________________
स्थानं - २, - उद्देशकः -२
'दोही 'त्यादि, नव सूत्राणि सुगमानि, नवरम्, अवभासते - द्योतते देशेन खद्योतकतव्, सर्वतः प्रदीपवत्, अथवा अवभासते - जानाति स च देशतः फड्डुकावधिज्ञानी सर्वतोऽभ्यन्तरावधिरिति १, 'एव' मिति देशसर्वाभ्यां प्रभासते-प्रक्रर्षेण द्योतते २स विकरोति देशेन हस्तादिवैक्रियकरणेन, सर्वेण सर्वस्यैव कायस्येति ३, 'परियारेइ' त्ति मैथुनं सेवते देशेन मनोयोगादीनामन्यतमेन, सर्वेण योगत्रयेणापि ४, भाषां भाषते देशेन जिह्वाग्रादिना सर्वेण समस्तताल्वादिस्थानैः ५, आहारयति देशेन मुखमात्रेण सर्वेण ओजआहारापेक्षया ६, आहारमेव परिणमयति० - परिणामं नयति रवलरसविभागेनेति भक्ताशचदेशस्य प्लीहादिना रुद्धत्वाद् देशतः अन्यथा तु सर्वतः ७, वेदयति- अनुभवति, देशेन हस्तादिना अवयवेन सर्वेण सर्वावयवैराहारसत्कान् परिणमितपुद्गलान् इष्टानिष्टपरिणामतः ८, निर्जरयति-त्यजत्याहारितान् परिणामितान् वेदितान् आहारपुद्गलान् देशेनापानादिना सर्वेण सर्वशरीरेणैव प्रस्वेदवदिति ९,
७१
अथवैतानि चतुर्द्दशापि सूत्राणि विवक्षितविषयवस्त्वपेक्षया नेयानि, तत्र देशसर्वयोजना यथा 'देशेनापी' ति देशतोऽपि श्रृणोति विवक्षितशब्दानां मध्ये कांश्चिच्छृणोतीति, 'सर्वेणापी' ति सर्वतश्च सामस्त्येन, सर्वानेवेत्यर्थः, एवं रूपादीनपि, तथा विवक्षितस्य देशं सर्वं वा विवक्षितमवभासयत्येवं प्रभासयति एवं विकुर्वणीयं विकुरुते परिचारणीयं स्त्रीशरीरादि परिचारयति भाषणीयापेक्षया देशतो भाषां भाषते सर्वतो वेति अभ्यवहार्यमाहारयति आहृतं परिणमयति वेद्यं कर्म वेदयति देशतः सर्वतोवा, एवं निर्जरयत्यपि । देशसर्वाभ्यां सामान्यतः श्रवणाद्युक्तं विशेषविवक्षायां प्रधानत्वाद् देवाना तानाश्रित्य तदाह- 'दोही' त्यादि, एतदपि विवक्षितशब्दादिविषयापेक्षया सूत्रचतुर्दशकं नेयमिति, देशतः सर्वतो वा ।
एतेऽनन्तरोक्ता भावाः शरीर एव सति सम्भवन्तीति देवाना च प्रधानत्वात् तेषामेव व्यक्तितः शरीरनिरूपणायाह - 'मरुए 'त्यादि सूत्राष्टकं कण्ठयम्, नवरं, मरुतो देवा लोकान्तिकदेवविशेषाः, यत उक्तम्- “सारस्वता १ दित्य २ वह्यय ३ रुण ४ गर्द्दतोय ५ तुषिताऽ६ व्याबाध ७ मरुतो ८ऽरिष्ठा ९ श्चेति' ते चैकशरीरिणो विग्रहे कार्मणशरीरत्वात्, तदनन्तरं वैक्रियभावाद् द्विशरीरिणः, द्वयोः शरीरयोः समाहारो द्विशरीरं तदस्ति येषां ते तथा, अथवा भवधारणीयमेव यदा तदैकशरीरः यदा तूत्तरवैक्रियमपि तदा द्विशरीराः, किन्नराद्यास्त्रयो व्यन्तराः, शेषा भवनपतय इति, परिगणितभेदग्रहणं च भेदान्तरोपलक्षणम्, न तु व्यवच्छेदार्थं, सर्वजीवानामपि विग्रहे एकशरीरत्वस्यान्यदा द्विशरीरत्वस्य चोपपद्यमानत्वादिति ८, अत एव सामान्यत आह- 'देवा दुविहे' त्यादि कण्ठ्यम्, ॥
स्थान - २ - उद्देशकः २ - समाप्तः
-: स्थान - २ - उद्देशकः ३ :
वृ. उक्तो द्वितीयोद्देशकः, अथ तृतीय आरभ्यते, अस्य चानन्तरेण सहायमभिसंबन्धःअनन्तरोद्देशके जीवपदार्थोऽनेकधोक्तः, अत्र तु तदुपग्राहकपुद्गलजीवधर्मक्षेत्रद्रव्यलक्षणपदार्थप्ररूपणोच्यते इत्येवंसम्बन्धस्यास्येदमादिमसूत्राष्टकम्
मू. (८१) दुविहे सद्दे पं० तं०-भासासद्दे चेव नोभासासद्दे चेव, भासासद्दे दुविहे पं० तं०अक्खरसंबद्धे चेव नोअक्खरसंबद्धे चेव, नोभासासद्दे दुविहे पन्नत्ते तं० - आउज्जसद्दे चेव नोआउज्जसद्दे चेव, आउज्जसद्दे दुविहे पं० तं०-तते चैव वितते चेव, तते दुविहे पं० तं०-घणे चेव झुसिरे चेव, एवं विततेऽवि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org