________________
स्थानं - १०, -
सङ्ग्रहमुक्त्वा पुनः 'मणेण 'मित्यादिना तिविहेणंति विवृतमिति क्रमभिन्नं, क्रमेणं हि तिविहमित्येतन्न करोम्यादिना विवृत्य ततस्त्रिविधेनेति विवरणीयं भवतीति, अस्य च क्रमभिन्नस्यानुयोगोऽयं यथाक्रमविवरणे हि यथासङ्ख्यदोषः स्यादिति तत्परिहरार्थं क्रमभदः, तथाहि - न करोमि मनसा न कारयामि वाचा कुर्वन्तं नानुजानामि कायेनेति प्रसज्यते, अनिष्टं चैतत्प्रत्येकपक्षस्यैवेष्टत्वात्,
तथाहि - मनःप्रभृतिभिर्न करोमि तैरेव न कारयामि तैरेव नानुजानामीति, तथा कालभेदोऽतीतादिनिर्द्देशे प्राप्ते वर्त्तमानादिनिर्देशो यथा जम्बूद्वीपप्रज्ञप्तयादिषु ऋषभस्वामिनमाश्रित्य 'सक्के देविंदे देवराया वंदति नम॑सति' त्ति सूत्रे, तदनुयोगश्चायं वर्त्तमाननिर्देशस्त्रिकालभाविष्वपि तीर्थकरेष्वेत न्यायप्रदर्शनार्थ इति, इदं च दोषादिसूत्रयमन्यथापि विमर्शनीयं, गम्भीरत्वादस्येति वागनुयोगस्त्वर्थानुयोगः प्रवर्त्तत इति दानलक्षणस्यार्थस्य भेदानामनुयोगमाहमू. (९५१) दसविहे दाने पं० (तं०)
मू. (९५२)
अनुकंपा १ संगहे २ चेव, भये ३ कालुणितेति य ४ । लज्जाते ५ गारवेणं च ६, अहम्मे उण सत्तमे ७ ॥ धम्मे त अट्टमे वुत्ते ८, काहीति, त ९ कर्तति त १० ॥
वृ. 'दसे'त्यादि, 'अनुकंपे’त्यादि श्लोकः सार्द्धः, 'अनुकंप'त्ति दानशब्दसम्बन्धादनुकम्पयाकृपया दानं दीनानाथविषयमनुकम्पदानमथवा अनुकम्पातो यद्दानं तदनुकम्पैवोपचारात् उक्तं च वाचकमुख्यैरूमास्वातिपूज्यपादैः
11911
च -
“कृपणेऽनाथदरिद्रे व्यसनप्राप्ते च रोगशोकहते । यद्दीयते कृपार्थादनुकम्पा तद्भवेद्दानम् ॥”
सङ्ग्रहणं सङ्ग्रहः-व्यसनादौ सहायकरणं तदर्थं दानं सङ्ग्रहदानं, अथवा अभेदाद्दानमपि सङ्ग्रह उच्यते, आह च -
-
11911
-
11911
"अभ्युदये व्यसने वा यत्किञ्चिद्दीयते सहायार्थम् ।
तत्सङ्गङ्ग्रहतोऽभिमतं मुनिभिर्द्दनं न मोक्षाय ॥” इति,
तथा भयात् यद्दानं तत् भयदानं, भयनिमित्तत्वाद्वा दानमपि भयमुपचाराद्, इति, उक्तं
"राजारक्षपुरोहितमधुमुखमावल्लदण्डपाशिषु च ।
यद्दीयते भयार्थात्तद्भयदानं बुधैर्ज्ञेयम् ॥” इति ३,
५४१
'कालुणिए इय'त्ति कारुण्य-शोकस्तेन पुत्रवियोगादिजनितेन तदीयस्यैव तल्पादेः स जन्मान्तरे सुखितो भवत्वितिवासनातोऽन्यस्य वा यद्दानं तत्कारुण्यदानं, कारुण्यजन्यत्वाद्वा दानमपि कारुण्यमुक्तमुपचारादिति ४, तथा 'लज्जया' ह्रिया दानं यत्तलज्जादानमुच्यते, उक्तं च"अभ्यर्थितः परेण तु यद्दानं जनसमूहमध्यगतः । परचित्तरक्षणार्थं लज्जायास्तद्भवेद्दानम् ॥” इति, ५
11911
'गारवेणं च 'त्ति गौरवेण-गर्वेण यद्दीयते तद्द गौरवदानमिति, उक्तं च "नटनर्त्तमुष्टिकेभ्यो दानं सम्बन्धिबन्धुमित्रेभ्यः । यद्दीयते यशोऽर्थं गर्वेण तु तद्भवेद्दानम् ॥” ६,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org