________________
शतकं - ३४/१, वर्ग:-१, उद्देशकः - २
वेमायविसेसाहियं कम्मं पकरेति ।
सेकेणद्वेणं जाव वेमायविसेसाहियं कम्मं पकरेति ?, गोयमा ! अनंतरोववन्नगा एगिंदिया दुविहा प० तं० - अत्थेगइया समाउया समोववन्नंगा अत्थेगइया समाउया विसमोववन्नगा तत्थ णं जे ते समाउया समोववन्नगा ते णं तुल्लट्ठितीया तुल्लविसेसाहियं कम्मं पकरेति तत्थ णं जे ते समाउया विसमोववन्नगा ते णं तुल्लट्ठितीया वेमायविसेसाहियं कम्मं पकरेंति, से तेणट्टेणं जाव वेमायविसेसाहियं० पकरेंति । सेवं भंते ! २ त्ति ॥
४८९
वृ. 'दुयाभेदो' त्ति, अनन्तरोपपन्नैकेन्द्रियाधिकारादनन्तरोपपन्नानां च पर्याप्तकत्वाभावादपर्याप्तकानां सतां सूक्ष्मा बादराश्चेति द्विपदो भेदः, 'उववाएणं सव्वलोए समुग्धाएणं सव्वलोए'त्ति, कथम्?, 'उपपातेन' उपपाताभिमुख्येनापान्तरालगतिवृत्येत्यर्थ समुद्घातेन - मारणान्तिकेनेति, ते हि ताभ्यामतिबहुत्वात्सर्वलोकमपि व्याप्य वर्त्तन्ते, इह चैवंभूतया स्थापनया भावना कार्याअत्र च प्रथमवक्रं यदैवैके संहरन्ति तदैव तद्वक्रदेशमन्ये पूरयन्ति, एवं द्वितीयवक्रसंहरणेऽपि अवक्रोत्पत्तावपि प्रवाहतो भावनीयम्, अनन्तरोपपन्नकत्वं चेह भाविभवापेक्षं ग्राह्यमपान्तराले तस्य साक्षादभावात्, मारणान्तिकसमुद्घातश्च प्राक्तनभवापेक्षयाऽनन्तरोपपन्नकावस्थायां तस्यासम्भवादिति ।
'सट्ठाणेणं लोगस्स असंखेज्जइभागे त्ति, रत्नप्रभादिपृथिवीनां विमानानां च लोकस्यासंख्येयभागवर्त्तित्वात् पृथिव्यादीनां च पृथिवीकायिकानां स्वस्थानत्वादिति, 'सट्टाणाइं सव्वेसिं जहा ठाणए तेसिं पचत्तगाणं बायराणं' ति, इह तेषामिति पृथिवीकायिकादीनां, स्वस्थानानि चैवं बादरपृथिवीकायिकानां ।
'अट्ठसु पुढवीसुतंजहा - रयणप्पभाए' इत्यादि, बादराप्कायिकानां तु 'सत्तसु घनोदहीसु' इत्यादि, बादरतेजस्कायिकानां तु 'अंतोमणुस्सखेत्ते ' इत्यादि, बादरवायकायिकानां पुनः 'सत्तसु घनवायवलएसु' इत्यादि, बादरवनस्पतीनां तु 'सत्तसु घनोहीसु' इत्यादि ।
'उववायसमुग्घायसट्ठाणाणि जहा तेसिं चेव अपज्जत्तगाणं बायराणं'ति, इह 'तेसिं चेव'त्ति पृथिवीकायिकादीनां तानि चैवं- ' जत्थेव वायरपुढविकाइयाणं पज्जत्तगाणं ठाणा तत्थेव बायरपुढविकाइयाणं अपज्जत्तगाणं ठाणा पन्नत्ता उववाएणं सव्वलोए समुग्धाएणं सव्वलोए सट्टाणेणं लोगस्स असंखेज्जइभागे' इत्यादि ।
समुद्घातसूत्रे - 'दोन्नि समुग्धाय'त्ति, अनन्तरोपपन्नत्वेन मारणान्तिकादिसमुद्घातानामसम्भवादिति ।
'अनंतरोववन्नगएगिंदिया णं भंते! किं तुल्लट्ठिईए' इत्यादौ, 'जे ते समाउया समोववन्नगा ते णं तुल्लईया तुल्लविसेसाहियं कम्मं पकरेति' त्ति ये समायुषः अनन्तरोपपन्नकत्वपर्यायमाश्रित्य समयामात्रस्थितकास्तत्परतः परम्परोपपन्नकव्यदेशात् समोपपन्नकाः एकत्रैव समये उत्पत्तिस्थानं प्राप्तास्ते तुल्यस्थितयः समोपपन्नकत्वेन समयोगत्वात्, तुल्यविशेषाधिकं कर्म प्रकुर्वन्ति ।
'तत्थ णं जे ते समाउया विसमोववन्नगा ते णं तुल्लट्ठिइया वेमायविसेसाहियं कम्मं पकरेति त्ति ये तु समायुषस्तथैव विषमोपपन्नका विग्रहगत्या समायादिभेदेनोत्पत्ति स्थानं प्राप्तास्ते तुल्यस्थितयः आयुष्कोदयवैषम्येणोत्पत्तिस्थानप्राप्तिकालवैषम्यात् विग्रहेऽपिच बन्धकत्वाद् विमात्रविशेषाधिकं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International