________________
भगवतीअङ्गसूत्रं (२) १२/-/९/५५८ अंतोमुहत्तं उक्कोसेणं अनंतं कालं वणस्सइकालो । एएसिणंभंते ! भवियदव्वदेवाणं नरदेवाणं जाव भावदेवाण य कयरे २ जाव विसेसाहिया वा ?, गोयमा! सव्वत्थोवा नरदेवा देवाधिदेवा संखेजगुणा धम्मदेवा संखेज्जगुणा भवियदव्वदेवा असंखेज्जगुणा भावदेवा असंखेज्जगुणा भावदेवा असंखेज्जगुणा।
वृ.अथतेषामेवोद्वर्तनांप्ररूपयन्नाह-'भवियदव्वे'त्यादि, इहचभविकद्रव्यदेवानांभाविदेव भवस्वभावनत्वान्नारकादिभवत्रयनिषेधः । नरदेवसूत्रेतु नेरइएसुउववजंति'त्तिअत्यक्तकामभोगा नरदेवा नैरयिकेषूत्पद्यन्ते शेषत्रये तु तनिषेधः, तत्र च यद्यपि केचिच्चक्रवर्त्तिनो देवेषूत्पद्यन्ते तथाऽपि ते नरदेवत्वत्यागेन धर्मदेवत्व- प्राप्ताविति न दोषः, 'जहा वक्कंतीए असुरकुमाराणं उव्वट्टणातहाभाणियव्व'त्तिअसुरकुमारा बहुषुजीवास्थानेषु गच्छन्तीतिकृत्वातैरतिदेशः कृतः, असुरादयो हीशानान्ताः पृथिव्यादिष्वपि गच्छन्तीति ।। अथ तेषामेवानुबन्धं प्ररूपयन्नाह ।
_ 'भवियदव्वदेवेण मित्यादि, भवियदव्वदेवेइ'त्तिभव्यद्रव्यदेव इत्यमुंपर्यायमत्यजनित्यर्थः 'जहन्नेणमंतोमुहुत्त'मित्यादि पूर्ववदिति । एवं जहेव ठिई सच्चेव संचिट्ठाणवि'त्ति ‘एवम्' अनेन न्यायेन यैव ‘स्थिति' भवस्थिति प्राग वर्णिता सैवैषां संस्थितिरपि तत्पर्यायानुबन्धोऽपीत्यर्थः, विशेषं त्वाह-'नवर'मित्यादि, धर्ममदेवस्य, जघन्येनैकं समयं स्थिति अशुभभावं गत्वा ततो निवृत्तस्य सुभभावप्रतिपत्तिसमयानन्तरमेव मरणादिति ।।अर्थतेषामेवान्तरं प्ररूपयन्नाह।
"भवियदव्वदेवस्सणंभंते!' इत्यादि, जहन्नेणंदसवाससहस्साइंअंतोमुत्तममहियाई'ति भव्यद्रव्यदेवस्यान्तरं जघन्येन दशवर्षसहस्राण्यन्तर्मुहूर्ताभ्यधिकानि, कथं ?, भव्यद्रव्यदेवो भूत्वादशवर्षसहस्रस्थितिषुव्यन्तरादिषूत्पद्य च्युत्वाशुभपृथिव्यादौ गत्वाऽन्तर्मुहूर्तस्थित्वापुनर्भव्यद्रव्यदेव एवोपजायत इत्येवं, एतच्च टीकामुपजीव्य व्याख्यातं, इह कश्चिदाह-ननु देवत्वाच्युतस्यानन्तरमेव भव्यद्रव्यदेवतयोत्पत्तिसम्भवाद्दशवर्षसहस्राण्येव जघन्यतस्यस्यान्तरं भवत्यतः कथमन्तर्मुहू-भ्यिधिकानितान्युक्तानि इति, अत्रोच्यते-सर्वजघन्यायुर्देवश्च्युतः सन्शुभपृथिव्यादिषूत्पद्य भव्यद्रव्यदेवेषूत्पद्यत इति टीकाकारमतभवसीयते, तथा च यथोक्तमन्तरं भवतीति, अन्ये पुनराहुः-इह बद्धायुरेव भव्यद्रव्यदेवोऽभिप्रेतस्तेन जघन्यस्थितिकाद्देवत्वाच्युत्वाऽन्तमुहूर्तस्थितिकभव्यद्रव्यदेवत्वेनोत्पन्नस्यान्तर्मुहूर्तोपर देवायुषोबन्धनायथोक्तमन्तरंभवतीति, अथवा भव्यद्रव्यदेवस्य जन्मनोर्मरणयोर्वाऽन्तरस्य ग्रहणाद् यथोक्तमन्तरमिति ।
'नरदेवाण'मित्यादि, 'जहन्नेणं साइरेगं सागरोवमंति, कथम् ?, अपरित्यक्तसङगाश्चक्रवर्त्तिनोनरकपृथिवीषूत्पद्यन्ते, तासुचयथास्वमुत्कृष्टस्थितयो भवन्ति, सातिरेकत्वंच नरदेवभवे चक्ररलोत्पत्तेरर्वाचीनकालेन द्रष्टव्यं, उत्कृष्टतस्तु देशोनं पुद्गलपरावर्तार्द्ध कथं?, चक्रवर्त्तित्वं हि सम्यग्दृष्टय एव निवर्तयन्ति, तेषां च देशोनापार्द्धपुद्गलपरावर्त एव संसारो भवति, तदन्त्यभवे च कश्चिन्नरदेवत्वं लभत इत्येवमिति ।
‘धम्मदेवस्स ण' मित्यादि, 'जहन्नेणं पलिओवमपुहत्तं'ति, कथं ?, चारित्रवान् कश्चित् सौधर्मे पल्योपमपृथक्त्वायुष्केषूत्पद्य ततश्चयुतो धर्मदेवत्वं लभत इत्येवमिति, यच्च मनुजत्वे उत्पन्नश्चारित्रं विनाऽऽस्ते तदधिकमपि सत् पल्योपमपृथक्त्वेऽन्तर्भावितमिति । 'भावदेवस्स ण'मित्यादि, ‘जहन्नेणं अंतोमुहुत्तं'ति, कथं ?, भावदेवश्चयतोऽन्तर्मुहूर्तमन्यत्र स्थित्वा पुनरपि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org