________________
द्वारं - २, अध्ययनं - ५,
५१५
परस्य-अन्यस्य अध्युपपातं च-ग्रहणैकाग्रचित्ततां लोभं च मूर्च्छा जनयन्ति यानि तानि अध्युपपातलोभजननानि 'परियट्टिउं' ति परिकर्षयितुं परिवर्द्धयितुं वा परिपालयितुमित्यर्थः,
न कल्पन्त इति योगः, 'गुणवओ' त्ति गुणवतो मूलगुणादिसम्पन्नस्येत्यर्थः न चापि पुष्पफलकन्दमूलादिकानि सन; सप्तदशो येषां व्रीह्मादीनां तानि सनसप्तदशकानि सर्वधान्यानि त्रिभिरपि योगैः- मनःप्रभृतिभिः परिग्रहीतुं कल्पन्त इति प्रकृतमेव, किमित्याहऔषधमैषज्यभोजनार्थाय - तत्रैषधं - एकाङ्ग भैषज्यं - द्रव्यसंयोगरूपं बोजनं-प्रतीतमेव 'संजएणं' ति विभक्तिपरिणामात् संयतस्य - साधोः, किं कारणं ? - को हेतुरकल्पने,
उच्यते, अपरिमितज्ञानदर्शनधरैः - सर्वविद्भिः शीलं - समाधानं गुणाः - मूलगुणादयः विनयः - अभ्युत्थानादिक; तपः संयमौ प्रतीतौ तान्नयन्ति वृद्धिं प्रापयन्ति ये ते तथा तैः, तीर्थकरैः- शासनप्रवर्त्तकैः सर्वजगज्जीववत्सलैः सर्वैः त्रैलोक्यमहितैः जिनाः - छद्मस्थवीतरागा तेषां वराः केवलिनः तेषां इन्द्रास्तीर्थकरनामकर्मोदयवर्त्तित्वाद् ये ते तथा तैः, एषा पुष्पफलधान्यरपा योनिः–उत्पत्तिस्थानं जगतां - जङ्गमानां त्रसानामित्यर्थो दृष्टा - उपलब्धा केवलज्ञानेन,
ततश्च न कल्पते--न सङ्गच्छते योनिसमुच्छेदः - योनिध्वंसः कर्त्तुमिति गम्यते, परिग्रहे औषधाद्युपयोगे च तेषां सोऽवश्यंभावीति, इतिशब्द उपदर्शने, येनैवं तेन वर्जयन्ति-परिहरन्ति पुष्पफलधान्यभोजनादिकं, के ?,
श्रमणसिंहाः - मुनिपुङ्गवाः, यदपि च ओदनादि तदपि न कल्पते- सन्निधीकर्त्तु सुविहितानामिति सम्बन्धः, तत्र ओदनः - कूर; कुलमाषा; - माषाः ईषत्स्विन्ना मुङ्गादय इत्यन्ये गंजत्तिभोज्यविशेषः तर्पणाः - सक्तवः 'मंधु' त्ति बदरादिचूर्णः 'भुज्जिय'त्ति धानाः 'पलल' त्ति तिलपुष्पपिष्टं सूपो - मुङ्गादिविकारः शष्कुली-तिलपपटिका वेष्टिमाः प्रतीताः वरसरकाणि चूर्णकोशकानि च रूढिगम्यानि पिण्डो–गुडादिपिण्डः शिखरिणीगुडमिश्रं दधि 'वट्ट' त्ति घनतीमनं मोदका - लड्डुकाः क्षीरं दधि च व्यक्तं सर्पिः-घृतं नवनीतं - प्रक्षणं तैलं गुडं खण्डं च कण्ठ्ट्यानि मच्छण्डिकाखण्डविशेषः मधुमद्यमांसानि प्रतीतानि खाद्यानि - अशोकवर्त्तयः व्यञ्जनानि - तक्रादीनि शालनकानि वा तेषां ये विधयः-प्रकाराः ते खाद्यकव्यञ्जनविधयस्तत एतेषां मोदकादीना द्वन्द्वः तत एते आदिर्यस्य तत्तथा प्रणीतं - प्राप्ति उपाश्रये - वसतौ परिग्रहे वा अरण्ये -अटव्यां न कल्पते-न सङ्गच्छते तदपि सन्निधीकर्त्तु-सञ्चयीकर्त्तु सुविहितानां परिग्रहपरिवर्जनेन शोभनानुष्ठानानां सुसाधूनामित्यर्थः, आह च
119 11
--
"बिडमुब्मेइमं लोणं, तेल्लं सप्पिं च फाणियं । न ते संनिहिमिच्छंति, नायपुत्तवए रया ॥” इति,
यदपि चोद्दिष्टादिरूपमोदनादि न कल्पते तदपि तच परिग्रहीतुमिति सम्बन्धः उद्दिष्टंयावदर्थिकान् पाखण्डिनः श्रमणान् साधून् उद्दिश्य दुर्भिक्षापगमादौ यद्विभक्षावितरणं तदौद्देशि कमुद्दिष्टं, आह च - "उद्दिसिय साहुमाई ओमव्वयभिक्खवियरणं चं च" त्ति
स्थापितं-प्रयोजने याचितं गृहस्थेन च तदर्थं स्थापितं यत्तत् स्थापितं, आह च"ओहासियखीराईठावणं ठवण साहुणट्ठाए" रचितकं - मोदकचूर्णादि साध्वाद्यर्थं प्रताप्य पुनर्मोदकादितया विरचितं औद्देशिकभेदोऽयं कर्म्माभिधान उक्तः, पर्यवजातं पर्यवः - अवस्थान्तरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org