________________
भगवती अङ्गसूत्रं (२) २४/-/२३/८५९
वृ. 'जहनेणं दो अट्ठभागपलिओवमाई' ति द्वौ पल्योपमाष्टभागावित्यर्थः तत्रैकोऽसङ्ख्यातायुष्कसम्बन्धी द्वितीयस्तु तारकज्योतिष्कसम्बन्धीति, 'उक्कोसेणं चत्तारि पलिओवमाइं वाससयसहस्समब्भहियाई 'ति त्रीण्यसङ्ख्यातायुः - सत्कानि एकं च सातिरेकं चन्द्रविमानज्योतिष्कसत्कमिति, तृतीयगमे 'ठिई जहन्नेणं पलिओवमं वाससयसहस्समब्भहियं 'ति यद्यप्यसङ्ख्यातवर्षायुषां सातिरेका पूर्वकोटी जघन्यतः स्थितिर्भवति तथाऽपीह पल्योपमं वर्षलक्षाभ्यमधिकमुक्तं ।
एतप्रमाणायुष्केषु ज्योतिष्केषूत्पत्स्यमानत्वाद्, यतोऽसङ्ख्यातवर्षायुः स्वायुषो बृहत्तरायुष्केषु देवेषु नोत्पद्यते, एतच्च प्रागुपदर्शितमेव, चतुर्थे गमे जघन्यकालस्थितिकोऽसङ्ख्यातवर्षायुरौधिकेषु ज्योतिष्केषूत्पन्नः, तत्र चासङ्ख्यातायुषे, यद्यपि पल्योपमाष्टभागाद्धीनतरमपि जघन्यत आयुष्कं भवति तथाऽपि ज्योतिषां ततो हीनतरं नास्ति, स्वायुस्तुल्यायुर्बन्धकाश्चोत्कर्षतोऽसङ्ख्यातवर्षायुष इतीह जघन्यस्थितिकास्ते पल्योपमाष्टभागायुषो भवन्ति, ते च विमलवाहनादिकुलकरकालात्पूर्वतकालभूवो हस्त्यादयः औधिकज्योतिष्का अप्येवंविधा एव तदुत्पत्तिस्थानं भवन्तीति ‘जहन्त्रेणं अट्ठभागपलिओवमट्ठिईएसु' इत्याद्युक्तम् ।
'ओगाहणा जहन्त्रेणं घणुहपुहुत्तं 'ति यदुक्तं तत्पल्योपमाष्टभागमानायुषो विमलवाहनादिकुलकरकालात्पूर्वतरकालभाविनो हस्त्यादिव्यतिरिक्तक्षुद्रकायचतुष्पादनपेक्ष्यावगन्तव्यं, ‘उक्कोसेणं सातिरेगाइं अट्ठारसधणुसयाई' ति एतच्च विमलवाहनकुलकरपूर्वतरकालभाविहस्त्यादीनपेक्ष्योक्तं, यतो विमलवाहनो नवधनुः शतमानावगाहनः तत्कालहस्त्यादयश्च तद् द्विगुणाः, तत्पूर्वतरकालभाविनश्च ते सातिरेकतप्रमाणा भवन्तीति ।
'जन्नकालट्ठियस्स एस चेव एक्को गमो त्ति पञ्चमषष्ठगमयोरत्रैवान्तर्भावाद्, यतः पल्योपमाष्टभागमानायुषो मिथुनकतिरश्चः पञ्चमगमे षष्ठगमे च पल्योपमाष्टभागमानमेवायुर्भवतीति, प्राग् भावितं चैतदिति, सप्तमादिगमेषूत्कृटैव त्रिपल्योपमलक्षणा तिरश्च स्थिति, ज्योतिष्कस्य तु सप्तमेद्विविधा प्रतीतैव, अष्टमे पल्योपमाष्टभागरूपा, नवमे सातिरेकपल्योपमरूपा, संवेधश्चैतदनुसारेण कार्य 'एते सत्त गम' त्ति प्रथमास्त्रयः मध्यमत्रयस्थाने एकः पश्चिमास्तु त्रय एवेत्येवं सप्त। असङ्ख्यातवर्षायुष्कमनुष्याधिकारे - 'ओगाहणा सातिरेगाई नवधणुसयाई 'ति विमलवाहनकुलकरपूर्वकालीनमनुष्यापेक्षया, 'तिन्नि गाउयाई' ति एतच्चैकान्तसुषमादिभाविमनुष्यापेक्षया, 'मज्झिमगमए' त्ति पूर्वोक्तनीतेस्त्रिभिरप्येक एवायमिति ।।
शतकं - २४ उद्देशकः - २३ समाप्तः
३६२
-: शतकं -२४ उद्देशकः-२४ः
मू. (८६०) सोहम्मदेवा णं भंते! कओहिंतो उवव० किं नेरइएहिंतो उवव० भेदो जहा जोइसियउद्देसए, असंखेज्जवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते! जे भविए सोहम्मगदेवेसु उवव० से णं भंते! केवतिकाल० ?, गोयमा ! जह० पलिओवमट्ठितीएसु उक्कोसे० तिपलिओवमट्ठितीएसु उवव० ।
ते णं भंते! अवसेसं जहा जोइसएसु उववज्जमाणस्स नवरं सम्मदिट्ठीवि मिच्छादि० नो सम्मामिच्छादिट्ठी नाणीवि अन्नाणीवि दो नाणा दो अन्नाणा नियमं ठिती जह० दो पलिओवमाइं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org