________________
भगवती अङ्गसूत्रं (२) २५/-/७/९५३
'उक्सेणं देसूणएहिं 'ति, अस्यायमर्थः - देशोननववर्षजन्मपर्यायेण केनापि पूर्वकोट्यायुषा प्रव्रज्या प्रतिपन्ना, तस्य च विंशतिवर्षप्रव्रज्यापर्यायस्य दृष्टिवादोऽनुज्ञातस्ततश्चासौ परिहारविशुद्धिकं प्रतिपन्नः, तच्चाष्टादशमासमानमप्यविच्छिन्नतत्परिणामेन तेनाजन्म पालितमित्येवमेकोनत्रिंशद्वर्षोनां पूर्वकोटिंयावत्तत्स्यादिति, 'अहक्खाए जहा सामाइयसंजए' त्ति तत्र जघन्यत एकं समयं उपशमावस्थायां मरणात्, उत्कर्षतो देशोना पूर्वकोटी, स्नातकयथाख्यातापेक्षयेति ।
पृथक्त्वेन कालचिन्तायां 'छेओवट्ठावणिए' इत्यादि, तत्रोत्सर्पिण्यामादितीर्थकरस्य तीर्थ यावच्छेदोपस्यापनीयं भवतीति, तीर्थं च तस्य सार्द्धं द्वे वर्षशते भवतीत्यत उक्तं- 'अड्डाइज्जाई' इत्यादि, तथाऽवसर्पिण्यामादितीर्थकरस्य तीर्थं यावच्छेदोपस्थापनीयं प्रवर्त्तते तच्च पञ्चाशत्सागरोपमकोटीलक्षा इत्यतः ‘उक्कोसेणं पन्नास 'मित्याद्युक्तमिति ।
परिहारविशुद्धिककालो जघन्येन 'देसूणाई दो वाससयाई' ति, कथम् ?, उत्सर्पिण्यामाद्यस्य जिनस्य समीपे कश्चिद्वर्षशतायुः परिहारविशुद्धिकं प्रतिपन्नस्तस्यान्तिके तज्जीवितान्तेऽन्यो वर्षशतायुरेव ततः परतो न तस्य प्रतिपत्तिरस्तीत्येवं द्वे वर्षशते, तयोश्च प्रत्येकमेकोनत्रिंशति वर्षेषु गतेषु तव्प्रतिपत्तिरित्येवमष्टपञ्चाशता वर्षैर्न्यूने ते इति देशोने इत्युक्तुं । एतच्च टीकाकारव्याख्यानं, चूर्णिकारव्याख्यानमप्येवमेव किन्त्वसर्पिण्यन्तिमजिनापेक्षमिति विशेषः, 'उक्कोसेणं देसूणाओ दो पुव्यकोडीओ 'त्ति, कथम् ?, अवसर्पिण्यामादितीर्थकरस्यान्तिके पूर्वकोट्यायुः कश्चित्परिहारविशुद्धिकं प्रतिपन्नस्तस्यान्तिके तजीवितान्तेऽन्यस्ताध्श एव तव्प्रतिपन्न इत्येवं पूर्वकोटीद्वयं तथैव देशोनं परिहारविशुद्धिकसंयतत्वं स्यादिति ।
अनन्तरद्वारे - 'छेओवट्ठावणिए' त्यादौ 'जहन्त्रेणं तेवट्ठि वाससहस्साइं ति, कथम् ?, अवसर्पिण्यां दुष्षमां यावच्छेदोपस्थापनीयं प्रवर्त्तते ततस्तस्या एवैकविंशतिवर्षसहस्रमानायामेकान्तदुष्षमायामुत्सर्पिण्याश्चैकान्तदुष्षमायां च तठप्रमाणायामेव तदभावः तु एवं चैकविंशतिवर्षसहस्रमानत्रयेण त्रिषष्टिवर्षसहस्राणामन्तरमिति, 'उक्कोसेणं अट्ठारस सागरोवमकोडाकोडीओ'त्ति किलोत्सर्पिण्यां चतुर्विंशतितमजिनतीर्थे छेदोपस्थापनीयं प्रवर्त्तते ततश्च सुषमदुष्षमादिसमात्रयेक्रमेण द्वित्रिचतुः सागरोपमकोटीकोटीप्रमाणे अतीते अवसर्पिण्याश्चैकान्तसुषमादित्रयेक्रमेण चतुस्त्रिद्विसागरोपमकोटी २ प्रमाणे अतीतप्राये प्रथमजिनतीर्थे छेदोपस्यापनीयं प्रवर्त्तत इत्येवं यथोक्तंछेदोपस्थापनीयस्यान्तरं भवति, यच्चेह किञ्चिन्न पूर्यते यच्च पूर्वसूत्रे ऽतिरिच्यते तदल्पत्वान्न विवक्षितमिति, 'परिहारविसुद्धिस्से' त्यादि ।
परिहारविशुद्धिकसंयतस्यान्तरं जघन्यं चतुरशीतिवर्षसहस्राणि, कथम् ?, अवसर्पिण्या दुष्षमैकान्तदुष्षमयोरुत्सर्पिण्याश्चैकान्तदुष्षमादुष्षमयोः प्रत्येकमेकविंशतिवर्षसहस्रप्रमाणत्वेन चतुरशीतिवर्षसहस्राणां भवति तत्र च परिहारविशुद्धिकं न भवतीतिकृत्वा जघन्यमन्तरं तस्य यथोक्तं स्यात्, यश्चेहान्तिमजिनानन्तरो दुष्षमायां परिहारविशुद्धिककालो यश्चोत्सर्पिण्यास्तृतीयसमायां परिहारविशुद्धिकप्रतिपत्तिकालात्पूर्व कालो नासौ विवक्षितोऽल्पत्वादिति, 'उक्कोसेणं अट्ठारस सागरोवमकोडाकोडीओ'त्ति छेदोपस्थापनीयोत्कृष्टान्तरवदस्य भावना कार्येति ।
परिणामद्वारे 'छेदोवडावणिये' इत्यादी 'जहन्नेणं कोडिसयपुहुत्तं उक्कोसेणवि कोडिसयपुहुत्तं त्ति, इहोत्कृष्टं छेदोपस्थापनीयसंयतपरिमाणमादितीर्थकरतीर्थान्याश्रित्य संभवति, जघन्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
४३८