________________
१७८
भगवतीअङ्गसूत्रं (२) १५/-/-/६४८ विषयमात्रापेक्षया तत्करणतश्चेति पुनः पृच्छति-'विसएण'मित्यादि, अनेन च प्रथमो विकल्पः पृष्टः, समत्थेणमित्यादिनातुद्वितीय इति, पारितावणियंतिपारितापनिकी क्रियांपुनः कुर्यादिति _ 'अणगाराण'ति सामान्यसाधूनां 'खंतिक्खम'त्ति क्षान्त्या-क्रोधनिग्रहेण क्षमन्त इति क्षान्तिक्षमाः 'थेराणं'ति आचारयादीनां वयःश्रुतपर्यायस्थविराणां । ___'पडिचोयणाए'त्ति तन्मनतप्रतिकूला चोदना-कर्तव्यप्रोत्साहाना प्रतिचोदना तया 'पडिसाहरणाए'त्ति तन्मतप्रतिकूलतया विस्मृतार्थस्मारणा तया, किमुक्तं भवति?-'धम्मिएणमित्यादि, पडोयारेणं तिप्रत्युपचारेणप्रत्युपकारेणवा 'पडोयारेउत्ति प्रत्युपचारयतु प्रत्युपचारं करोतु एवं प्रत्युपकारयतुवा मिच्छं विपडिवन्ने'त्ति मिथ्यात्वं म्लेच्छयं वा-अनार्यत्वं विशेषतः प्रतिपन्न इत्यर्थः।
'सुटुणं तिउपालम्भवचनम् आउसो तिहे आयष्मन्!-चिरप्रशस्तजीवित! 'कासव'त्ति काश्यपगोत्रीय! 'सत्तमं पउट्टपरिहारंपरिहरामि'त्ति सप्तमंशरीरान्तरप्रवेशं करोमीत्यर्थः, जेवि आइंति येऽपि च 'आइंति निपातः 'चउरासीइं महाकप्पसयसहस्साई'इत्यादि गोशालकसिद्धान्तार्थःस्थाप्यो, वृद्धैरप्यनाख्यातत्वात्, आह च चूर्णिकारः
संदिद्धत्ताओ तस्स सिद्धंतस्स न लक्खिज्जइत्ति तथाऽपि शब्दानुसारेण किञ्चिदुच्यतेचतुरशीतिमहाकल्पशतसहस्राणिक्षपयित्वेतियोगः, तत्रकल्पा:-कालविशेषाः,तेचलोकप्रसिद्धा अपि भवन्तीति यद्वयवच्छेदार्थकमुक्तं महाकल्पावक्ष्यमाणस्वरूपास्तेषां यानि शतसहस्राणिलक्षाणि तानि तथा, 'सत्त दिव्वे'त्ति सप्त 'दिव्यान्' देवभवान् ‘सत्त संजूहे'त्ति सप्त संयूथान्निकायविशेषान्, 'सत्त सन्निगब्मेति सज्ञिागर्भान्-मनुष्यगर्भवसतीः, एतेचतन्मतेनमोक्षगामिनां सप्तसान्तरा भवन्ति वक्ष्यति चैवैतान् स्वयमेवेति, 'सत्त पउट्टपरिहारे'त्ति सप्तशरीरान्तरप्रवेशान्, एते च सप्तमसजिजगर्भानन्तरं क्रमेणावसेयाः, तथा पंचे'त्यादाविदं संभाव्यते 'पंच कम्मणि सय- सहस्साइंति कर्मणि-कर्मविषये कर्मणामित्यर्थ पञ्च शतसहस्राणि लक्षाणि 'तिन्नि य कम्मंसित्तित्रींश्च कर्मभेदान् ‘खवइत्त'त्ति 'क्षपयित्वा' अतिवाह्य । ___सेजहे'त्यादिना महाकल्पप्रमाणमाह, तत्र सेजहाव'त्तिमहाकल्प्रमाणवाक्योपन्यासार्थः 'जहिं वा पञ्जुवत्थिय'त्ति यत्र गत्वा परि-सामस्त्येन उपस्थिता-उपरता समाप्ता इत्यर्थः ‘एसणं अद्ध'त्तिएष गङ्गायामार्ग ‘एएणं गंगापमाणेणं तिगङ्गायास्तन्मार्गस्य चाभेदाद्गङ्गाप्रमाणेनेत्युक्तम् “एवामेव'त्ति उक्तेनैव क्रमेण 'सपुव्वावरेणं ति सह पूर्वेण गङ्गादिना यदपरं महागङ्गादि तत् सपूर्वापरंतेन भावप्रत्ययलोपदर्शनात्सपूर्वापरतवेत्यर्थः। _ 'तासिंदुविहे'इत्यादि, तासांगङ्गादीनांगङ्गादिगतवालुकाकणादीनामित्यर्थः द्विविधउद्धारः उद्धरणीयद्वैविध्यात्, ‘सुहुमबोदिकलेवरे चेव'त्ति सूक्ष्मवोन्दीनिसूक्ष्माकाराणि कलेवराणिअसङ्ख्यातखण्डीकृतवालुकाकणरूपाणि यत्रोद्धारे स तथा 'बायरबोंदिकलेवरे चेव'त्ति बादरबोन्दीनि-बादराकाराणि कलेवराणि-वालुकाकणरूपाणि यत्र तथा, 'ठप्पे'त्ति न व्याख्येयः इतरस्तुव्याख्येय इत्यर्थः 'अवहायत्तिअपहाय-त्यक्त्वा 'सेकोडे'त्तिसकोष्ठो-गङ्गासमुदायात्मकः 'खीणे'त्ति क्षीणः सचावशेषसद्भावेऽप्युच्यते यथाक्षीणधान्यं कोष्ठागारमत उच्यते 'नीरए'त्ति नीरजाः स च तद्भूमिगतरजसामप्यभावे उच्यते इत्याह
Jain Education International
For Private & Personal Use Only
For
www.jainelibrary.org