SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ५१० भगवतीअङ्गसूत्रं ९/-/३३/४६५ 'सव्वविभूईए' सर्वसम्पदा ‘सव्वविभूसाए' समस्तशोभया 'सव्वसंभमेणं' प्रमोदकृतीत्सुक्येन 'सव्वपुप्फगंधमल्लालंकारेणं सव्वतुडियसद्दसंनिनाएण' सर्चतूर्यशब्दानां मीलने यः सङ्गतो निनादो-महाघोषः स तथा तेन, अल्पेष्वपि ऋद्धयादिषु सर्वशब्दप्रवृत्तिद्दष्टत्यत आह ।। ___'महया इवीए महया जुईए महया बलेणं महया समुदएणं' 'महया वरतुडियजमगसमगप्पवाइएणं' यमकसमकं युगपदित्यर्थः: “संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कमुरयमुइंगदुंदुहिनिग्घोसनाइय'त्ति पणवो-भाण्डपटहः भेरी-महती ढक्का महाकाहला वा झल्लरीअल्पोच्छ्रयामहामुखाचविनद्धाखरमुखी काहलामुरजो-महामईलः मृदङ्गो-मईलः दुन्दुभीढक्काविशेष एवततःशङ्खादीनां निर्घोषोमहाप्रयलोत्पादितःशब्दोनादितंतु-ध्वनिमात्रंएतस्यलक्षणो यो रवः स तथा तेन। "किं देमो'त्ति किं दद्मो भवदभिमतेभ्यः किं पयच्छामो ति भवते एव, अथवा दद्मः सामान्यतः प्रयच्छामः प्रकर्षेणेति विशेषः 'किणा वत्ति केन वा 'कुत्तियावणाओ'त्ति कुत्रिकंस्वर्गमर्त्यपाताललक्षणंभूत्रयंतत्सम्भविवस्त्वपि कुत्रिकंतत्सम्पादकोय आपणो-हट्टोदेवाधिष्ठितत्वेनासौ कुत्रिकापणस्तस्मात् ‘कासवगं'तिनापितं 'सिरिधराओ'त्ति भाण्डागारात् अग्गकेसे'त्ति अग्रभूताः केशाअग्रकेशास्तान् 'हंसलक्खणेणं' शुक्लेन हंसचिह्नेन वा पडसाडएणं'ति पटरूपः शाटकः पटशाटकः,शाटको हि शटनकारकोऽप्युच्यत इतितद्व्यवच्छेदार्थेः पटग्रहणम्, अथवा शाटको वस्त्रमात्रं स च पृथलः पटोऽभिधीयत इति पटशाटकः, 'अग्गेहि'ति आयैः' प्रधानैः, एतदेव व्याचष्टे–'वरेहिति 'हारवारिधारसिंदुवारच्छिन्नमुत्तावलिप्पगासाईतिइह 'सिंदुवार'त्ति वृक्षविशेषो निर्गुण्डीती केचित् तत्कुसुमानि सिन्दुवाराणि तानि च शुक्लानीति। ... "एसणं'ति एतत्, अग्रकेशवस्तु अथवैतद्दर्शनमिति योगोणमित्यलङ्कारे 'तिहीसुय'त्ति मदनत्रयोदश्यादितिथिषु ‘पव्वणीसुय'त्तिपर्वणीषुच कार्त्तिक्यादिषु उस्सवेसुय'त्ति प्रियसङ्गमादिमहेषु 'जन्नेसुय'त्तिनागादिपूजासु 'छणेसुय'त्तिइन्द्रोत्सवादिलक्षणेषु अपच्छिमेत्ति अकारस्यामङ्गलपरिहारार्थःत्वात्पश्चिम्दर्शनं भविष्यति एतत् केशदर्शनमपनीतकेशावस्थस्य जमालिकुमारस्य यद्दर्शनं सर्वदर्शनपाश्चात्यं तद्भविष्यतीति भावः, अथवा न पश्चिमं पौनःपुन्येन जमालिकुमारस्य दर्शनमेतद्दर्शने भविष्यतीत्यर्थः । ___ 'दोचंपि'त्ति द्वितीयं वारं 'उत्तरावक्कमणं'ति उत्तरस्यां दिश्यपक्रमणं-अवतरणं यस्मात्तद्उत्तरापक्रमणम्-उत्तराभिमुखं पूर्वतुपूर्वाभिमुखमासीदिति सीयापीयएहिं तिरूप्यमयैः सुवर्णमयैश्चेत्यर्थः “पम्हलसुकुमालाए'ति पक्ष्मवत्या सुकुमालया चेत्यर्थः 'गंधकासाइए"त्ति गन्धप्रधानया कषायरक्तयाशाटिकयेत्यर्थः 'नासानीसासे'त्यादिनासानिश्वासवातवाह्यमतिलघुत्वात् चक्षुहर-लोचनानन्ददायकत्वात्चरोधकंवाघनत्वात् 'वनफरिसजुत्तं'तिप्रधानवर्णस्पर्शमित्यर्थः हयलालायाः सकाशात् पेलवं-मृदु अतिकेरेण–अतिशयेन यत्तत्तथा कनकेन खचितं-मण्डितं अन्तयोः-अञ्चलयोः कर्म-वानलक्षणं यत्तत्तथा 'हार'ति अष्टादशसरिक 'पिणद्धति'पिनह्यतः पितरावितिशेषः ‘अद्धहारं तिनवसरिकम् ‘एवंजहा सूरियाभस्सअलंकारो तहेव'त्ति, सचैवम्। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy