SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ भगवती अङ्गसूत्रं (२) २५/-/३/८७३ पहारोऽस्तीत्येकत्वचिन्तायां न कृतयुग्मादिव्यपदेशः किन्तु कल्योजव्यपदेश एव, यदा तु पृथकत्वचिन्ता तदा कदाचिदेतावन्ति तानि परिमण्डलानि भवन्ति यावतां चतुष्कापहारेण निच्छेदता भवति कदाचित्पुनस्त्रीण्यधिकानि भवन्ति कदाचिद्वे कदाचिदेकमधिकमित्यत एवाह - परिमंडला णं भंते' इत्यादि, 'ओघादेसेणं' ति सामान्यतः 'विहाणादेसेणं' ति विधानादेशो यत्समुदितानामप्येकैकस्यादेशनं तेन च कल्योजतैवेति । अथ प्रदेशार्थचिन्तां कुर्वन्नाह - 'परिमंडले ण' मित्यादि, तत्र परिमण्डलं संस्थानं प्रदेशार्थतया विंशत्यादिषु क्षेत्रप्रदेशेषु ये प्रदेशाः परिमण्डलसंस्थानष्पादका व्यवस्थितास्तदपेक्षयेत्यर्थः 'सियकडजुम्मे' त्ति तत्प्रदेशानां चतुष्कापहारेणापह्रियमाणानां चतुष्पर्यवसितत्वे कृतयुग्मं त्स्यात्, यदा त्रिपर्यवसानां तत्तदा त्र्योजः, एवं द्वापरं कल्योजश्चेति, यस्मादेकत्रापि प्रदेशे बहवोऽवोऽवगाहन्त इति । ३७८ अथावगाहप्रदेशनिरूपणायाह- 'परिमंडले' त्यादि, 'कडजुम्मपएसोगाढे' त्ति यस्मात्परिमण्डलं जघन्यतो विंशतिप्रदेशावगाढमुक्तं विंशतेश्च चतुष्कापहारे चतुष्पर्यवसितत्वं भवति एवं परिमण्डलान्तरेऽपीति 'वट्टेण' मित्यादि, 'सिय कडजुम्मपए सोगाढे' त्ति यप्रतरवृत्तं द्वादशप्रदेशिकं यच्च घनवृत्तं द्वात्रिंशत्प्रदेशिकमुक्तं तच्चतुष्कापहारे चतुरग्रत्वात्कृतयुग्मप्रदेशावगाढं 'सिय तेओयपएसोगाढे ति यच्च घनवृत्तं सप्तप्रदेशिकमुक्तं व्यग्रत्वात्योजः प्रदेशावगाढं 'सिय कलिओयपएसो गाढे' त्ति यत्प्रवरवृत्तं पञ्चप्रदेशिकमुक्तं तदेकाग्रत्वात्कल्योज प्रदेशावगाढमिति ।. 'तं से णं' मित्यादि सिय कडजुम्मपएसोगाढे'त्ति यद् धनत्र्यनं चतुष्प्रदेशिकं तत्कृतयुग्मप्रदेशावगाढं 'सिय तेओगपएसोगाढे' त्ति यत् प्रतरत्र्यनं त्रिप्रदेशा- वगाढं धनत्र्यनं च पञ्चत्रिंशत्प्रदेशावगाढं तत्यग्रत्वात्योजः प्रदेशवागाढ, 'सिय दावरजुम्मपएसोगाढे- 'त्ति यव्यतरत्र्यनं षटएप्रदेशिकमुक्तं तद् द्वयग्रत्वाद् द्वापरप्रदेशावगाढमिति । ‘चउरंसे ण’मित्यादि, ‘जहा वट्टे' त्ति 'सिय कडजुम्मपएसोगाढे सियतेओयपएसोगाढे सिय कलिओयपएसोगाढे' इत्यर्थः तत्र यत् प्रतरचतुरनं चतुष्प्रदेशिकं घनचतुरनं चाष्टप्रदेशिकमुक्तं तच्चतुरग्रत्वात्कृतयुग्मप्रदेशावगाढं, तथा यद् धनचतुरस्रं सप्तविंशतिप्रदेशिकमुक्तं तत्र्यग्रत्वात्योजः प्रदेशावगाढं, तथा यत्प्रतरचतुरस्रंन वप्रदेशिकमुक्तं तदेकाग्रत्वात् कल्योजःप्रदेशावगाढमिति । 'आयए ण 'मित्यादि 'सिय कडजुम्मपएसोगाढे' त्ति यद् घनायतं द्वादशप्रदेशिकमुक्तं तत्कृतयुग्मप्रदेसावगाढं यावत्करणात् 'सिय तेओयपएसोगाढे सिय दावरजुम्मपएसोगाढे' त्ति दृश्यं, तत्र च यत् श्रेण्यायतं त्रिप्रदेशावगाढं यच्च प्रतरायतं पञ्चदशप्रदेशिकमुक्तं तत्यग्रत्वात्योजःप्रदेशावगाढं, यत्पुनः श्रेण्यायतं द्विप्रदेशिकं यच्च प्रतरायतं षटएप्रदेशिकं तद् द्वयग्रत्वाद् द्वापरयुग्मप्रदेशावगाढं, 'सिय कलिओयपएसोगाढे 'त्ति यद् धनायतं पञ्चत्वारिशठप्रदेशिकं तदेकाग्रत्वात्कल्योजः प्रदेशावगाढमिति ॥ एवमेकत्वेन प्रदेशावगाढमाश्रित्य संस्थानानि चिन्तितानि अथ पृथक्त्वेन तानि तथैव चिन्तयन्नाह - 'परिमंडला णमित्यादि, 'ओघादेसेणवि'त्ति सामान्यतः समस्तान्यपि परिमण्डलानीत्यर्थः 'विहाणादेसेणवि' त्ति भेदतः एकैकं परिमण्डलमित्यर्थः कृतयुग्मप्रदेशावगाढान्येव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003310
Book TitleAgam Suttani Satikam Part 06 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy