________________
शतकं-१२, वर्गः-, उद्देशकः-५
७३ जीवोपयोगश्चामूर्तोऽमूर्त्तत्वाच तस्य वधादिविरमणानाममूर्त्तत्वं तस्माच्चावर्णादित्वमिति ।
जीवस्वरूपविशेषमेवाधिकृत्याह-'उप्पत्तियत्तिउत्पत्तिरेवप्रयोजनंयस्याः साऔत्पत्तिकी, ननु क्षयोपशमः प्रयोजनमस्याः? सत्यं, स खल्वन्तरङ्गत्वात्सर्वबुद्धिसाधारण इति न विवक्ष्यते, न चान्यच्छस्त्रकर्माभ्यासादिकमपेक्षत इति, 'वेणइय'त्ति विनयो-गुरुशुश्रूषा स कारणमस्यास्तप्रधाना वा वैनयिकी, 'कम्मय'त्त अनाचार्यकं कर्म साचार्यकं शिल्पं कादाचित्कं वा कर्म शिल्पं तु नित्य-व्यापारः, ततश्च कर्मणो जाता कर्मजा, 'पारिणामिय'त्ति परि-समन्तानमनं परिणामः-सुदीर्घकालपूर्वापरावलोकनादिजन्मआत्मधर्मस कारणंयस्याः सा पारिणामिकी बुद्धिरिति वाक्यशेषः, इयमपि वर्णादिरहिता जीवधर्मत्वेनामूर्तत्वात् ।
जीवधर्माधिकारादवग्रहादिसूत्रं कादिसूत्रं च, अमूर्त्ताधिकारादवकाशान्तर सूत्रं अमूर्त्तत्वविपर्ययात्तनुवातादिसूत्राणि चाह-तत्रच ‘सत्तमेणंभंते! उवासंतरे'त्तिप्रथमद्वितीयपृथिव्योर्यदन्तराले आकाशखण्डं तत्प्रथमं तदपेक्षया सप्तमं सप्तम्या अधस्तात्तस्योपरिष्टात्सप्तमस्तनुवातस्तस्योपरि सप्तमो धनवातस्तस्याप्युपरि सप्तमो धनोदधिस्तस्याप्युपरि सप्तमी पृथिवी, तनुवातादीनांचपञ्चवर्णादित्वंपौद्गलिकत्वेनमूर्तत्वात्, अष्टस्पर्शत्वंचवादरपरिणामत्वात्, अष्टौ च स्पर्शा शीतोष्णस्निग्ध-रूक्षमूदुकठिनलघुगुरूभेदादिति।
जम्बूद्वीपे इत्यत्रं यावत्करणाल्लवणसमुद्रादीनि पदानि वाच्यानि 'जाव वेमाणियावासा' इह यावत्करणादसुरकुमारावासादिपरिग्रहः,ते च भवनानि नगराणि विमानानि तिर्यगलोके तन्नगर्यश्चेति । 'वेउब्वियतेयाइं पडुच्च'त्ति वैक्रियतैजसशरीरे हि बादरपरिणामपुद्गलरूपे ततो वादरत्वात्तयो रकाणामष्टस्पर्शत्वं, 'कम्मगं पडुच्च'त्ति कार्मणं हि सूक्ष्मपरिणामपुद्गलरूपमतश्चतुःस्पर्श, ते च शीतोष्णस्नग्धरूक्षाः।
'धम्मत्थिकाए' इह यावत्करणादेवं दृश्यम्-'अधम्मत्थिकाए आगासत्थकाए पोग्गलस्थिकाए अद्धासमए आवलिया मुहुत्ते'इत्यादि, 'दव्वलेसं पडुच्च'त्ति इह द्रव्यलेश्यावर्ण : ‘भावलेसं पडुच्च'त्ति भावलेश्या-आन्तरः परिणामः, इहच कृष्णलेश्यादीनि परिग्रहसज्ञाऽवसानानि अवर्णादीनि जीवपरिणामत्वात्, औदारिकादीनि चत्वारि शरीराणि पञ्चवर्णादिविशेषणानि अष्टस्पर्शानि च बादरपरिणामपुद्गलरूपत्वात्, सर्वत्र च चतुःस्पर्शत्वे सूक्ष्मपरिणामः कारणं अष्टस्पर्शत्वेचबादरपरिणामः कारणंवाच्यमिति, 'सव्वदव्य'त्ति सर्वद्रव्याणिधर्मास्तिकायादीनि 'अत्थेगइया सव्वदव्या पंचवन्ने' त्यादि बादरपुद्गलद्रव्याणि प्रतीत्योक्तं सर्वद्रव्याणां मध्ये कानिचिधर्मास्तिकायादीनि अत्थेगइया सव्वदव्वापंचवन्ने'त्यादि वादरपुद्गलद्रव्याणिप्रतीत्योक्तं सर्वद्रव्याणां मध्ये कानिचित्पञ्चवर्णादीनीति भावार्थः 'चउफासा' इत्येतच्च पुद्गलद्रव्याण्येव सूक्ष्माणि प्रतीत्योक्तं।
“एगगंधे' त्यादिच परमाण्वादिद्रव्याणि प्रतीत्योक्तं, यदाह परमा- णुद्रव्यमाश्रित्य॥१॥ "कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः ।
एकरस वर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ।।" इति, स्पर्शद्वयंचसूक्ष्मसम्बन्धिनां चतुर्णा स्पर्शानामन्यतरदविरुद्धं भवति, तथाहि-स्निग्धोष्णलक्षणं स्निग्धशीतलक्षणं वा रूक्षशीतलक्षणं रूक्षोष्णलक्षणं वेति, 'अवण्णे'त्यादि च धर्मास्तिकायादिद्रव्याण्याश्रित्योक्तं, द्रव्याश्रितत्वात्प्रदेशपर्यवाणां द्रव्यसूत्रानन्तरं तत्सूत्रं, तत्र च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org