SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ द्वारं-१, अध्ययनं-२, ४०१ - अप्पच्चयकारकं परमसाहुगरहणिज्जं परषीलाकारकं परमकण्हलेससहियं दुग्गतिविनिवायवड्डणं पुनब्भवकरं चिरपरिचियमणुगयंदुरुत्तं वितियं अधम्मदारं समत्तंत्तिबेमि॥ वृ. 'तस्से'त्यादि 'तस्स'त्ति यद् द्वितीयाश्रवत्वेनोच्यते तस्य अलीकस्य फलस्य-कर्मणो विपाकः-उदयः साध्यमित्यर्थः, तमजानन्तो वर्द्धयन्ति महाभयां-अविश्रामवेदनां दीर्घकालं बहुदुःखसङ्कटांनरकतिर्यग्योनिंतत्रोत्पानमित्यर्थः, तेन चालीकेन तज्जनितकर्मणेत्यर्थः समनुबद्धाःअविरहिताः आदिग्धास्तु-आलिङ्गिताः पुनर्भवान्धकारे भ्राम्यन्ति भीमे दुर्गतिवसतिमुपागताः, ते च दृश्यन्ते इह-जीवलोके, किंभूता इत्याह-दुर्गताः-दुःस्था दुरन्ताः-दुष्पर्यवसानाः परवशाः-अस्वतन्त्राः अर्थभोगपरिवर्जिताः-द्रव्येण भोगैश्च रहिताः 'असुहिय'त्ति असुखिताः अविद्यमानसुहृदोवा स्फुटितच्छवयः-विपादिकाविचर्चिकादिभिर्विकृतत्वचः बीभत्सा-विकृतरूपा विवर्णा-विरूपवर्णा इतिपदत्रयस्य कर्मधारयः तथास्वरपरुषा-अतिकर्कशस्पर्शाः विरक्ताः-रतिं क्वचिदप्यप्राप्ताःध्यामाः अनुज्ज्वलच्छायाःशुषिराः-असारकाया इतिपदचतुष्टयस्य कर्मधारयः, निछायाः-विशोभाः-लल्ला-अव्यक्ता विफला-फलासधनी वाग् येषां ते तथा 'असक्कयमसक्कय'त्ति न विद्यते संस्कृतं-संस्कारो येषां ते असंस्कृताः असत्कृताः- अविद्यमानसत्कारास्ततः कर्मधारयो मकारश्चालाक्षणिकः अत्यन्तं वा असंस्कृतासंस्कृताः अत एवागन्धाःअमनोज्ञगन्धाःअचेतना विशिष्टचैतन्याभावातदुर्भगाः-अनिष्टाः अकान्ताः--अकमनीयाः काकस्येवखरोयेषांतेकाकस्वराहीनो-इस्वोभिन्नश्च-स्फटितोघोषोयेषांते तथा विहिंस्यन्त इति विहिंसाः जडा-मूर्खाः बहिरान्धकाश्च येते तथा पाठान्तरेण जडबधिरमूकाश्च मन्मनाःअव्यक्तवाचःअकान्तानि-अकमनीयानि विकृतानिच करणानि-इन्द्रियाणि कृत्यानि वा येषां ते तथा, वाचनान्तरेऽकृतानि च-न कृतानि विरूपतया कृतानि करणानि यैस्ते तथा, नीचा जात्यादिभिः नीचजननिषेविणो लोकगर्हणीया इति पदद्वयं व्यक्तं, भृत्याः-भर्त्तव्या एव, तथा असशजनस्य असमानशीललोकस्य द्वेष्या-द्वेषस्थानं प्रेष्यावा-आदेश्याः दुर्मेधसो-दुर्बुद्धयः, ‘लोके'त्यादि, श्रुतिशब्दस्य प्रत्येकं सम्बन्धात् लोकश्रुतिः-लोकाभिमतं शास्त्रं भारतादि वेदश्रुतिःऋक्सामादिवेदशाश्त्रं अध्यात्मश्रुतिः-चित्तजयोपायप्रतिपादनशास्त्रं समयश्रुतिः- आर्हत बौद्धादिसिद्धान्तशास्त्रं ताभिर्वर्जिता ये ते तथा, क एते एवम्भूता इत्याह-नरा-मानवाः, धर्मबुद्धिविकलाः प्रतीतं, अलीकेन अलीकवादजनितकर्माग्निना तेन-कालान्तरकृतेन प्रदह्यमानाः ‘असंतएणं तिअशान्तकेन-अनुपशान्तेन असतावा-अशोभनेन रागादिप्रवर्तितेनत्यर्थः अपमानादि प्राप्नुवन्तीति सम्बन्धः, तत्रापमाननं च-मानहरणं पृष्ठिमांसं च-परोक्षस्य दूषणाविष्करणंअधिक्षेपश्च-निन्दाविशेषः पिशुनैः-खलैर्भेदनंच-परस्परंप्रेमसम्बद्धयोः प्रेमच्छेदनं गुरुबान्धवस्वजनमित्राणा सत्कमपक्षारणं च-अशब्दं क्षारायमाणं वचनं पराभिभूतस्य वा एषामपक्षकरणं-सान्निध्याकरणमित्यर्थः एतानि आदिर्येषां तानि तदादिकानि, तथा अभ्याख्यानानि-असदूषणाभिधानानि बहुविधानानिप्राप्नुवन्ति लभन्तेइत्यनुपमानि पाठान्तरेण अमनोरमाणि हृदयस्य-उरसो मनसश्च-चेतसो 'दूमगाइंति दावकान्युपतापकानि यानि तानि तथा, यावजीवं दुरुद्धराणि-आजन्माप्यनुद्धरणीयानि अनिष्टेन खरपरुषेण च... [726 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy