________________
३८२
भगवती अङ्गसूत्रं (२) २५/-/३/८७५
इत्येतदेवं भावनीयं -रुचकार्द्धादारभ्य यत्पूर्वं दक्षिणं वा लोकार्द्धतदितरेणं तुल्यमतः पूर्वापरश्रेणयो दक्षिणोत्तरश्रेणयश्च समसङ्खयप्रदेशाः, ताश्च काश्चित् कृतयुग्माः काश्चिद् द्वापरयुग्माश्च भवन्ति न पुनस्त्र्योजप्रदेशाः कल्योजप्रदेशावा, तथाहि - असद्भावस्थापनया दक्षिणपूर्वाद् रुचकप्रदेशात्पूर्वतो यल्लोक श्रेण्यर्द्ध तत्प्रदेशशतमानं भवति, यच्चापरदक्षिणाद्रुचकप्रदेशादपरतो लोकश्रेण्यर्द्ध तदपि प्रदेशतमानं, ततश्च शतद्वयस्य चतुष्कापहारे पूर्वापरायतलोकश्रेण्याः कृतयुग्मता भवति, तथा दक्षिणपूर्वाद्रुचकप्रदेशाद्दक्षिणो योऽन्त्यः प्रदेशस्तत आरभ्य पूर्वतो यल्लोक श्रेण्यर्द्धं तत्रवनवतिप्रदेशमानं यच्चापरदक्षिणायतागुचकप्रदेशाद्दक्षिणो योऽन्यत्यः प्रदेशस्तत आरभ्यापरतो लोकश्रेण्यर्द्धतदपि च नवनवतिप्रदेशमानं, ततश्च द्वयोर्नवनत्योर्मीलने चतुष्कापहारे च पूर्वापरायतलोकश्रेण्या द्वापरयुग्मता भवति, एवमन्यास्वपि लोकश्रेणीषु भावना कार्या, इह चेयं सङ्ग्रहगाथा - " तिरियाययाउ कडबायराओ लोगस्स संखसंखा वा ।
119 11
सेढीओ कडजुम्मा उड्डमआययमसंखा ।।” इति ।
तथा‘अलोगागाससेढीओणं भंते! पएसे' त्यादौ 'सिय कडजुम्माओ'त्तियाः क्षुल्लकप्रतरद्वयसामीप्यात्तिरश्चीनतयोत्थिता याश्च लोकमस्पृशन्त्यः स्थितास्ता वस्तुस्वभावात्कृतयुग्माः, यावत्करणात् 'सिय तेओयओ सिय दावरजुम्माओ' त्ति दृश्यं, तत्र च याः क्षुल्लकप्रतरद्वयस्याधस्तनादुपरितनाद्वा प्रतरादुत्थितास्तास्त्र्योजाः, यतः क्षुल्लकप्रतरद्वयस्याध उपरि च प्रदेशतो लोकस्य वृद्धिभावेनालोकस्य प्रदेशत एव हानिभावादेकैकस्य प्रदेशस्यालोकश्रेणीभ्योऽपगमो भवतीति, एवं तदनन्ताराभ्यामुत्थिता द्वापरयुग्माः, 'सिय कलिओगाओ' त्ति तदनन्तराभ्यामेवोत्थिताः कल्योजाः, एवं पुनः पुनस्ता एव यथासम्भवं वाच्या इति ।
'उड्डाययाण' मित्यादि, इह क्षुल्लकप्रतरद्वयमाने या उत्थिता ऊर्द्धायतास्ता द्वापरयुग्माः तत ऊर्द्धमधश्चैकैकप्रदेशवृद्धया कृतयुग्माः क्वचिच्चैकप्रदेशवृद्धयाऽन्यत्र वृद्धयभावेन त्र्योजाः, कल्योजास्त्विह न संभवन्ति वस्तुस्वभावात्, एतच्च भूमौ लोकमालिख्य केदाराकारप्रदेशवृद्धिमन्तं ततः सर्वं भावनीयमिति ॥ अथ प्रकारान्तरेण श्रेणीप्ररूपणायाह
मू. (८७६) कति णं भंते! सेढीओ प० ?, गोयमा ! सत्त सेढीओ पन्नत्ताओ, तंजहाउज्जुआयता एगओवंका दुहओवंका एगओखहा दुहओखहा चक्कवाला अद्धचक्कवाला । परमाणुपोग्गलाणं भंते! किं अणुसेढीं गती पवत्तति विसेटिं गती पवत्तति ?, गोयमा ! अणुसेढी गति पवत्तति नो विसेढीं गती पवत्तति ।
सियाणं भंते! खंधणं अणुसेढीं गती पवत्तति विसेढीं गती पवत्तति एवं चेव, एवं जाव अनंतपएसियाणं खंधाणं । नेरइयाणं भंते ! किं अणुसेढीं गती पवत्तति विसेढीं गती पवत्तति एवं चेव, एवं जाव वेमाणियाणं ।।
वृ. 'कइ ण 'मित्यादि, 'श्रेणयः 'प्रदेशपङ्क्तयो जीवपुद्गलसञ्चरणविशेषिताः तत्र 'उज्जुयायत'त्ति ऋजुश्चासावायता चेति ऋज्वायता यया जीवादय ऊर्ध्वलोकादेरधोलोक दौ ऋजुतया यान्तीति, 'एगओ वंक' त्ति 'एकत' एकस्यां दिशि 'वङ्का' वक्रायया जीवपुद्गला ऋजु गत्वा वक्रं कुर्वन्ति - श्रेण्यन्तरेण यान्तीति, 'दुहओवंक' त्ति यस्यां वारद्वयं वक्र कुर्वन्ति सा द्विधावक्रा, इयं चोर्ध्वक्षेत्रादाग्नेयदिशोऽधः क्षेत्रे वायव्यदिशि गत्वा य उत्पद्यते तस्य भवति, तथाहि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org