________________
शतकं - १३, वर्ग:, उद्देशकः - २
१०३
त्रिष्वपि गमेषु चतो लेश्यास्तेजोलेश्यान्ता भणितवयाः, एता एव हि असुरकुमारादीनां भवन्तीति, ‘जत्थ जत्तिया भवण’त्ति यत्र निकाये यावन्ति भवनलक्षाणि तत्र तावन्त्युच्चारणीयानि, यथा119 11 "चउसट्ठी असुराणं नागकुमाराण होइ चुलसीई । बावत्तरि कणगाणं वाउकुमाराण छन्नउई ॥ दीवदिसाउदहीणं विज़ुकमारिंदथणियमग्गीणं ।
जुयलाणं पत्तेयं छावत्तरिमो सयहस्सा ॥ - व्यन्तरसूत्रे 'संखेज्जवित्थड 'त्ति, इह गाथा - "जंबुद्दीवसमा खलु उक्कोसेणं हवंति ते नगरा । खुड्डा खेत्तसमा खलु विदेहसमगा उ मज्झिमगा ॥"
ज्योतिष्कसूत्रे सङ्ख्यातविस्तृता विमानावासाः 'एगसट्ठिभागं काऊण जोयण' मित्यादिना ग्रन्थेन प्रमातव्याः ‘नवरं एगा तेउलेस्स' त्ति व्यन्तरेषु लेश्याचतुष्टयमुक्तमेतेषु तु तेजोलेश्यैवैका वाच्या, तथा 'उववज्रंतेसु पन्नत्तेसु य असन्नी नत्थि 'त्ति व्यन्तरेष्वसञ्ज्ञिन उत्पद्यन्त इत्युक्तमिह तु तन्निषेधः, प्रज्ञप्तेष्वपीह तन्निषेध उत्पादाभावादिति । सौधर्म्मसूत्रे 'ओहिनाणी' ततश्च्युता यतस्तीर्थःकरादयो भवन्त्यतोऽवधिज्ञाना-दयश्चयावयितव्याः 'ओहिनाणी ओहिदंसणीय संखेज्जा चयति' त्ति सङ्ख्यातानामेव तीर्थःक- रादित्वेनोत्पादादिति ।
‘छ गमग’त्ति उत्पादादययः सङ्ख्यातविस्तृतानाश्रित्य अत एव च त्रयोऽसङ्ख्यातविस्तृतानाश्रित्य एवं षड् गमाः, 'नवरं इत्थिवेयगे' त्यादि, स्त्रियः सनत्कुमारादिषु नोत्पद्यनेत न च सन्ति उवृत्तौ तु स्यु 'असन्नी तिसुवि गमएसु न भन्नइ' त्ति सनत्कुमारादिदेवानां सञ्ज्ञिभ्य एवोत्पादेन च्युतानां च सञ्ज्ञिष्वेव गमनेन गमत्रयेष्वसञ्ज्ञित्वस्याभावादिति ।
'एवं जाव सहस्सारे' त्ति सहस्रारान्तेषु तिरश्चामुत्पादेनासङ्ख्यातानां त्रिष्वपि गमेषु भावादिति 'नाणत्तं विमाणेसु लेसासु य’त्ति तत्र विमानेषु नानात्वं 'बत्तीस अट्ठवीसे' त्यादिना ग्रन्थेन समवसेयं, लेश्यासु पुनरिदं
॥२॥
॥१॥
119 11 ते १ तेऊ २ तहा तेउ पम्ह ३ तम्हा ४ य पम्हसुक्क ाय ५ । सुक्का ६ परमसुक्का ७ सुक्काइविमाणवासीणं । इति,
इह च सर्वेष्वपि शुक्रादिदेवस्तानेषु परमशुक्लेति ॥ आनतादिसूत्रे 'संखेजवित्थडेसु' इत्यादि, उत्पादेऽवस्थाने च्यवने च सङ्ख्यातविस्तृतत्वाद्विमानानां सङ्ख्याता एव भवन्तीति भावः, असङ्ख्यातविस्तृतेषु पुनरुत्पादच्यवनयोः सङ्ख्याता एव, यतो गर्भजमनुष्येभ्य एवानतादिषूत्पद्यन्ते ते च सङ्ख्याता एव, तथाऽऽनतादिभ्यश्च्युता गर्भजमनुष्येष्वेवोत्पद्यन्तेऽतः समयेन सङ्ख्यातानामेवोत्पादच्यवनसम्भवः, अवस्थितिस्त्वसङ्ख्यातानामपि स्यादसङ्ख्यातजीवितत्वेनैकदैव जीवितकालेऽसङ्घयातानामुत्पादादिति । 'पन्नत्तेसु असंखेज्जा नवरं नोइंदिओवउत्ते' त्यादि प्रज्ञप्तकगमेऽसङ्घयेया वाच्याः केवलं नोइंद्रियोपयुक्तादिषु पञ्चसु पदेषु सङ्ख्याता एव, तेषामुत्पादावसर एव भावाद्, उत्पत्तिश्च सङ्ख्यातानामेवेति दर्शितं प्रागिति, 'पंच अनुत्तरोववाइय'त्ति तत्र मध्यमं सङ्ख्यातविस्तृतं योजनलक्षप्रमाणत्वादिति ।
'नवरं कण्हपक्खिए’त्यादि, इह सम्यग्ध्ष्टीनामेत्पादात् कृष्णपाक्षिकादिपदानां गमन्नयेऽपि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International