बाह्यं-अनशनादि षड्विधं अनयोश्च द्वन्द्वस्तत आभ्यन्तरबाह्ये सदा-नित्यं तप एव उपधानं-गुणोपष्टम्भकारि तपउपधानं तत्र च सुष्ठुधुक्तः-अतिशयेनोद्यतः क्षान्तः क्षमावान् दान्तश्च-इन्द्रियदमेन हियनिरए'त्ति आत्मनः परेषां च हितकारीत्यर्थः, पाठान्तरे धृतिनिरतः,
'ईरिए'त्यादीनि दश पदानि पूर्वोक्तार्थप्रपञ्चरूपाणि प्रतीतार्थान्येव, तथा त्यागात्सर्वसङ्गत्यागात् संविग्मनोज्ञसाधुंदानाद्वा 'लज्जु'त्ति रज्जुरिव रज्जुः सरलत्वात् धन्योधनलाभयोगयोग्यत्वात् तपस्वी प्रशस्तपोयुत्वात् क्षान्त्या क्षमते न त्वसामथ्यादिति शान्तिक्षमः जितेन्द्रिय इतिव्यक्तंशोभितो गुणयोगात्शोधिदो वा शुद्धिकारी सुह्यद्वा सर्वप्राणिमित्रं अनिदानोनिदानपरिहारी संयमात् न बहिर्लेश्या-अन्तःकरणवृत्तिर्यस्य सोऽबहिर्लेश्यः अममोममकारवर्जितः अकिञ्चनो-निर्द्रव्य; छिन्नग्रन्थः-त्रुटितस्नेहः पाठान्तरे 'छिण्णसोय'त्तिछिन्नशोकः अथवा छिन्नश्रोताः, तत्र श्रोतो द्वविध-द्रव्यश्रोतो भावश्रोतश्च, तत्र द्रव्यश्रोतो-नद्यादिप्रवाहः भावश्रोतश्च-संसारसमुद्रपात्यशुभो लोकव्यवहारः स छिन्नो येन स तथा,
निरुपलेपः-अविद्यमानकर्मानुलेपः एतच्चविशेषणंभाविनि भूतवदुपचारमाश्रित्योच्यते, सुविमलवरकास्यंभाजनमिव विमुक्तो यः श्रमणपक्षे तोयमिव तोयं-सम्बन्धहेतुः स्नेहः शङ्खइव निरञ्जनः-अविद्यामानरञ्जनः साधुपक्षे रञ्जनं-जीवस्वरूपोपरजनकारि रागादिकं वस्तु, अत एवाए-विगतरागद्वषमोहः, कूर्म इव इन्द्रियेषु गुप्तः यथा हि कच्छपः ग्रीवापञ्चमैश्चतुर्भिः पदैः कदाचिद् गुप्तो भवतीत्येवं साधुरपीन्द्रियेषु, इन्द्रियानाश्रित्येत्यर्थः, जात्यकाञ्चनमिव जातरूपः रागादिकुद्रव्यापोहाल्लब्धस्वरूप इत्यर्थः, रुष्करपत्रमिव-पद्मदलमिवनिरुपलेपो भोगगृद्धिलेपापेक्षया, चन्द्र इव सौम्यतया पाठान्तरेण सौम्यभावतया-सौम्यपरिणामेन अनुपतापकतया सूर इव दीप्ततेजाः-तपस्तेजःप्रतीत्य अचलो-निश्चलः परीषहादिभिः यथा मन्दरो गिरिवरोमेरुरित्यर्तः अक्षोभः-क्षोभवर्जितः सागर इव स्तिमितः भावकल्लोलरहितः तथा पृथिवीव सर्वस्पर्शविषहः शुभाशुभस्पर्शेषु समचित्त इत्यर्थः, _ 'तवसाविय'त्ति तपसाऽपिच हेतुभूतेन भस्मराशिच्छन्न इवजाततेजाः-वह्निः, भावनेहयथा भस्मच्छन्नो वह्निरन्तज्वलति बहिम्लानो भवतीत्येवं श्रमणः शरीरमाश्रित्य तपसा म्लानो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org