________________
प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३५
एवमिणं संवरस्स दारं सम्मं संवरियं होति सुप्पणिहियं इमेहिं पंचहिवि कारणेहं मणवयणकायपरिरक्खिएहिं निच्चं आमरणंतं च एस जोगो नेयव्वो धितिमया मतिमया अणासवो अकलुसो अच्छि असं किलो सुद्धो सव्वजिणमणुन्नातो, एवं पढमं संवरदारं फासियं पालियं सोहियं तिरियं किट्टियं आराहियं आणाते अनुपालियं भवति, एवं नायमुणिणा भगवया पन्नवियं परूवियं पसिद्धं सिद्धं सिद्धवरसासणमिणं आघवितं सदेसितं पसत्थं पढमं संवरदारं समत्तं तिबेमि ।।
४७०
वृ. 'तस्से' त्यादि तस्य- प्रथमस्य व्रतस्य भवन्तीति घटना, इमाः- वक्ष्यमाणप्रत्यक्षाः पञ्च भावनाः, भाव्यते - वास्यते व्रतेनात्मा यकाभिस्ता भावनाः – ईर्यासमित्यादयः, किमर्था भवन्तीत्याह'पाणा' इत्यादि, प्रथमव्रतस्य यत्प्राणातिपातविरमणलक्षणं स्वरूपं तस्य परिरक्षणार्थाय 'पढमं 'ति प्रथमं भावनावस्तित्वति गम्यते, स्थाने गमने च गुणयोगं स्वपरप्रवचनोपघातवर्जनलक्षणगुणसम्बन्धंयोजयति-करोति या सा तथा, युगान्तरे यूपप्रमाणभूभागे निपतति या सा युगान्तरनिपातिका ततः कर्मधारयस्तस्तया दृष्टया - चक्षुषा 'इरियव्वं ' ति - ईरितव्यं - गन्तव्यं, केनेत्याहकीटपतङ्गादयनासाश्च स्थावराश्च कीटपतङ्गसस्थावरास्तेषु दयापरो यस्तेन नित्यं पुष्पफलत्वक्प्रवालकन्दमूलदकवृत्तिकाबीजहरितपरिवर्जकेन सम्यगिति प्रतीतं नवरं प्रवालः - पल्लवाङ्कुरः दकं - उदकमिति, अथेर्य्यासमित्या प्रवर्त्तमानस्य यत्स्यात्तदाह
'एवं खलु' त्ति एव च ईय्यासमित्या प्रवर्त्तमानस्येत्यर्थः सर्वे प्राणा सर्वे जीवा न हीलयितव्याअवज्ञातव्या भवन्ति, संरक्षणप्रयतत्वात् न तानवज्ञाविषयीकरोतीत्यर्थः, तथा न निन्दितव्या न गर्हितव्या भवन्ति सर्वथा पीडावर्जनोद्यतत्वेन गौरव्याणामिव दर्शनात्, निन्दा च - स्वसमक्षा ग च-परसमक्षा, तथा न हिंसितव्याः पादाक्रमणेन मारणतः, एवं न छेत्तव्या द्विधाकरणतो न भेत्तव्याः स्फोटनतः 'नवहेयव्व' त्ति न व्यथनीयाः परितापनात् न भयं -भीतिं दुःखं च शारीरादि किञ्चिदल्पमपि लभ्या-योग्याः प्रापयितुं जे इति निपातो वाक्यालङ्कारे एवं - अनेन न्यायेन ईर्यासमितियोगेनईर्यासमितिव्यापारेण भावितो - वासितो भवत्यन्तरात्मा - जीवः, किंविध इत्याह- अशबलेनमालिन्यमात्ररहितेन असङ्किलप्टेन विशुद्धयमानपरिणामवता निर्व्रणेन- अक्षतेनाखण्डेनेतियावत् चारित्रेण - सामायिकादिना भावना - वासना यस्य सोऽशबलास- ङ्किलष्टनिर्व्रणचारित्रभावनाकः अथवा अशबलासङ्किलष्टनिर्व्रणचारित्रभावनया हेतुभूतया अहिंसकः - अवधकः संयतोमृषावादाद्युपरतिमान् सुसाधुः - मोक्षसाधक इति ।
'बिइयं च’त्ति द्वितीयं पुनर्भावनावस्तु मनः समितिः, तत्र मनसा पापं न ध्यातव्यं, एतदेवाहमनसा पापकेन, पापकमिति काक्वाऽध्येयं, ततश्च पापकेन - दुष्टेन सता मनसा यत् पापकं -अशुभं तत्, न कदाचिन्मनसा पापेन पापकं किञ्चिद् ध्यातव्यमिति वक्ष्यमाणवाक्येन सम्बन्धः, पुनः किम्भूतं पापकमित्याह-आधार्मिकाणामिदमाधार्मिकं तच्च तद्दारुणं चेति आधार्मिक- दारुणं नृशंसं-शूकानवर्जितं वधेन-हननेन बन्धेन-संयमनेन परिक्लेशेन च परितापनेन हिंसागतेन बहुलं - प्रचुरं यत्तत्तथा,
- जरामरणपरिक्लेशफलभूतैः वाचनान्कतरे भयमरणपरिक्लेशैः सङ्किलष्टं - अशुभं यत्तत्तथा, न कदाचित्कवचनापि काले 'मणेण पावयं' ति पापकेनेदं मनसा 'पावगं 'ति प्राणातिपातादिकं पापं किञ्चिद् - अल्पमपि ध्यातव्यं - एकाग्रतया चिन्तनीयं, एवं - अनेन प्रकारेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org