________________
७८
स्थानाङ्ग सूत्रम् २/३/८६
यथासत्तिन्यायाश्रयणाच्च जम्बूद्वीपस्य दक्षिणे भागे भरतमाहिमवतः, तस्यैवोत्तरे भागे ऐरवतं शिखरिणः परत इति, एव'मितिभरतैरवतवत् ‘एतैनाभिलापेन' 'जंबूद्दीवेदीवेमंदरस्से'त्यादिना उच्चारणेनापारं सूत्रद्वयं वाच्यं, तयोश्चायं विशेषः- “हेमवए चेवे'त्यादि, तत्र हैमवतं दक्षिणतो हिमवन्महाहिमवतोर्मध्ये हिरण्यवतमुत्तरतः रुक्मिशिखरिणोरन्तः हरिवर्ष, दक्षिणतो महाहिमवन्निषधयोरन्तः रम्यकवर्षं चोत्तरतो नीलरुक्मिणोरन्तरिति, 'जंबूद्दीवे इत्यादि, 'पुरच्छिमपच्चत्थिमेणं'तिपुरस्तात-पूर्वस्यां दिशिपश्चात-पश्चिमायामित्यर्थः,यथाक्रम, पूर्वश्चासौ विदेहश्चेति पूर्वविदेहः, एवमपरविदेह इति, एतेषांचायामादिग्रन्थान्तरादवसेयमिति। 'जंबू'इत्यादि, दक्षिणेन देवकुरवः उत्तरेणउत्तरकुरवः, तत्र आद्या विद्युत्प्रभसौमनसाभिधानवक्षस्कारपर्वताभ्यांगजदन्ताकाराभ्यामावृताः, इतरे तु गन्धमादनमाल्यवद्ध्यामावृताः, उभये चामी अर्द्धचन्द्राकाराः दक्षिणोत्तरतो विस्तृताः, तत्प्रमाणं चेदम्॥१॥ 'अट्ठसया बायाला एक्कारस सहस दो कलाओय।।
विक्खंभो य कुरूणं ते वन्नसहस्स जीवा सिं" पूर्वापरायामाश्चैता इति, 'महइमहालय'त्तिमहान्तौ गुरू अतीति अत्यन्तंमहसांतेजसां महानां वा-उत्सवानामालयौ-आश्रयौ महातिमहआलयौ महातिमहालयौ वा समयभाषया महान्तावित्यर्थः, महाद्रुमौ प्रशस्ततया आयामो-दैy विष्कम्भो-विस्तारः उच्चत्वम्-उच्छ्रयः उद्वैधोभुवि प्रवेशः संस्थानम्-आकारः परिणाहः-परिधिरिति, तत्रानयोः प्रमाणम्॥१॥ "रयणमया पुष्फफला विक्खंभो अट्ट अट्ट उच्चत्तं ।
जोयणमडुव्वेहो खंधो दोजोयणुविद्धो ॥३॥ भवणं कोसपमाणं सयणिज्जं तत्थऽणाढियसुरस्स।
तिसु पासाया सालेसु तेसु सीहासणा रम्मा" (इति), शाल्मल्यामप्येवमेवेति, कूटाकारा-शिखराकारा शाल्मली कूटशाल्मलीति संज्ञा, सुष्टु दर्शनमस्या इति सुदर्शनेतीयमपि संज्ञेति, 'तत्थ'त्ति तयोर्महाद्रुमयोः ‘महे' त्यादि महती ऋद्धिःआवासपरिवाररलादिका ययोस्तौ महर्द्धिकौ यावदग्रहणात् ‘महज्जुइया महानुभागा महायसा महाबल'त्ति, तत्रद्युतिः-शरीराभरणदीप्तिः अनुभागः-अचिन्त्या शक्तिर्वैक्रियकरणादिका यशःख्यातिः बलं-सामर्थ्य शरीरस्य सौख्यम्-आनन्दात्मकं, 'महेसक्खा' इति क्वचित्पाठः, महेशौमहेश्वरावित्याख्या ययोस्ती मेहशाख्याविति, पल्योपमंयावत् स्थितिः-आयुर्ययोस्तीतथा। गरुड:सुपर्णकुमारजातीयः वेणुदेवो नाम्ना, अणाढिउत्ति नाम्ना॥
मू. (८७)जंबूमंदरस्सपव्वयस्स य उत्तरदाहिणेणंदोवासहरपव्वया(पं०२०-बहुसमतुल्ला अविसेसमाणत्ता अन्नमन्नं नातिवटंति आयामविक्खंभुचतोव्वेहसंठाणपरिणाहेणं, तंजहाचुल्लहिमवंते चेव सिहरिच्चेव, एवं महाहिमवंते चेव रुप्पिञ्चेव, एवं निसढे चेव नीलवंते चेव, जंबूमंदरस्स पव्वयस्स उत्तरदाहिणेणं हेमवंतेरण्णवतेसु वासेसु दो वट्टवेतड्पव्वता [पं० २०-] बहुसमतुल्ला अविसेसमणाणत्ता जाव सद्दावातीचेववियडावातीचेव, तत्थणंदो देवा महिड्डिया जाव पलिओवमद्वितीया परिवसंति तं०-साती चेव पभासे चेव, जंबूमंदरस्स उत्तरदाहिणेणं हरिवासरम्मतेसुवासेसुदो वट्टयेयड्डपव्वया(पं० तं०-]बहुसम० जावगंधावातीचेवमालवंतपरियाए चेव, तत्थ णं दो देवा महिड्डिया चेव जाव पलिओवमद्वितीया परिवसंति, तं०-अरुणे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org