SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ १२५ शतकं-२, वर्गः-, उद्देशकः-१ 'छंदे'त्ति पद्यलक्षणशास्त्रे निरुत्ते'त्तिशब्दव्युत्पत्तिकारकशास्त्रे ‘जोतिसामयणे'त्तिज्योतिशास्त्रे 'बंभण्णएसुत्ति ब्राह्मणसम्बन्धिषु 'परिव्वायएसुय'त्तिपरिव्राजकसत्केषु नयेषु' नीतिषुदर्शनेष्वित्यर्थः । 'नियंठे'त्ति निर्ग्रन्थः, श्रमण इत्यर्थः "वेसालियसावएत्ति विशाला-महावीर-जननी तस्या अपत्यमिति वैशालिकः-भगवांस्तस्य वचनंश्रणोतितद्रसिकत्वादिति वैशालिक-श्रावकः, तद्वचनामृतपाननिरत इत्यर्थ 'इणमक्खेवंति एनम् ‘आक्षेपं' प्रश्न पुच्छे'त्ति पृष्टवान्, ‘मागह'त्ति मगधजनपदजातत्वान्मागधस्तस्यामन्त्रणं हे मागध ! वड्डइ'त्तिसंसारवर्द्धनात् 'हायइत्तिसंसारपरिहान्येति। ___ "एतावंतावे'त्यादि, एतावत्प्रश्नजातं तावदाख्याहि 'उच्यमानः' पृच्छयमानः, “एवम्' अनेनप्रकारेण, एतस्मिन्नाख्याते पुनरन्यत्प्रक्ष्यामीतिहृदयम् । “संकिए' इत्यादि, किमिदमिहोत्तरमिदं वा? इति संजातशङ्कः, इदमिहोत्तरंसाधु इदं च न साधु अतः कथमत्रोत्तरं लपये? इत्युत्तरलाभाकाङ्क्षवान् काङ्क्षितः अस्मिन्नुत्तरे दत्तेकिमस्य प्रतीतिरुत्पत्स्यते नवा? इत्येवं विचिकित्सितः 'भेदसमावन्ने' मतेर्भङ्ग-किंकर्तव्यताव्याकुलतालक्षणमापन्नः 'कलुषमापन्नः' नाहमिह किञ्चिज्जानामीत्येवं स्वविषयं कालुष्यं समापन्न इति ‘नो संचाएइ'त्ति न शक्तोति ‘पमोक्खमक्खाइउंति प्रमुच्यते पर्यनुयोगबंधनादनेनेति प्रमोक्षम्-उत्तरम् ‘आख्यातुं' वक्तुम् । 'महया जणसंमद्दे इ वा जणवूहे इवा' इत्यत्रेदमन्यद् दृश्यम्-'जणबोले इवाजणकलकले इवाजणुम्मी इवा जणुक्कलिया इवा जणसंनिवाए इ वा बहुजणो अन्नमन्नस्स एवामाइक्खइ ४' । ___ एवं खलु देवाणुप्पिया ! समणे ३ आइगरे जाव संपाविउकामे पुव्वानुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे कयंगलाए नयरीए छत्तपलासए चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणंतवसाअप्पाणंभावेमाणे विहरइ, तंमहप्फलं खलुभोदेवाणुप्पिया! तहारूवाणंअरहंताणं भगवंताणंनामगोयस्सविसवणयाए, किमंगपुण अभिगमनवंदणनमंसणपडिपुच्छणपजुवासणयाए एगस्सविआयरियस्स धम्मियस्स सुवयणस्स सवणयाए? किमंग पुण विउलस्स अट्ठस्स गहणयाए?, तं गच्छमो णं देवाणुप्पिया ! समणं भगवं महावीरं वंदामो नमंसामो सक्कारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पञ्जुवासामो, एयंणो पेच्चभवेहियाए सुहाएखमाए निस्सेयसाए आनुगामियत्ताए भविस्सइत्तिकट्ठबहवे उग्गा उग्गपुत्ता एवं भोगा राइण्णा खत्तिया माहणा भडा जोहा मल्लई लेच्छई अन्ने य बहवे राईसरतलवरमाडंबियकोडुंबियइब्भसेडिसेणावइसत्थवाहपभियओ जाव उक्किट्ठसीहनायबोलकलयलरवेणं समुद्दरवभूयंपिव करेमाणा साव्थीए नयरीए मझं मझेणं निगच्छंति' । अस्यायमर्थः-श्रावस्त्यां नगर्यां यत्र ‘महय'त्ति महान् जनसंमर्दस्तत्र बहुजनोऽन्योऽन्यस्यैवमाख्यातीति वाक्यार्थः, तत्र जनसंमर्द-उरोनिष्पेषः 'इति' उपप्रदर्शने 'वा' समुच्चये पाठान्तरे शब्द इति वाजनव्यूहः-चक्राद्याकारोजनसमुदायः बोलः-अव्यक्तवर्णोध्वनिकलकलः-सओवेपलभ्यमानवचनविभागः-ऊर्मि-संबाधः कल्लोलाकारो वा जनसमुदायः उत्कलिका-समुदाय एव लघुतरः जनसन्निपातः-अपरापरस्थानेभ्यो जनानां मीलनं । _ 'यथाप्रतिरूप मित्युचितं 'तथारूपाणां' सङ्गतरूपाणां 'नामगोयस्सवि'त्ति नाम्नो याईच्छिकस्याभिधानस्य गोत्रस्य च-गुणनिष्पन्नस्य ‘सवणयाए' श्रवणेन 'किमंगपुण'त्तिकिंपुनरिति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy