________________
१२६
भगवतीअङ्गसूत्रं (२) १३/-/७/५९२ दिभवनिबन्धनतयाऽऽयुःकर्मदलिकान्यनुभूय म्रियते, यदि पुनस्तान्येवानुभूय मरिष्यते तदा तदवधिमरणमुच्यते, तदद्रव्यापेक्षया पुनस्तद्रहणावधिं यावजीवस्य मृतत्वात्, संभवति च गृहीतोज्झितानां कर्मदलिकानां पुनर्ग्रहणं परिणाम वैचित्र्यादिति
___ 'आइंतियमरणे' त्त अत्यन्तं भवमान्यन्तिकं तच्च तन्मरणं चेति वाक्यं, यानि हि नरकाद्यायुष्कतयाकर्मदलिकान्यनुभूयम्रियतेमृतश्चनपुनस्तान्यनुभूयपुनर्मरिष्यत इत्येवंयन्मरणं, तच तद्रव्यापेक्षयाऽत्यन्तभावित्वादात्यन्तिकमिति
'बालमरणे'त्ति अविरतमरणं पंडियमरणे तिसर्वविरतमरणं, तत्रावीचिकमरणंपञ्चधा द्रव्यादिभेदन, द्रव्यावीचिकमरणं च चतुर्द्धा नारकादिभेदात्, तत्र नारकदन्यावीचिकमरणप्रतिपादनायाह
. 'जण्ण'मित्यादि, 'यत्' यस्माद्धेतो.रयिका नारकत्वे द्रव्ये नारकजीवत्वेन वर्तमाना मरन्तीति योगः, 'नेरइयाउयत्ताए'त्ति नैरयिकायुष्कतया 'गहियाइंति स्पर्शनतः ‘बद्धाइंति बन्धनतः 'पुट्ठाईति पोषितानि प्रदेसप्रक्षेपतः 'कडाईति विशिष्टानुभागतः ‘पट्टवियाईति स्थितिसम्पादनेन निविट्ठाईतिजीवप्रदेशेषु अभिनिविट्ठाइंति जीवप्रदेशेष्वभिव्याप्तया निविष्टानि अतिगाढतांगतानीत्यर्थः, ततश्च अभिसमन्नागयाइंति अभिसमन्वागतानि-उदयावलिकायामागतानि तानि द्रव्याणि 'आविइत्ति, किमुक्तं भवति अनुसमयंति अनुसमयं-प्रतिक्षणम्।
___ एतच्च कतिपयसमयसमाश्रयणतोऽपि स्यादत् आह-'निरंतरं मरंति'त्ति 'निरन्तरम्' अव्यवच्छेदेन सकलसमयेष्वित्यर्थः म्रियन्ते विमुञ्चन्तीत्यर्थः ‘इतिकट्ठ'त्ति इतिहेतोःरयिकद्रव्यावीचिकमरणमुच्यत इति शेषः, एतस्यैव निगमनार्थःमाह- से तेणटेण'मित्यादि।
‘एवंजावभावावीचियमरणे'त्तिइहयावत्करणात् कालवीचिकमरणंभवावीचिकमरणं च द्रष्टव्यं, तत्र चैवं पाठः-'कालावीइयमरणे णं भंते ! कइविहे पन्नत्ते?, गोयमा ! चउविहे पन्नते, तंजहा-नेरइयकालावीइयमरणे४, सेकेणटेणं नेरइयकालावीचियमरणे २?, गोयमा जन्नं नेरइया नेरइयकाले वट्टमाणा' इत्यादि, एवं भवावीचिकमरणमप्यध्येयम्।
नैरयिकद्रव्यावधिमरणसूत्रे 'जण्ण मित्यादि, एवं चेहाक्षरघटना-नैरयिकद्रव्ये वर्तमाना ये नैरयिका यानि द्रव्याणि साम्प्रतं म्रियन्ते त्यजन्ति तानि द्रव्याण्यनागतकाले पुनस्त इति गम्यं मरिष्यन्ते-त्यक्ष्यन्तीति यत्तन्नैरयिकद्रव्यावधिमरणमुच्यत इतिशेषः सेतेणटेण मित्यादि निगमनम्
पण्डितमरणसूत्रे 'नीहारिमे अनीहारिमे'त्ति यत्पादपोपगमनमाश्रयस्यैकदेशे विधीयते तन्त्रिारिमं, कडेवरस्या निर्हरणीयत्वात्, यच्च गिरिकन्दरादौ विधीयते तदनिर्दारिम, कडेवरस्यानिर्हरणीयत्वात्, 'निमंअप्पडिकम्मे त्ति शरीरप्रतिकर्मवर्जितमेव, चतुर्विधाहारप्रत्याख्याननिष्पन्नं चेदं भवतीति, 'तंचेव'तिकरणान्निर्हारिममनिर्हारिमंचेति श्यं, सप्रतिकर्मैवचेदं भवतीति॥
शतकं-१३ उद्देशकः-७ समाप्तः
-:शतकं-१३ उद्देशक-८:वृ.अनन्तरोद्देशके मरणमुक्तं, तच्चायुष्कर्मस्थितिक्षयरूपमिति कर्मणां स्थितिप्रतिपादनार्थोऽष्टम उद्देशकस्तस्य चेदमादिसूत्रम्
मू. (५९३) कति णं भंते ! कम्मपगडीओ पन्नत्ताओ?, गोयमा ! अट्ठ कम्पगडीओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org