SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ उपासकदशाङ्गसूत्रम् २ /२१ सप्पकयजण्णोवइए' तत्र भुंभलयेत्ति-शेखरः विच्छुयाति-वृश्चिकाः यज्ञोपवीतं - ब्राह्मणकण्ठसूत्रं, तथा ‘अभिन्नमुहनयणनक्खवरवग्धचित्तकत्तिनियंसणे' अभिन्नाः - अविशीर्णा मुखनयननखा यस्यां सा तथा साचासौ वरव्याघ्रस्य चित्रा - कर्बुरा कृतिश्च - चर्मेति कर्मधारयः, सा निवसनं परिधानं यस्य तत्तथा, ‘सरसरुहिरमंसावलित्तगत्ते' सरसाभ्यां रुधिरमांसाभ्यामलिप्तं गात्रं यस्य तत्तथा, ‘आस्फोटयन्’ करास्फोटं कुर्वन् 'अभिगर्जन्' धनध्वनिं मुञ्चन् भीमो मुक्तः - कृतोऽट्टहासोहासविशेषो येन तत्तथा, नानाविधपञ्चवर्णे रोमभिरुपचितं एकं महन्नीलोत्पलगवलगुलिकातसीकुसुमप्रकाशमसिं क्षुरधारं गृहीत्वा यत्र पोषधशाला यत्र कामदेवः श्रमणोपासकस्तत्रोपागच्छति स्मेति, इह गवलं - महिषश्टङ्गं गुलिका - नीली अतसी - धान्यविशेषः असिः - खङ्गः क्षुरस्येव धारा यस्यातिच्छेदकत्वादसौ क्षुरधारः, 'आसुरत्ते रुट्ठे कुविए चंडिक्किए मिसीमिसीयमाणे' त्ति एकार्थाः शब्दाः कोपातिशयप्रदर्शनार्थाः, 'अप्पत्थियपत्थिया' अप्रार्थितप्रार्थक दुरन्तानि - दुष्टार्यवसानानि प्रान्तानि - असुन्दगाणि लक्षणानि यस्य स तथा 'हीणपुण्णचाउद्दसिय' त्ति हीनाअसम्पूर्णा पुण्या चतुर्दशी तिथिर्जन्मकाले यस्य स हीनपुण्यचतुर्दशकिः, तदामन्त्रणं, श्रीहीधृतिकीर्त्तिवर्जितेति व्यक्तं, तथा धर्मं श्रुतचारित्रलक्षणं कामयते-अभिलषति यः स धर्मकामः, तस्यामन्त्रणं हे धम्मकामया !, एवं सर्वपदानि, २८४ नवरं पुण्यं - शभप्रकृतिरूपं कर्म स्वर्गः- तत्फलं मोक्षो - धर्मफलं काङ्क्ष-अभिलाषातिरेकः पिपासा - काङ्क्षतिरेकः, एवमेतैः पदैरुत्तरोत्तरोऽलाषप्रकर्ष एवोक्तः, "नोखलु' इत्यादि' नखलु - नैव कल्पते शीलादीनि चलयितुमिति वस्तुस्थितिः, केवलं यदि त्वं तान्यद्य न चलयसि ततोऽहं त्वां खण्डाखण्डि करोमीति वाक्यार्थः, तत्र शीलानि - अणुव्रतानि, व्रतानि - दिव्रतादीनि, विरमणानिरागादिविरतयः, प्रत्याख्यानानि - नमस्कारसहितादीनि, पोषधोपवासान्- आहारादिभेदेन चतुर्विधान्, - 'चालित्तए' भङ्गकान्तरकरणतः 'क्षोभयितुं' एतत्पालनविषयं क्षोभं कर्तु, खण्डयितुं देशतो, भङ्कतुंसर्वतः, 'उज्झितुं' सर्वस्या देशाविरतेस्त्यागतः, परित्यक्तुं सम्यकत्वस्यापि त्यागादिति, 'अट्टदुहट्टवसट्टे' ति आर्तस्य ध्यानविशेषस्य यो दुहट्टत्ति-दुर्घटो दुःस्थगो दुर्निरोधो वशः पारतन्त्र्यं तेन ऋतः -पीडितः आर्तदुर्घटवशार्तः, अथवा आर्तेन दुःखार्तः आर्तदुःखार्तः, तथा वशेनविषयपारतन्त्र्येण ऋतः - परिगतो वशार्तः, ततः कर्मधारय इति ॥ अभीते इत्यादीन्येकार्थान्यभयप्रकर्षप्रदर्शनार्थानि । मू. (२२) तए णं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव धम्मज्झाणोवगयं विहरमाणं पासइ २ त्ता दोच्चंपि तच्चंपि कामदेवं एवं वयासी-हं भो कामदेवा ! समणोवासया अपत्थियपत्थिया जइ णं तुमं अज्ज जाव ववरोविजसि थए णं से कामदेवे समणोवासये तेणं देवेणं दोच्चंपि तच्चंपि एवं वुत्ते समाणे अभीए जाव धम्मज्झाणोवगए विहरइ, तणं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ २ ता आसुरत्ते तिवलियं मिउडिं निडाले साहड कामदेवं समणोवासयं नीलुप्पल जाव असिणा खंडाखंडि करेइ, तणं से कामदेवे समणोवासए तं उज्जलं जाव दुरहियासं वेयणं सम्मं सहइ जाव अहियासेइ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy