________________
शतकं - २५, वर्ग:-, उद्देशक :- ४
एव त्र्यणुकत्वात्स्कन्धानामिति ।
'चउप्पएसिया ण' मित्यादि, चतुष्पदेशिकानामोघतो विधानतश्च प्रदेशाश्चतुरग्रा एव । 'पंचपएसिया जहा परमाणुपोग्गल' त्ति सामान्यतः स्यात्कृतयुग्मादयः प्रत्येकं चैकाग्रा एवेत्यर्थ । 'छप्पएसिया जहा दुप्पएसिय'त्ति ओघतः स्यात्कृतयुग्मद्वापरयुग्माः, विधानतस्तु द्वापरयुग्मा इत्यर्थः एवमुत्तरत्रापि ।
अथ क्षेत्रतः पुद्गलांश्चिन्तयन्नाह - 'परमाणु' इत्यादि, परमाणुः कल्योजः प्रदेशावगाढ एव एकत्वात्, द्विप्रदेशिकस्तु द्वापरयुग्मप्रदेशावगाढो वा कल्योजः प्रदेशावगाढो वा स्यात् परिणामविशेषात्, एवमन्यदपि सूत्रं नेयम् ।
'परमाणुपोग्गलाण' मित्यादि, तत्रौघतः परमाणवः कृतयुग्मप्रदेशावगाढा एव भवन्ति सकललोकव्यापकत्वात्तेषां सकललोकप्रदेशानां चासङ्ख्यातत्वादवस्थितत्वाच्च चतुरग्रतेति, विधानतस्तु कल्योजःप्रदेशावगाढाः सर्वेषामेकैकप्रदेशावगाढत्वादिति, द्विप्रदेशावगाढास्तु सामान्यतश्चतुरग्रा एवोक्तयुक्ति, विधानतस्तु द्विप्रदेशिकाः ये द्विप्रदेशावगाढास्ते द्वापरयुग्माः ये त्वेकप्रदेशावगाढास्तु सामान्यतश्चतुरग्रा एवोक्तयुक्तितः, विधानतस्तु द्विप्रदेशिकाः ये द्विप्रदेशावगाढास्ते द्वापरयुग्माः ये त्वेकप्रदेशावगाढास्ते कल्योजाः, एवमन्यदप्यूह्यम् ।
अनंतपएसिएणं भंते! खंधे त्ति, इह कर्कशादिस्पर्शाधिकारेयदनन्तप्रदेशिकस्यैव स्कन्धस्य ग्रहणं तत्तस्यैव बादरस्य कर्कशादिस्पर्शचतुष्टयं भवति न तु परमाण्वादेरित्यभिप्रायेणेति, अत एवाह- सीओसिणनिद्धलुक्खा जहा वन्नत्ति एतत्पर्यवाधिकार परमाण्वादयोऽपि वाच्या इति
भावः
३९९
मू. (८९०) परमाणुपोग्गले णं भंते! किं सड्डे अणड्डे ?, गोयमा ! नो सड्ढे अणड्ढे दुपएसिए णं पुच्छा गो० ! सड्ढे नो अणड्डे, तिपएसिए जहा परमाणुपोग्गले, चउपएसिए जहा दुपएसिए, पंचपएसिए जहा तिपएसिए छप्पएसिए जहा दुपएसिए जहा परमाणुपोग्गले, चउपएसिए जहा दुपएसिए, पंचपएसिए जहा तिपएसिए छप्पएसिए जहा दुपएसिए सत्तपएसिए जहा तिपएसिए अट्ठपएसिए जहा दुपएसिए नवपएसिए जहा तिपएसिए दसपएसिए जहा दुपएसिए ।
संखेज्जपएसिए णं भंते ! खंधे पुच्छा, गोयमा ! सिय सड्ढे सिय अणड्डे, एवं असंखेजपएसिएवि, एवं अनंतपएसिएवि । परमामुपोग्गलाणं भंते! किं सड्ढा अणड्डा ?, गोयमा ! सड्डा वा अणड्डा वा एवं जाव अनंतपएसिया ।।
वृ. पुद्गलाधिकारादिदमाह - 'परमाणु' इत्यादि, सिय सहे सिय अणडे'त्ति यः समसङ्घयप्रदेशात्मकः स्कन्धः स सार्द्धः इतरस्त्वनर्द्ध इति । 'परमाणुपोग्ले' त्यादि, यदा बहवोऽणवः समसङ्ख्या भवन्ति तदा सार्द्धः यदा तु विषमसङ्ख्यास्तदाऽनर्द्धांः, सङ्घातभेदाभ्यामनवस्थितरूपत्वात्तेषामिति । पुद्गलाधिकारादेवेदमुच्यते
मू. (८९१) परमाणुपोग्गले णं भंते! किं सेए निरेइ ?, गोयमा ! सिय सेए सिय निरेए, एवं जाव अनंतपएसिए । परमाणुपोग्गला णं भंते! किं सेया निरएयावि, एवं जाव अनंतपएसिया । परमाणुपुग्गले णं भंते ! सेए कालओ केवचिरं होइ ?, गोयमा ! जह० एक्कं समयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org