________________
समवायः - १
यानि वर्षाण्यायुर्येषां ते तथा ते च ते सज्ज्ञिनश्च समनस्कास्ते च ते पच्चेन्द्रियतिर्यग्योनिकाश्वेत्यसङ्ख्येयवर्षायुः सज्ज्ञिपञ्चेन्द्रियतिर्यग्योनिकास्तेषा केषाञ्चिद् ये हेमवतैरण्यवतवर्षयोरुत्पन्नास्तेषामेकं पल्योपमं स्थिति, एवं मनुष्यसूत्रमपि ।
नवरं गर्भे गर्भाशये व्युत्क्रान्ति-उत्पत्तिर्येषां ते गर्भव्युत्क्रान्तिका न समूर्च्छनजा इत्यर्थः । 'वाणमन्तराणं देवाणं’ति, देवानामेव न तु देवीनां, तासामर्द्धपल्योपमस्य प्रतिपादितत्वात्, 'जाइसियाणं देवाणं' ति चन्द्रविमानदेवानां न सूर्यादिदेवानां नापि चन्द्रादिदेवीनां, 'पलियं च सयसहस्सं चन्दाणवि आउयं जाण' इतिवचनात् ।
'सोहम्मे कप्पे देवाणं' ति इह देवशब्देन देवा देव्यश्च गृहीताः, सौधर्मे हि पल्योपमाद्धीनतरा स्थितिर्जघन्यतोऽपि नास्ति, इयं च प्रथमप्रस्तटेऽवसेया, 'सोहम्मे कप्पे अत्थे गइयाणं देवाणं एगं सागरोवम मिति, अत्र देवानामेव ग्रहणं न तु देवीनां, उत्कृष्टतोऽपि तत्र तासां पञ्चाशत्पल्योपमस्थितिकत्वात्, तथा एकं सागरोपममिति मध्यमस्थित्यपेक्षया, उत्कर्षतस्तत्र सागरोपमद्वयसद्भावात्, प्रस्तटापेक्षया त्वेषा सप्तमे प्रस्तटे मध्यमावसेया ।
११
'ईसाणे कप्पे देवाण' मित्यत्र देवग्रहणेन देवा देव्यश्च गृह्यन्ते, यतस्तत्र सातिरेकपल्योपमादन्या जघन्यतः स्थितिरेव नास्ति, 'ईसाणे कप्पे देवाणं अत्येगइयाण' मित्यत्र देवानामेव ग्रहणं न देवीनां, तत्र तासामुत्कर्षतोऽपि पच्चपञ्चाशत्पल्योपमस्थितिकत्वादिति, तथा ये देवाः सागरंसागराभिधानमेवं सुसागरं सागरकान्तं भवं मनुं मानुषोत्तरं लोकहितमिह चकारोद्रष्टव्यः, समुच्चयस्य द्योतनीयत्वाद्, विमानं - देवनिवासविशेषमासाद्येति शेषः, देवत्वेन न तु देवीत्वेन तासां सागरोपमस्थितेरसम्भवात् उत्पन्ना-जातास्तेषां देवीनामेकं सागरोपमं स्थिति, एतानिच विमानानि सप्तमे प्रस्तटेऽवसेयानि । स्थित्यनुसारेण च देवानामुच्छ्वासादयो भवन्तीति तान् दर्शयन्नाह - 'ते 'मित्यादि, येषां देवानामेकं सागरोपमं स्थितिस्ते देवा णमित्यलङ्कारे अर्द्धमासस्यान्ते इति शेषः आनन्ति प्राणन्ति, एतदेव क्रमेण व्याख्यानयन्नाह उच्छ्वसन्ति निश्वसन्ति, वाशब्दाः विकल्पार्था, तथा तेषामेव वर्षसहस्रस्यान्ते इति शेषः, आहारार्थ- आहारप्रयोजनमाहारपुद्गलानां ग्रहणमाभोगतो भवति, अनाभोगतस्तु प्रतिसमयमेव विग्रहादन्यत्र भवतीति, गाथेह
119 11
-
'जस्स जइ सागरोवमाइं ठिइ तस्स तत्तिएहिं पक्खेहि ।
ऊसासो देवाणं वाससहस्सेहि आहारो ॥ त्ति
सन्ति - विद्यन्ते 'एगइया' एके केचन 'भवसिद्धिय'त्ति भवा- भाविनी सिद्धि-मुक्तिर्येषां ते भवसिद्धिकाः-भव्याः ‘भवग्गहणेणं'ति भवस्य मनुष्यजन्मनो ग्रहणम्-उपादानं भवग्रहणं तेन सेत्स्यन्ति अष्टविधमहर्द्धिप्राप्तया भोत्स्यन्ते केवलज्ञाने तत्वं 'मोक्षन्ति' कर्मराशेः परिनिर्वास्यन्तिकर्मकृतविकारविरहाच्छीतीभविष्यन्ति, किमुक्तं भवति ? - सर्वदुःखानामन्तं करिष्यन्तीति । सामान्यनयाश्रयणादेकतया वस्तून्यभिधायाधुना विशेषनयाश्रयणाद्दित्वेनाह
समवाय:- १ समाप्तः
मुनि दीपरत्नसागरेण संशोधिता - सम्पादिता अभय देवसूरि विरचिता समावायाङ्गे प्रथम समवाय टीका परिसमाप्ता ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org