________________
४२
भगवती अङ्गसूत्रं १/-/१/२४
पारम्पर्यं तदुत्कर्षतोऽपार्द्धपुद्गलपरावर्त्तमानमपि स्याद्, विराघनाफलत्वात्तस्येति, 'वीइवयइ' ति व्यतिव्रजति व्यतिक्रामतीत्यर्थः । अनगारः संवृतत्वात्सिध्यतीत्युक्तं यस्तु तदन्यः स विशिष्टगुणविकलः सन् किं देवः स्यान्न वा ? इति प्रश्नयन्नाह -
मू. (२५) जीवे णं भंते! अस्संजए अविरए अप्पडिहयपञ्चक्खायपावकम्मे इओ चुए पेच्चा देवे सिया ?, गोयमा ! अत्थेगइए देवे सिया अत्थेगइए नो देवे सिया । से केणठ्ठेणं जाव इओ चुए पेच्चा अत्थेगइ देवे सिया अत्थेगइए नो देवे सिया ?
गोयमा! जे इमे जवा गामागर नगरनिगम रायहाणि खेडकब्बड मडंबदोणमुह पट्टणासम सन्निवेसेसु अकामतण्हाए अकामछुहाए अकामबंभचेरवासेणं अकामसीतातवंदसमसग अण्हाणगसेयजल्लमलपंकपरिदाहेणं अप्पतरं वा भुज्जतरं वा कालं अप्पाणं परिकिलेसंति अप्पाणं परिकिलेसित्ता कालमासे कालं किच्चा अन्नयरेसु वाणमंतरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति
केरिसाणं भंते! तेसिं वाणमंतराणं देवाणं देवलोगा पन्नत्ता ?, गोयमा ! से जहानामएइहं मणुस्सलोगंमि असोगवने इ वा सत्तवन्नवने इ वा चंपयवने इ वा चूयवने इ वा तिलगवने इवा लाउयवने इ वा निग्गोहवने इ वा छत्तोववने इ वा असणवने इ वा सणवने इ वा अयसिवने इ वा कुसुंभवणे इ वा सिद्धत्थवमे इ वा बंधुजीवगवने इ वा निच्चं कुसुमियमाइयलवइयथवइयगुलइयगोच्छियजमलियजुवलियविणमियपणमियसुविभत्तपिंडिमंजरिवडेंसगरेधरे सिरीए अतीव अतीव उवसोभेमाणे उवसोभेमाणे चिट्ठइ, एवामेव तेसिं वाणमंतराणं देवाणं देवलोगा जहन्नेणं दसवाससहस्सट्टितीएहिं उक्कोसेणं पलिओवमट्टितीएहिं बहूहिं वाणमंतरेहिं देवेहिं तद्देवीहि य आइण्णा वितिकिण्णा उवत्थडा संथडा फुडा अवगाढगाढसिरीए अतीव अतीव उवसोभेमाणा चिट्ठति । एरिसगा णं गोयमा ! तेसिं वाणमंतराणं देवाणं देवलोगा पन्नत्ता, से तेणट्टेणं गोयमा ! एवं वुच्चइ जीवे णं असंजए जाव देवे सिया ।
सेवं भंते! सेवं भंते! त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति वंदइत्ता नमंसइत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति ।
वृ. 'जीवेणमित्यादि, व्यक्तं, नवरम् 'असंजए' त्ति असाधुः संयमरहितो वा, 'अविरए' त्ति प्राणातिपातादिविरतिरहितः विशेषेण वा तपसि रतो यो न भवति सोऽविरतः, 'अप्पडिहए' त्यादि, प्रतिहतं - निराकृतमतीतकालकृतं निन्दादिकरणेन प्रत्याख्यातंच वर्जितमनागतकालविषयं पापकर्मप्राणातपातादि येन स प्रतिहतप्रत्याख्यातपापकर्मा तन्निषेधादप्रतिहतप्रत्याख्यातपापकर्मा, अनेनातीतानागतपापकर्मानिषेध उक्तः, असंयतोऽविरतश्चेत्यनेन वर्त्तमानपापासंवरणमभिहितम्, अथवा 'न' नैव 'प्रतिहतं ' तपोविधानेन मरणकालाद् आरात्क्षपितं प्रत्याख्यातं च मरणकालेऽप्याश्रवनिरोधेन पापकर्म येन स तथा, अथवा 'न' नैव प्रतिहतं सम्यग्दर्शनप्रतिपत्तितः प्रत्याख्यातं च सर्वविरत्यङ्गीकरणतः पापकर्मज्ञानावरणाद्यशुभं कर्म येन स तथा । 'इओ' त्ति इतः प्रज्ञापकप्रत्यक्षात्तिर्यग्भवान्मनुष्यभवाद्वा च्युतो - मृतः 'पेच्च' त्ति जन्मान्तरे देवः स्यात् ? इति प्रश्नः | 'जे इमे जीवे 'त्ति ये इमे प्रत्यक्षासन्नाः पञ्चेन्द्रियतिर्यञ्चो मनुष्या वा 'गामे' त्यादि ग्रामादिष्वधिकरणभूतेषु तत्र ग्रामोजनपदप्रायजनाश्रितः स्थानविशेष -, आकरो लोहाद्युत्पत्तिस्थान नकरंकररहितं निगमो-वणिग्जनप्रधानं स्थानं राजधानी- यत्र राजा स्वयं वसति खेटं धूलिप्राकारं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org