________________
स्थानं - १०, -
५७५
दसपतेसिता खंधा अनंता पन्नत्ता दसपतेसोगाढा पोग्गला अनंता पन्नत्ता दससम - तठितीता पोग्गला अनंता पन्नत्ता दसगुणकालगा पोग्गला अनंता पन्नत्ता एवं वन्नेहिं गंधेहिं रसेहिं फासेहिं दसगुणलुक्खा पोग्गला अनंता पन्नत्ता ।
वृ. 'जीवाण' मित्यादि, अथवा जातियोनिकुलादिविशेषा जीवाणां कर्म्मणश्चयोपचयादिभ्यो भवन्तीति त्रिकालभाविनो दशस्थानकानुपातेन कर्म्मणश्चयादीनाह- 'जीवा ण' मित्यादि, जीवाजीवनधर्माणो न सिद्धा इति भावः, णमिति वाक्यालङ्कारेदशभिः स्थानैः प्रथमसमयैकेन्द्रियत्वादिभिः पर्यायैः हेतुभिर्ये निर्विर्त्तिता-बन्धयोग्यतया निष्पादितास्ते तथा दशभिः स्थानैर्निर्वृत्तिर्वा येषां ते तथा तान् पुद्गलान्-कर्म्मवर्गणारूपान् पापं-घातिकर्म्म सर्व्वमेव वा कर्म्म तच्च तक्रियमाणत्वात् कर्म्मच पापकर्म्म तद्भावस्तत्ता तया पापकर्मतया 'चिणिसु' त्ति चितवन्तो गृहीतवन्तः चिन्वन्तिगृह्णन्ति चेष्यन्ति-गृहीष्यन्त्यनेनात्मनां त्रिकालन्वयित्वमाह, सर्वथा अनन्वयित्वेऽकृताभ्यागमकृतविप्रणाशप्रसङ्गादिति, वाशब्दा विकल्पार्थाः,
तद्यथा- प्रथमः समयो येषामेकेन्द्रियत्वस्य ते तथा ते च ते एकन्द्रियाश्चेति प्रथमसमयैकेन्द्रियास्तैः सद्भिर्ये निर्वर्त्तिताः कर्म्मतयाऽऽपादिता अविशेषतो गृहीतास्ते तथा तान्, एतद्विपरीतैरप्रथमसमयैकेन्द्रियैर्निर्वर्त्तिता ये ते तथा तान्, एवं द्विभेदता द्वित्रिचतुष्पञ्चेन्द्रियाणां प्रत्येकं वाच्येति, एतदेवातिदेशेनाह - 'जावे' त्यादि, यथा चितवन्त इत्यादि कालत्रयनिर्देशेन सूत्रमुक्तमेवमुपचितवन्त इत्यादीन्यपि पञ्च वक्तव्यानीत्येतदेवाह
' एवं चिणे 'त्यादि, इह चैवमक्षरघटना- चिणत्ति - यथा चयनं कालत्रयविशेषितमुक्तमेवमुपचयो बन्ध उदीरणा वेदना निर्जराच वाच्याः, 'चेव' त्ति समुच्चये नवरं चयनादीनामयं विशेषः चयनं नाम कषायादिपरिणतस्य कर्म्मपुगद्गलोपादानमात्रं, उपचयनं गृहीतानां ज्ञानावरणादिभावेन निषेचनं बन्धनं-निकाचनं उदीरणा-करणत उदये प्रवेशनं वेदनं - अनुभवनं निर्जरा - जीवप्रदेशेभ्यः परिशटनमिति ।
पुद्गलाधिकार एवेदमाह - 'दसे' त्यादि सूत्रवृन्दं सुगमंच, नवरं दश प्रदेशा येषां ते तथा त एव दशप्रदेशिका-दशाणुकाः स्कन्धाः समुच्चया इति द्रव्यतः पुद्गलचिन्ता, तथा दशसु प्रदेशेष्वाकाशस्यावगाढा - आश्रिता दशप्रदेशावगाढा इति क्षेत्रतः तथा दश समयान् स्थितिर्येषां ते तथेति कालतः तथा दशगुणः-एकगुणकालापेक्षयादशाभ्यस्तः कालो-वर्णविशेषो येषां ते दशगुणकालकाः एवमन्यैश्चतुर्भिर्वर्णैर्द्वाभ्यां गन्धाभ्यां पञ्चमी रसैरष्टाभिः स्पर्शैः विशेषिताः पुद्गलाः अनन्ता वाच्याः अतएवाह-‘एव’मित्यादि, 'जाव दसगुणलुक्खा पोग्गला अनंता पन्नत्ते' त्यनेन भावतः पुद्गलचिन्तायां विंशतितम आलापको दर्शितः ।
इह चानन्तशब्दोपादानेन वृ-ध्यादिशब्देनेवान्तमङ्गलमभिहितं, अयं चानन्तशब्द इह सर्वाध्यनानामन्ते पठति इति सर्वेष्वप्यन्तमङ्गलतया बोद्धव्य इति ॥
स्थानं - १० समाप्तम्
तत्समाप्तौ च समाप्तं स्थानाङ्गविवरणं, तथा च यदादावभिहितं स्थानाङ्गस्य महानिधानस्योवोन्मुद्रणमिवानुयोगः प्रारभ्यत इति तच्चन्द्रकुलीनप्रवचनप्रणीताप्रतिबद्धविहारहारिचरितश्रीवर्धमानाभिधानमुनिपतिपादोपसेविनः प्रमाणादिव्युत्पादनप्रवणप्रकरणप्रबन्धप्रणायिनः
प्रबुद्धप्रतिबन्धप्रवक्तृप्रवीणाप्रतिहतप्रवचनार्थप्रधानवाक्प्रसरस्य सुविहितमुनिजनमुख्यस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org