________________
२५२
भगवतीअङ्गसूत्रं ५/-/७/२६०
केदारवान् तटवान् वा देशः केदार एवेत्यन्ये ।
'अगड'त्ति कूपः ‘वावि'त्ति वापी चतुरस्रो जलाशयविशेषः 'पुक्खरिनि'त्ति पुष्करिणी वृत्तः स एव पुष्करवान् वा 'दीहिय'त्ति सारिण्यः ‘गुंजालिय'त्ति वक्रसारिण्यः 'सर'त्ति सरांसिस्वयंसंभूतजलाशयविशेषाः ‘सरपंतियाओ'त्ति सरःपङ्कतयः ‘सरसरपंतियाओ'त्ति यासु सरःपङ्कितषु एकस्मात्सरसोऽन्यस्मिन्नन्यस्मादन्यत्र एवं सञ्चारकपाटकेनोदकं संचरति ताः सरःसरःपङ्कतयः बिलपङ्क्तयः-प्रतीताः ‘आराम'त्तिआरमन्तियेषुदमाधवीलतादिषुम्पत्यादीनि ते आरामाः ‘उज्जाण'त्ति 'उद्यानानि' पुष्पादिमवृक्षसङ्कुलानि उत्सवादी बहुजनभोग्यानि 'काणण'त्ति 'काननानि' सामान्यवृक्षसंयुक्तानि नगरासन्नानि ‘वण'त्तिवनानिनगरविप्रकृष्टानि 'वनसंडाईति वनषण्डाः-एकजातीयवृक्षसमूहात्मकाः।
___ 'वनराइ'त्ति वनराजयो-वृक्षपङ्क्तयः 'खाइय'त्ति 'खातिकाः' उपरिविस्तीर्णाघःसङ्कटखात-रूपाः परिह'त्तिपरिखाःअध उपरिचसमखातरूपाः 'अट्टालग'त्तिप्राकरोपर्याश्रयविशेषाः 'चरिय'त्ति चरिका' गृहप्राकारान्तरोहस्त्यादिप्रचारमार्ग 'दार'त्तिद्वारंखडक्किका ‘गोउरत्ति 'गोपुरं' नगरप्रतोली ‘पासाय'त्ति प्रासाद देवानां राज्ञां च भवनानि, अथवा उत्सेधबहुलाः
प्रासादाः 'घर'त्तिगृहानि सामान्यजनानांसामान्यानिवा “सरण'त्ति 'शरणानि' तृणमयावसरिकादीनि 'आवण'त्ति 'आपणा'हट्टाः चतुर्मुखं-चतुर्मुखदेवकुलकादि ‘महापह'त्ति राजमार्ग 'सगडे'त्यादि प्राग्वत् ‘लोहित्ति 'लौहि' मण्डकादिपचनिका लोहकडाहित्तिकवेल्ली ‘कडुच्छुय'त्ति परिवेषणाद्यर्थो भाजनविशेषः ‘भवण'त्ति भवनपतिनिवासः।।
एतेच नारकादयश्छद्मस्थत्वेन हेतुव्यवहारकत्वाद्धेतव उच्यन्ते इति तद्भेदान्निरूपयन्नाह
मू. (२६१)पंच हेऊ पन्नत्ता, तंजहा-हेउंजाणइ हेउंपासइ हेउंबुज्झइ हेउंअभिसमागच्छति हेउंछउमत्थमरणं मरइ पंचेव हेऊ पं० तंजहा-हेउणा जाणइ जाव हेउणा छउमत्थमरणं मरइ। पंच हेऊ पन्नत्ता, तेजहा-हेउं न जाणइ जाव हेउं अन्नाणमरणं मरइ ॥ पंच हेऊ पन्नत्ता, तंजहाहेउणा न जाणति जाव हेउणा अन्नाण मरणं मरति॥ .
पंच अहेउ पन्नत्ता, तंजहा-अहेउं जाणइ जाव अहेउं केवलिमरणं मरइ ॥ पंच अहेऊ पन्नत्ता, तंजहा-अहेउणा जाणइजाव अहेउणा केवलिमरणं मरइ।।पंच अहेऊ पन्नत्ता, तंजहाअहेउणा न जाणइ जाव अहेउणा छउमत्थमरणं मरइ । सेवं भंते २ ति॥
वृ. 'पंच हेउ'इत्यादि, इह हेतुषुवर्तमानः पुरुषो हेतुरेव तदुपयोगानन्यत्वात्, पञ्चविधत्वं चास्य क्रियाभेदादित्यत आह 'हेउं जाणइत्ति हेतुं' साध्याविनाभूतं साधनिश्चयार्थं जानाति' विशेषतः सम्यगवगच्छति सम्यग्दृष्टित्वात्, अयं पञ्चविधोऽपि सम्यग्दृष्टिमन्तव्यो मिथ्यादृष्टेः सूत्रद्वयात्परतो वक्ष्यमाणत्वादित्येकः, एवं हेतुं पश्यति सामान्यत एवावबोधादिति द्वितीयः, एवं हेतुं 'बुध्यते' सम्यक् श्रद्धत्त इति बोधेः सम्यक्श्रद्धानपर्यायत्वादिति तृतीयः, तथा हेतुम् 'अभिसमागच्छति' साध्यसिद्धौ व्यापारणतः सम्यक्प्राप्नोतीति चतुर्थः,तथा "हेउंछउमत्थेत्यादि, हेतुः-अध्यवसानादिर्मरणकारणं तद्योगान्मरणमपि हेतुरतस्तं हेतुमदित्यर्थः छद्मस्थमरणं, न केवलिमरणं, तस्याहेतुकत्वात्, नाप्यज्ञानमरणमेतस्य सम्यगज्ञानित्वात् अज्ञानमरणस्य च वक्ष्यमाणत्वादित्येकः, एवं हेतुंपश्यति सामान्यतएवावबोधादिति द्वितीयः, एवं हेतुं बुध्यते' सम्यक्
Jain Education International
national
For Private & Personal Use Only
www.jainelibrary.org