SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ द्वारं-१, अध्ययनं-२, ३९९ उरभ्रताम्रचूडाश्चक्रीयन्तां-मूल्येन गृह्यतांक्रापयतच एतान्येव ग्राहयतच विक्रीणिध्वं विक्रेतव्यं, तथापचत च पचनीयं, खजनाय च दत्त पिबतच पातव्यं मदिरादि, वाचनान्तरेण खादत पिबत दत्तच, तथादास्यः-चेटिका दासाः-चेटकाःभृतकाः-भक्तदानादिना पोषिताः ‘भाइल्लग'त्ति येलाभस्य भागं चतुर्भागादिकंलभन्ते, एतेषांद्वन्द्वस्तस्तेचशिष्याश्च-विनेयाः प्रेष्यजनः-प्रयोजनेषु प्रेषणीयोलोकः कर्मकराः-नियतकालमादेशकारिणः किङ्गराश्च-आदेशसमाप्तौ पुनःप्रश्नकारिणः एते पूर्वोक्ताः स्वजनपरिजनं च कस्मादासते अवस्थानं कुर्वन्ति भारिया मेकरित्तुकम्म'तिकृत्वा-विधायकर्म-कृत्यंतत्समाप्तौ यतो भारिका-दुर्निर्वाहः 'भे' भवतां, 'करित्वितिक्कचित्पाठः तत्र ‘भारिय'त्तिभार्या भे' भवतः सम्बन्धिन्यःकर्म कुर्वन्तु, अन्यान्यपि पाठान्तराणि सन्ति तानि च स्वयं गमनीयानि, तथा गहनानि-गहराणि वनानि च-वनखण्डाः क्षेत्राणि च-धान्यवपनभूमयः खिलभूमयश्च-हलैरकृष्टाः वल्लराणि चक्षेत्रविशेषास्ततस्तानि उत्तणैः-ऊर्द्धगतैः तृणैः धनं-अत्यर्थं सङ्कटानि-सङ्कीर्णानि यानि तानि तथा तानि दह्यन्तां, पाठान्तरेणगहनानिवनानि छिद्यन्तमखिलभूमिवल्लराणि उत्तणधनसङ्कटानि दह्यन्तां, ‘सूडिजंतु यत्ति सूधन्तां च वृक्षाः भिद्यन्तां छिद्यन्तां वा यन्त्राणि च-तिलयन्त्रादिकानि भाण्डानि च-भाजनानि कुण्डादीनि भण्डी वा-गन्त्री एतान्यादिर्यस्य तत्तथा तस्य उपधेःउपकरणस्य 'कारणाए'त्तिकारणायहेतवे, वाचनान्तरेतुयत्रभाण्डस्योक्तरूपस्यकारणात्-हेतोः, तथा बहुविधस्य च कार्यसमूहस्येति गम्यं, अर्थाय इक्षवो 'दुजंतु'त्ति दूयन्तां लूयन्तामिति धातूनामनेकार्थत्वात्, तथा पीड्यन्तांचतिलाः पायतचेष्टकाः गृहार्थं, तथा क्षेत्राणि कृषत कर्षयत वा, तथा लघु-शीघ्रं ग्रामादीनि निवेशयत, तत्र ग्रामो जनपदप्रायजनाश्रितः नगरंअविद्यमानकरदानं कर्बर्ट-कुनगरं, क्व?-अटवीदेशेषु, किंभूतानिग्रामादीनि?-विपुलसीमानि, तथा पुष्पादीनि प्रतीतानि 'कालपत्ताइंतिअवसरप्राप्तानि गृहीत कुरुत सञ्चयं परिजनार्थं, तथा शाल्यादयः प्रतीताः लूयन्तां मल्यन्तां उत्पूयन्तां च लघु च प्रविशन्तु कोष्ठागारं 'अप्पमहुक्कोसगाईति अल्पा-लघवो महान्तः-तदपेक्षया मध्यमा इत्यर्थः उत्कृष्टा-उत्तमाश्च हन्यन्तां पोतसार्थाः-बोहित्थसमुदायाः शावकसमूहा वा, तथा सेना-सैन्यं निर्यातु-निर्गच्छतु निर्गत्य च यातु-गच्छतु डमरं-विडरस्थानं तथा च घोरा-रौद्राश्च वर्तन्तां च-चायन्तां सङ्गामा-रणाः तथा प्रवहन्तु च-प्रवर्तता शकटवाहनानि-गन्त्रोय यानपात्राणि च, तथा उपनयनं-बालानां कलाग्रहणं चोलगं'तिचूडापनयनंबालकप्रथममुण्डनं विवाह-पाणिग्रहणं यज्ञो-यागः अमुष्मिन् भवतु दिवसे तथा सुकरणं-बवादिकानामेकादशानामन्यतरदभिमतं समुहूर्ते-रौद्रादीनां त्रिंशतोऽन्यतरोऽभिमतो यः एतयोः समाहारद्वन्द्वस्ततस्तत्र, तथा सुनक्षत्रे-पुष्यादौ सुतिथौ च-पञ्चानां नन्दादीनामन्यतरस्यामभिमतायां अद्यअस्मिन्नहनि भवतु स्नपनं-सौभाग्यपुत्राद्यर्थं वध्वादेर्मज्जनं मुदितं-प्रमोदवत् बहुखाद्यपेयकलितं-प्रभूतमांसमद्याधुपेतं तथा कौतुकं-रक्षादिकं 'विण्हावणक'त्ति विविधैर्मन्त्रमूलादिभिः संस्कृतजलैः स्नापनकं विस्नापनकंशान्तिकर्मच-अग्निकारिकादिकमितिद्वन्द्वः, ततस्ते कुरुत, केष्वित्याह-शशिरव्योः-चन्द्रसूर्ययोर्ग्रहेण-राहुलक्षणेन उपरागः-उपरञ्जनं ग्रहणमित्यर्थः शशिरविग्रहोपरागः, स च विषमाणि च-विधुराणि दुःखप्राशिवादीनि तेषु, किमर्थमित्याह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy