SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ भगवती अङ्गसूत्रं (२) ११/-/९/५०८ ‘सवन्नाइंपि’त्ति पुद्गलद्रव्याणि 'अवन्नाइंपि’त्ति धर्मास्तिकायादीनि 'अन्नमन्नबद्धाई 'ति परस्परेण गाढा श्लेषाणि 'अन्नमन्नपुट्ठाई' ति परस्परेण गाढा श्लेषाणि, इह यावत्करणादिदमेवं दृश्यम्-‘अन्नमन्नबद्धपुठ्ठाइं अन्नमन्नघडत्ताए चिठ्ठति' तत्र चान्योऽन्यबद्धस्पृष्टान्यनन्तरोक्तुणद्वययोगात्, किमुक्तं भवति ? - अन्योऽन्यघटतया - परस्परसम्बद्धतया तिष्ठन्ति 'तावसावसहे त्ति तापसावसथः - तापसमठ इति । १८ अनन्तरं शिवराजर्षे सिद्धिरुक्ता, तां च संहननादिभिर्निरुपयन्निदमाह मू. (५०९) भंतेत्तिभगवं गोयमे समणं भगवं महावीरं वंदइ नमंसइ वंदित्ता नमंसित्ता एवं वयासी - जीवाणं भंते! सिज्झमाणा कयरंमि संघयणे सिज्झति ?, गोयमा ! वयरोसभणारायसंघयणे सिज्झंति एवं जहेव उववाइए तहेव संघयणं संठाणं उच्चत्तं आउयं च परिवसणा । एवं सिद्धिगंडिया निरवसेसा भाणियव्वा जाव अव्वाबाहं सोक्खं अणुहवं ति सासयासिद्धा सेवं भंते ! २त्ति ॥ . वृ. 'भंते ति' इत्यादि, अथ लाघवार्थः मतिदेशमाह- ' एवं जहेवेत्यादि, 'एवम्' अनन्तरदर्शितेनाभिलापेन यथौपपातिके सिद्धानधिकृत्य संहननाद्युक्तं तथैवेहापि वाच्यं तत्र च संहननादिद्वाराणां सङ्ग्रहाया गाथापूर्वार्द्ध- 'संघयणं संठाणं उच्चत्तं आउयं च परिवसण' त्ति तत्र संहननमुक्तमेव, संस्थानादि त्वेवं-तत्र संस्थाने षण्णां संस्थानानामन्यतरस्मिन् सिद्धयन्ति । उच्चत्वे तु जघन्यतः सप्तरनिप्रमाणे उत्कृष्टतस्तु पञ्चधनुः शतके, आयुषि पुनर्जघन्यतः सातिरेकाष्टवर्षप्रमाणे उत्कृष्टतस्तु पूर्वकोटीमाने, परिवसना पुनरेवं - रत्नप्रभादिपृथिवीनां सौधर्मादीनां चेषप्राग्भारान्तानां क्षेत्रविशेषाणामधो न परिवसन्ति सिद्धाः किन्तु सर्वार्थः सिद्धमहाविमानस्योपरितनात्स्तूपिकाग्रादूर्ध्वं द्वादश योजनानि व्यतिक्रम्येषट्प्राग्भारा नाम पृथिवी पञ्चचत्वारिंशद्योजनलक्षप्रमाणाऽऽयामविष्कम्भाभ्यां वर्णतः श्वेताऽत्यन्तरभ्याऽस्ति तस्याश्चोपरि योने लोकान्तो भवति, तस्य च योजनस्योपरितनगव्यतोपरितनषड्भागे सिद्धाः परिवसन्तीति । 'एवं सिद्धिगंडिया निरवसेसा भाणियव्व'त्ति एवमिति - पूर्वोक्तसंहननादिद्वारनिरूपणक्रमेण 'सिद्धिगण्डिका' सिद्धिस्वरूपप्रतिपादनपरा वाक्यपद्धतिरौपपातिकप्रसिद्वाऽध्येया, इयं च परिवसनद्वारं यावदर्थः लेशतो दर्शिता, तत्परतस्त्वेवं- 'कहिं पडिहया सिद्धा कहिं सिद्धा पट्टिया ? ' इत्यादिका, अथ किमन्तेयम् ? इत्याह - ' जावे' त्यादि । 'अव्वाबाहं सोक्ख' मित्यादि चेह गाथोत्तराद्धमधीतं, समग्रगाथा पुनरियं ॥१॥ "निच्छिन्नसव्वदुक्खा जाइजरामरणबंधणविमुक्का । अव्वाबाहं सोक्खं अणुहुंती सासयं सिद्धा ॥” इति ॥ शतकं - ११ उद्देशकः - ९ समाप्तः -: शतकं - ११ उद्देशकः - १० : बृ. नवमोद्देशकस्यान्ते लोकान्ते सिद्धपरिवसनोक्तेत्यतो लोकस्वरूपमेव दशमे प्राह, तस्य चेदमादिसूत्रम् मू. (५१०) रायगिहे जाव एवं वयासी - कतिविहे णं भंते! लोए पन्नत्ते ?, गोयमा ! चलव्विहे लोए पन्नत्ते, तंजहा - दव्वलोए खेत्तलोए काललोए भावलोए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003310
Book TitleAgam Suttani Satikam Part 06 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy