SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ भगवतीअङ्गसूत्रं ८/-/९/४२४ ‘उक्कोसेण’मित्यादि, उत्कृष्टः सर्वबन्धान्तरं द्वाविंसतिर्वर्षसहस्राणि समयाधिकानि भवन्ति, कथम् ?, अविग्रहेण पृथवीकायिकेष्वागतः प्रथम एव च समये सर्वबन्धकस्ततो द्वाविंशतिवर्षसहानणि स्थित्वा समयोनानि विग्रहगत्या त्रिसमययाऽन्येषु पृथिव्यादिषूत्पन्नस्तत्र च समयद्वयमनाहारको भूत्वा तृतीयसमये सर्वबन्धकः संपन्नः, अनाहारकसमययोश्चैकी, द्वविंशतिवर्षसहस्रेषु समयोनेषु क्षिप्तस्तत्पूरणार्थं, ततस्च द्वाविंशतिर्वर्षसहस्राणि समयश्चैकेन्द्रियाणां सर्वबन्धयोरुत्कृष्टमन्तरं भवतीति । 'देसबंधंतर 'मित्यादि तत्रैकेन्द्रियौदारिकदेशबन्धान्तरं जघन्येनैकं समयं कथं ?, देशबन्धको मृतः सन्नविग्रहेण सर्वबन्धको भूत्वा एकस्मिन् समये पुनर्देशबन्धक एव जातः, एवं च देशबन्धयोर्जघन्यत एकः समयोऽन्तरं भवतीति । 'उक्कोसेणं अंतोमुहुत्तं 'ति, कथं ?, वायुरौदारिकशरीरस्य देशबन्धकः सन् वैक्रियं गतस्तत्र चान्तर्मुहूर्त्त स्थित्वा पुनरौदारिकशरीरस्य सर्वबन्धको भूत्वा देशबन्धक एव जातः, एवं च देशबन्धयोरुत्कर्षतोऽन्तर्मुहूर्त्तमन्तरमिति । ४२८ 'पुढविकाइए 'त्यादि, 'देसबंधंतरं जहन्नेणं एक्कं समयं उक्कोसेणं तिन्नि समय'त्ति, कथं?, पृथिवीकायिको देशबन्धको मृतः सन्नविग्रहगत्या पृथिवीकायिकेष्वेवोत्पन्नः एकं समयंच सर्वबन्धको भूत्वा पुनर्देशबन्धको जातः एवमेकसमयो देसबन्धयोर्जघन्योनान्तरं, तथा पृथिवीकायिको देशबन्धको मृतः सन् त्रिसमयविग्रहेण तेष्वेवोत्पन्नस्तत्र च समयद्वयमनाहारकः तृतीयसमये च सर्वबन्धक भूत्वा पुनर्देशबन्धको जातः, एवं चत्रयः समया उत्कर्षतो देशबन्धयोरन्तरमिति । अथाप्कायिकादीनां बन्धान्तरमतिदेशत आह-'जहा पुढविकाइयाण' मित्यादि, अत्रैव च सर्वथा समतापरिहारार्थः माह ‘नवर’मित्यादि, एवं चातिदेशतो यल्लब्धं तद्दर्श्यते-अप्कायिकानां जघन्यं सर्वबन्धान्तरं क्षुल्लकभवग्रहणं त्रिसमयोनं उत्कृष्टं तु सप्त वर्षसहस्राणि समयाधिकानि, देशबधान्तरं जघन्यमेकः समय उत्कृष्टं तु त्रयः समयाः, एवं वायुवर्जानां तेजः प्रभृतीनामपि, नवरमुत्कृष्टं सर्वबन्धान्तरं स्वकीया स्वकीया स्थिति समयाधिका वाच्या । अथादिदेशे वायुकायिकवर्जानामित्यनेनातिदिष्टबन्धान्तरेभ्यो वायुबन्धान्तरस्य विलक्षणता सूचितेति वायुबन्धान्तरं भेदेनाह- 'वाउक्काइयाण' मित्यादि, तत्र च वायुकायिकानामुत्कर्षेण देशबन्धान्तरमन्तर्मुहूर्ततं, कथं ?, वायुरौदारिकशरीरस्य देशबन्धकः सन् वैक्रियबन्धमन्तर्मुहूर्त कृत्वा पुनरौदारिकसर्वबन्धसमयानन्तरमौदारिकदेशबन्धं यदा करोति तदा यथोक्तमन्तरं भवतीति 'पंचिंदिये' त्यादि, तत्र सर्वबन्धान्तरं जघन्यं भावितमेव उत्कृष्टं तु भाव्यते-पञ्चेन्द्रियतिर्यङ अविग्रहेणोत्पन्नः प्रथम एव च समये सर्वबन्धकस्ततः समयोनां पूर्वकोटिं जीवित्वा विग्रहगत्या त्रिसमयया तेष्वेवोत्पन्नस्तत्र च द्वावनाहारकसमयौ तृतीये च समये सर्वबन्धकः संपन्नः, अनाहारकसमययोश्चैकः समयोनायां पूर्वकोट्यां क्षिप्तस्तत्पूरणार्थः मेकस्त्वधिक इत्येवं यथोक्तमन्तरं भवतीति, देशबन्धान्तरं तु यथैकेन्द्रियाणां तच्चैवं जघन्यमेकः समयः, कथं ?, देशबन्धको मृतः सर्वबन्धसमयानन्तरं देशबन्धको जात इत्येवं, उत्कर्षेण त्वन्तर्मुहूर्तं ?, कथं?, औदारिकशरीरि देसबन्धकः सन् वैक्रियं प्रतिपन्नस्तत्रान्तर्मुहूर्त्तमन्तरमिति, एवं मनुष्याणामपीति, एतदेवाह - 'जहा पंचिंदिए' त्यादि । , औदारिकबन्धानन्तरं प्रकारान्तरेणाह - 'जीवे' त्यादि, एकेन्द्रियत्वे 'नोएगिंदियत्ते' त्ति For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy