________________
भगवतीअङ्गसूत्रं १/-/१/१ ॥१॥ “पंचविहं आयारं आयरमाणा तहा पयासंता।
आयारं दंसंता आयरिया तेण वुच्चंति ।। अथवा आ-ईषद् अपरिपूर्णा इत्यर्थः, चारा-हेरिका येते आचाराः, चारकल्पा इत्यर्थः।
युक्तायुक्तविभागनिरूपणनिपुणा विनेयाः अतस्तेषुसाधवो यथावच्छस्त्रार्थोपदेशकतया इत्याचार्या अतस्तेभ्यः, नमस्यता चैषामाचारोपदेशकतयोपकारित्वात् ।।
'नमो उवज्झायाणं'ति उप-समीपमागत्याधीय 'इङ अध्ययने' इतिवचनात्पठ्यते इण गता' वितिवचनाद्वा अधि-आधिक्येन गम्यते, 'इक्स्मरणे इतिवचनाद्वास्मर्यतेसूत्रतोजिनप्रवचनं येभ्यस्ते उपाध्यायाः, यदाह - ॥१॥ “बारसंगो जिणक्खाओ, सज्झाओ कहिओ बुहेहिं तं
उवइसंति जम्हा उवझाया तेण वुच्चंति ॥ -अथवा उपाधानमुपाधि-संनिधिस्तेनोपाधिना उपाधौ वा आयो-लाभः -श्रुतस्य येषामुपाधीनांवा-विशेषणानां प्रक्रमाच्छेभवनानामायो-लाभोयेभ्यः ।अथवा उपाधिरेव-संनिधिरेव आयम्-इष्टफलं दैवजनितत्वेन अयानाम्-इष्टफलानां समूहस्तदेकहेतुत्वाद्येषाम् ।।
अथवा आधीनां-मनःपीडानामायो-लाभ आध्यायः अधियां वा-नञः कुत्सार्थत्वात् कुबुद्धीनामायोऽध्यायः ‘ध्यै चिन्तायाम्' इत्यस्य धातोः प्रयोगान्नञः कुत्सार्थत्वादेव च दुध्यान वाऽध्यायः उपहतआध्यार्यःअध्यायोवायैस्तेउपाध्याया अतस्तेभ्यः, नमस्यताचैषांसुसंप्रदायायातजिनवचनाध्यापनतो विनयनेन भव्यानामुपकारित्वादिति।
'नमोसव्वसाहूण'मिति, साधयन्ति ज्ञानादिशक्तिभिर्मोक्षमिति साधवः समतांवा सर्वभूतेषु ध्यायन्तीति निरुक्तिन्यायात्साधवः, यदाह॥१॥ “निव्वाणसाहए जोए, जम्हा साहेति साहुणो।
समा य सव्वभूएसु, तम्हा ते भावसाहुणो।। साहायकंवा संयमकारिणांधारयन्तीति साधवः, निरुक्तेरेव, सर्वेचतेसामायिकादिविशेषणाः प्रमत्तादयः पुलाकादयो वा जिनकल्पिकप्रतिमाकल्पिकयथालन्दकल्पिकपरिवाहारविशुद्धिकल्पिकस्थविरस्थितकल्पि (कास्थितकल्पि)कस्थितास्थितकल्पिक पातीतभेदाः प्रत्येकबुद्ध- स्वयम्बुद्धबुद्धबोधितभेदाः भारतादिभेदाः सुषमदुष्षमादिविशेषिता वा साधवः सर्वसाधवः, सर्वग्रहणंच सर्वेषांगुणवतामविशेषनमनीयताप्रतिपादनार्थम्, इदंचार्हदादिपदेष्वपि बोद्धव्यं, न्यायस्य समानत्वादिति ।
अथवा-सर्वेभ्यो जीवेभ्यो हिताः सास्तेिचते साधवश्च सार्वस्य वा-अर्हतो न तु बुद्धादेः साधवः सार्वसाधवः, सर्वान् वा शुभयोगान् साधयन्ति-कुर्वन्ति सार्वान् वा-अर्हतः साधयन्तितदाज्ञाकरणादाराधयन्ति प्रतिष्ठापयन्ति वा दुर्नयनिराकरणादिति सर्वसाधवः सार्वसाधवो वा
अथवा-श्रव्येषु-श्रवणार्हेषु वाक्येषु, अथवा सव्यानि-दक्षिणान्यनुकूलानियानि कार्याणि तेषु साधवो निपुणाः श्रव्यसाधवः सव्यसाधवो वाऽतस्तेभ्यः । _ नमो लोए सव्वसाहुणं'ति क्वचित्पाठः, तत्र सर्वशब्दस्य देशसर्वतायामपि दर्शनादपरिशेषसर्वतोपदर्शनार्थमुच्यते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org