________________
शतकं ८, वर्गः-, उद्देशकः-८
४११
प्रतिपद्यमानकानां तु सामयिकत्वाद् विरहभावेनैकादिसम्भवाद्विकल्पद्वयमत एवाह'पडिवज्रमाणे 'त्यादि ।
अपगतवेदमैर्यापथिकबन्धमाश्रित्य स्त्रीत्वादि भूतभावापेक्षया विकल्पयन्नाह - 'जई'त्यादि, 'तं भंते! ' तदा भदन्त ! तद्वा कर्म्म 'इत्थीपच्छाकडे' त्ति भावप्रधानत्वान्निर्द्देशस्य स्त्रीत्वं पश्चात्कृतं - भूततां नीतं येनावेदकेनासी स्त्रीपश्चात्कृतः एवमन्यान्यपि, इहैककयोगे एकत्वबहुत्वाभ्यां षड् विकल्पाः द्विकयोगे तु तथैव द्वादश त्रिकयोगे पुनस्तथैवाष्ौ, एते च सर्वे षडविंशति, इयं चैषां स्थापना- स्त्री १ ० १ ० १ स्त्री ३ पु० ३ न० ३ ।
सूत्रे न चतुर्भङ्गयष्टभङ्गीनां प्रथमविकल्पा दर्शिताः सर्वान्तिमश्चेति अथैर्यापथिकर्मबन्धनमेवकालत्रयेण विकल्पयन्नाह-‘तं भंते!' इत्यादि, 'तद्' एर्यापथिकं कर्म 'बंधी' ति बद्धवान् बघ्नाति मन्त्स्यति चेत्येको विकल्पः, एवमन्येऽपि सप्त, एषां च स्थापना । उत्तरं तु 'भवे' त्यादि, भवे अनेकत्रोपशमादिश्रेनिप्राप्तया आकर्ष-एर्यापथिक क र्माणुग्रहणं भवाकर्षस्तं प्रतीत्य ‘अस्त्यैकः’ भवत्येकः कश्चिज्जीवः प्रथमवैकल्पिकः, तथा हि
पूर्वभवे उपशान्तमोहत्वे सत्यैर्यापथिकं कर्म्म बद्धवान् वर्त्तमानभवे चोपाशान्तमोहत्वे बघ्नाति अनागते चोपशान्तमोहावस्थायां भन्त्स्यतीति १ द्वितीयस्तु यः पूर्वस्मिन् भवे उपशान्तमोहत्वं लब्धवान् वर्त्तमाने च क्षीणमोहत्वं प्राप्तः स पूर्वं बद्धवान् वर्त्तमाने च बघ्नाति शैलेश्यवस्थायां पुनर्न भन्स्यतीति २, तृतीयः पूर्वजन्मनि उपशान्तमोहत्वे बद्धवान् तत्प्रतिपतितो न बघ्नाति अनागते चोपशान्तमोहत्वं प्रतिपत्स्यते तदा भन्स्यतीति ३, चतुर्थः स्तु शैलेशीपूर्वकाले बद्धवान् शैलेश्यां च न बघ्नाति न च पुनर्भन्त्स्यतीति ४, पञ्चमस्तु पूर्वजन्मनि नोपशान्तमोहत्वं लब्धवानिति न बद्धवान् अघुना लब्धमिति बघ्नाति पुनरप्येष्यत्काले उपशान्तमोहाद्यवस्थायां भन्त्स्यतीति पञ्चमः ५, षष्ठः पुनः क्षीणमोहत्वादि न लब्धवानिति न पूर्वं बद्धवान् अघुना तु क्षीणमोहत्वं लब्धमिति बघ्नाति शैलेश्यवस्थायां पुनर्न भन्त्स्यतीति षष्ठः ६, स्तमः पुनर्भव्यस्य, स ह्यनादौ काले न बद्धवान् अघुनाऽपि कश्चिन्न बघ्नाति कालान्तरे तु भनत्स्यतीति ७, अष्टमस्त्वभव्यस्य ८, स च प्रतीत एव ।
‘गहणागरिस’मित्यादि, एकस्मिन्नेव भवे एर्यापथिककर्मपुद्गलानां ग्रहणरूपो य आकर्षोऽसौ ग्रहणाकर्षस्तं प्रतीत्यास्त्येकः कश्चिज्जीवः प्रथमवैकल्पिकः, तथाहि -उपशान्तमोहादिर्यदा एर्यापथिकं कर्म बध्ध्वा बघ्नाति तदाऽतीतसमयापेक्षया बद्धवान् वर्त्तमानसमयापेक्षया चबघ्नाति अनागत- समयापेक्षया २, तृतीयस्तूपशान्तमोहत्वे बद्धवान् तव्प्रतिपतितस्तु न बघ्नाति पुनस्तत्रैव भवे उपशमश्रेणीं प्रतिपन्नो भन्स्यतीति, एकभवे चोपशम श्रेणी द्विर्वारं प्राप्यत एवेति ३, चतुर्थः पुनः सयोगित्वे बद्धवन् शैलेश्यवस्थायां न बघ्नाति न च भन्स्यतीति ४, पञ्चमः पुनरायुषः पूर्वभागे उपशान्तमोहत्वादि न लब्धमिति न बद्धवान् अघुना तु लब्धमिति बघ्नाति तदद्धाया एव चैष्यत्समयेषु पुनर्भन्त्स्यतीति ५ ।
षष्ठस्तु नास्त्येव, तत्र बद्धवान् बघ्नातीत्यनयोरुपपद्यमानत्वेऽपि न भन्त्स्यतीति इत्यस्यानुपपद्यमानत्वात्, तथाहि - आयुषः पूर्वभागे उपशान्तमोहत्वादि न लब्धिमिति न बद्धवान् तल्लाभसमये च बघ्नाति ततोऽनन्तरसमयेषु च भन्स्यत्येव न तु न भन्त्स्यति, समयमात्रस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org