________________
भगवती अङ्गसूत्रं (२) ११/-/११/५२३ तहारूवाणं थेराणं अंतियं केवलिपन्नत्ते धम्मे निसंते, सेऽविय धम्मे इच्छिए पडिच्छिए अभिरुइए तं सुणं तुमं सुदंसणा ! इदाणिं पकरेसि । से तेणट्टेणं सुदंसणा ! एवं वुच्चइ-अत्थि णं एतेसिं पलिओवमसागरोवमाणं खयेति वा अवचयेति वा, तए णं तस्स सुदंसणस्स सेट्ठिस्स समणस्स भगवओ महावीरस्स अंतियं एयमहं सोच्चा निसम्म सुभेणं अज्झवसाणेणं सुभेणं परिणामेणं लेसाहिं विसुज्झमाणीहिं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहपोहमग्गणगवेसणं करेमाणस्स सन्नीपुच्वे जातीसरणे समुपपन्ने एयमट्टं सम्मं अभिसमेति ।
तणं से सुदंसणे सेट्ठी समणं भगवया महावीरेणं संभारियपुव्वभवे दुगुणाणीयसङ्घसंवेगे आनंदसुपुन्ननयणे समणं भगवं महावीरं तिक्खुत्तो आ० २ वं० नमं० २ त्ता एवं व्यासी- एवमेयं भंते! जाव से जहेयं तुज्झे वदहत्तिकट्टु उत्तरपुरच्छिमं दिसीभागं अवक्क मइ सेसं जहा उसभदत्तस्स जाव सव्वदुक्खप्पहीणे, नवरं चोद्दस पुव्वाइं अहिज्जइ, बहुपडिपुन्नाइं दुवालस वासाई सामन्नपरियागं पाउणइ, सेसं तं चेव । सेवं भंते! सेवं भंते ! ॥
४८
वृ. 'विमलस्स' त्ति अस्यामवसर्पिण्यां त्रयोदशजिनेन्द्रस्य 'पउप्पए' त्ति प्रपौत्रकः - प्रशिष्यः अथवा प्रपौत्रिके - शिष्यसन्ताने 'जहा केसिसामिस्स' त्ति यथा केशिनाम्न आचार्यस्य राजप्रश्नकृताधीतस्य वर्णक उक्तस्तथाऽस्य वाच्यः, सच 'कुलसंपन्ने बलसंपन्ने रूवसंपन्ने विनयसंपन्ने' इत्यादिरिति, 'वृत्तपडिवृत्तय' त्ति उक्तप्रत्युक्तिका भणितानि मातुः प्रतिभणितानि च महाबलस्येत्यर्थः, नवरमित्यादि, जमालिचरिते हि विपुलकुलबालिका इत्यधीतमिह तु विपुलराजकुलबालिका इत्येतदध्येतव्यं, कला इत्यनेन चेदं सूचितं ।
'कलाकुसलसव्वकाललालियसुहोइयाओ'त्ति, 'सिवभद्दस्स'त्ति एकादशशतनवमोद्देशकामिहितस्य शिवराजर्षिपुत्रस्य, 'जहा अम्मडो' त्ति यथौपपातिके अम्मडोऽधीतस्तथाऽयमिह वाच्यः, तत्र च याव्तकरमादेतत्सूत्रमेवं दृश्यं - 'गहगणनक्खत्ततारारूवाणं बहूईं जोयणाई बहूई जोयणसयाई बहूइं जोयणसहस्साइं बहूई जोयणसयसहस्साइं बहूई जोयणकोडाकोडीओ उडुं दूरं उप्पइत्ता सोहम्मीसाणसणंकुमारमाहिंदे कप्पे वीईवइत्त'त्ति ।
इह च किल चतुर्दशपूर्वधरस्य जघन्यतोऽपि लान्तके उपपात इष्यते, “जावंति लंतगाओ चउदसपुव्वी जहन्नउववाओ’त्ति वचनादेतस्य चतुर्दशपूर्वधरस्यापि यद् ब्रह्मलोक उपपात उक्तस्तत् केनापि मना विस्मरणादिना प्रकारेण चतुर्दशपूर्वाणामपरिपूर्णत्वादिति संभावयन्तीति ।
'सन्नी पुव्वजाईसरणे' त्ति सञ्ज्ञिरूपा या पूर्वा जातिस्तस्याः स्मरणं यत्तत्तथा ' अहिसमेइ' त्ति अधिगच्छतीत्यर्थः 'दुगुणाणीयसङ्घसंवेगे' त्ति पूर्वकालापेक्षया द्विगुणावानीतौ श्रद्धासंवेगी यस्य स तथा, तत्र श्रद्धा-तत्त्वश्रद्धानं सदनुष्ठानचिकीर्षा वा संवेगो - भवभयं मोक्षाभिलाषो वेति, 'उसभदत्तस्स'त्ति नवमशते त्रयस्त्रिंशत्तमोद्देशकेऽभिहितस्येति ॥
शतकं - ११ उद्देशकः - ११ समाप्तः
-: शतकं - ११ उद्देशकः - १२:
वृ. एकादशोद्देशके काल उक्तो द्वादशेऽपि स एव भङ्गयन्तरेणोच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्
मू. (५२५) तेणं कालेणं २ आलमिया नामं नगरी होत्था वन्नओ, संखवणे चेइए वनओ,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International