________________
३४२
भगवतीअङ्गसूत्रं (२) २४/-/१२/८४६ पुण बारस जोयणाइंति ‘सम्मदिट्ठीवि'त्ति एतच्चोच्यते सास्वादनसम्यक्त्वापेक्षयेति, इयं च वक्तव्यतौधिकद्वीन्द्रियस्यौधिकपृथिवीकायिकेषु एवमेतस्य जघन्यस्थितिष्वपि तस्यैवोत्कृएस्थितिषूत्पत्तौ संवेधे विशेषोऽत एवाह___'नवर'मित्यादि, ‘अट्ठ भवग्गहणाई'ति एकपक्षस्योत्कृष्टस्थितिकत्वात् ‘अडयालीसाए संवच्छरेहिं अब्भहियाईति चतुषु द्वीन्द्रियभवेषु द्वादशाब्दमानेष्वष्टचत्वारिंशत्संवत्सरा भवन्ति तैरभ्यधिकान्यष्टाशीतिवर्षसहस्राणीति, द्वितीयस्यापि गमत्रयस्यैषैव वक्तव्यता विशेषं त्वाह
___ 'नवर'मित्यादि, इह सप्तनानात्वानि शरीरावगाहना यथा पृथिवीकायिकानामङ्गुलासङ्खयेयभागमानमित्यर्थः, प्राक्तनगमत्रयेतु द्वादशयोजनमानाऽप्युक्तेति?,तथा 'नोसम्मदिट्ठी' जघन्यस्थितिकतया सासादनसम्यग्दृष्टीनामनुत्पादात्, प्राक्तनगमेषु तु सम्यग्दृष्टिरप्युक्तोऽजघन्यस्थितिकस्यापि तेषु भावात् २, तथा द्वे अज्ञाने प्राक् च ज्ञाने अप्युक्ते ३, तथा योगद्वारे जघन्यस्थितिकत्वेनापर्याप्तकत्वान्न वाग्योयःप्राक्चोभयरूपाणि ६, सप्तमंनानात्वमनुबन्धइति, संवेधस्तु द्वितीयत्रयस्याद्ययोर्द्वयोर्गमयोरुत्कर्षतो भवादेशेन सङ्घयेयभवलक्षणः कालादेशेन च सङ्ख्येयकाललक्षणः ७, तृतीये तु विशेषमाह
. 'तइए गमए'इत्यादि, अन्त्यगमत्रये ‘कालादेसेणं उवजुजिऊण भाणियव्य'ति यत्तदेवं प्रथमेगमेकालत उत्कर्षतोऽष्टाशीतिवर्षसहाण्यष्टचत्वारिंशतावरधिकानिद्वितीयेत्वष्टचत्वारिंशद् वर्षाण्यन्तर्मुहूर्तचतुष्टयाधिकानि तृतीये तु संवेधो लिखित एवास्ते।
अथ त्रीन्द्रियेभ्यस्तमुत्पादयन्नाह-'जइतेइंदी'त्यादि, छन्नउयराइंदियसयअब्भहियाईति . इह तृतीयगमेऽष्टौ भवास्तत्रच चतुर्पुत्रीन्द्रिभवेषूत्कर्षत एकोनपञ्चाशद्रात्रिन्दिवप्रमाणेषु यथोक्तं कालमानं भवतीति, मज्झिमातिनि गमातहेवतियथा मध्यमाद्वीन्द्रियगमाः, संवेहोउवउज्जिऊण भाणियव्वोत्ति सच पश्चिमगमत्रये भवादेशेनोत्कर्षतः प्रत्येकमष्टौ भवग्रहणानि, कालादेशेनतु पश्चिमगमत्रयस्य प्रथमगमेतृतीयगमेचोत्कर्षतोऽष्टाशीतिवर्षसहस्राणि षण्णवत्याधिकरात्रिन्दिवशताधिकानि द्वितीये तु षण्णवत्युत्तरं दिनशतमन्तर्मुहूर्तचतुष्टयाभ्यधिकमिति।
अथचतुरिन्द्रियेभ्यस्तमुत्पादयन्नाह-'जईत्यादि, नवरं एसुचेवठाणेसु'त्ति वक्ष्यमाणेष्ववगाहनादिषु नानात्वानि-दीन्द्रियत्रीन्द्रियकरणापेक्षया चतुरिन्द्रियप्रकरणे विशेषभणितव्यानि भवन्ति, तान्येव दर्शयति-‘सरीरे'त्यादि, सेसंतहेवत्ति शेषम्' उपपातादिद्वारजातंतथैव-यथा त्रीन्द्रियस्य, यस्तु संवेधे विशेषो न दर्शितः स स्वयम्भूह्य इति।
अथ पञ्चेन्द्रियतिर्यग्भ्यस्तमुत्पादयन्नाह-'जई' त्यादि, 'उक्कोसेणं अट्ठ भवग्गहणाईति अनेनेदमवगम्यते-यथोत्कर्षतः पञ्चेन्द्रियतिरिश्चोनिरन्तरमष्टौभवा भवन्ति एवंसमानभवान्तरिता अपि भवान्तरैः सहाष्टैव भवन्तीति, 'कालादेसेणं उवउज्जिऊण भाणियव्य'ति तव प्रथमे गमे कालतः संवेधः सूत्रे दर्शितएव, द्वितीये तूत्कृष्टोऽसौ चततः पूर्वकोट्यश्चतुर्भिरन्तर्मुहूरधिकाः, तृतीयेतुताएवाष्टाशीत्या वर्षसहनैरधिकाः, उत्तरगमेषुत्वतिदेशद्वारेण सूत्रोक्त एवासाववेय इति ।
अथ सज्ञिपञ्चेन्द्रियेभ्यस्तमुत्पादयन्नाह-‘जइ सन्नी'त्यादि, ‘एवं संवेहोनवसु गमएसु'इत्यादि, ‘एवम्' उक्ताभिलापे संवेधो नवस्वपिगमेषुयथाऽसंज्ञिनां तथैव निरवशेष इह वाच्यः, असज्ञिनां सज्ञिनां च पृथिवीकायिकषत्पित्सूनां जघन्यतोऽन्तर्मुहूत्र्तायुष्कत्वात् उत्कर्षतश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org