SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ४१८ भगवतीअङ्गसूत्रं (२) २५/-/६/९१५ माणेनासङ्घयेयकेन कल्पनया पञ्चाशप्रमाणेन भागेहते लब्धं द्विशती, द्वितीयप्रतियोगिलाचरणपर्यवाग्र नव सहस्राण्यष्टोचशतानि पूर्वभागलब्धाच द्विशतीतत्र प्रक्षिप्ता,जातानि दशसहस्राणि, ततोऽसौ लोकाकाशप्रदेशपरिमाणासङ्खयेयकभागहारलब्धेनशतद्वयेन हीनइत्यसङ्खयेयभागहीनः संखेज्जभागहीणेव'तिपूर्वोक्तकल्पितपर्यायराशेर्दशसहस्रस्य उत्कृष्ट सङ्ख्येयकेन कल्पनया दशकपरिमामेन भागे हृते लब्धं सहनं, द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं नव सहस्राणि पूर्वभागलब्धंचसहनंतत्रप्रक्षिप्तं जातानिदशसहस्राणि, ततोऽसावुत्कृष्टसङ्खयेयकभाग-हारलब्भेन सहस्रेण हीनः। संखेज्जगुणहीणे व'त्ति किलैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया सहस्रदशकं द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रंच सहस्रंततश्चोत्कृष्टसङ्खयेयकेन कल्पनयादशकपरिमाणेन गुणकारेण गुणितः साहस्रो राशिर्जायते दश सहस्राणि, स च तेनोत्कृष्टसङ्ख्येयकेन कल्पनया दशक-परिमाणेन गुणकारेण हीनः-अनभ्यस्त इति सङ्घयेयगुणहीनः । ____ 'असंखेज्जगुणहीणे वत्ति किलैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया सहस्रदशकं द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं च द्विशती, ततश्च लोकाकाशप्रदेशपरिमाणेनासङ्ख्येयकेन कल्पनया पञ्चाशत्परिमाणेन गुणकारेण गुणितो द्विशतिको राशिर्जायते दशसहस्राणि, सचतेन लोकाकाशप्रदेशपरिमाणासङ्खयेयकेनकल्पनयापञ्चाशप्रमाणेनगुणकारेणहीन इत्यसङ्घयेयगुणहीनइति 'अनंतगुणहीणे वत्ति किलैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया सहस्रदशकं द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रंच शतं, ततश्च सर्वजीवानन्तकेन कल्पनया शतपरिमाणेन गुणकारेण गुणितः शतिको राशिर्जायते दश सहस्राणि, स च तेन सर्वजीवानन्तकेन कल्पनया शतपरिमाणेन गुणकारेण हीन इत्यनन्तगुणहीनः, एवमभ्यधिकषट्स्थानकशब्दार्थोऽप्येभिरेव भागापहारगुणकारैव्यार्खयेयः, तथाहि एकस्य पुलाकस्य कल्पनया दश सहस्राणि चरणपर्यवमानं तदन्यस्य नवशताधिकानि नव सहस्राणि, ततो द्वितीयापेक्षया प्रथमोऽनन्तभागाभ्यधिकः, तथा यस्य नव सहस्राण्यष्टौ च' शतानिपर्यवाग्रंतस्मात्प्रथमोऽसङ्खयेयभागाधिकः,तथा यस्य नवसहस्राणिचरणपर्यवाग्रं तस्माप्रथमः सङ्ख्येयभागाधिकः, तथायस्यचरणपर्यवाग्रंसहस्रमानंतदपेक्षयाप्रथमः सङ्खयेयगुणाधिकः, तथा यस्य चरणपर्यवाग्रं द्विशती तदपेक्षयाऽऽद्योऽसङ्खयेयगुणाधिकः, तथा यस्य चरणपर्यवाग्रं शतमानं तदपेक्षयाऽऽघोऽनन्तगुणाधिक इति॥ ___'पुलाए गंभंते! बउसस्से' त्यादि, 'परट्ठाणसन्निगासेणं'तिविजातीययोगमाश्रित्येत्यर्थः, विजातीयश्च पुलाकस्य बकुशादि, तत्र पुलाको बकुशाद्धीनसतथाविधविशुद्धयभावात्, कसायकुसीलेणंसमंछट्ठाणवडिएजहेवसट्ठाणे'त्ति पुलाकः पुलाकापेक्षयायथाऽभिहितस्तथा कषायकुशीलापेक्षयाऽपिवाच्यइत्यर्थः, तत्रपुलाकः कषायकुशीलाद्धीनोवा स्यात्अविशुद्ध-संयमस्थानवृत्तित्वात् तुल्यो वा स्यात् समानसंयमस्थानवृत्तित्वाद् अधिको वा स्यात् शुद्धतरसंयमस्थानवृत्तित्वात्। ___यतः-पुलाकस्य कषायकुशीलस्य च सर्वजघन्यानि संयमस्थानान्यधः, ततस्तौ युगपदसङ्ख्येयानि गच्छतस्तुल्याध्यवसानत्वात्, ततः पुलाको व्यवच्छिद्यते हीनपरिणामत्वात्, व्यवच्छिन्ने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003310
Book TitleAgam Suttani Satikam Part 06 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy