________________
५३६
स्थानाङ्ग सूत्रम् १०/-/९४२
न्तकायोऽयमित्यभिदधतः ७,
___'परित्तमिस्सए'त्ति परीत्तविषयं मिश्रकं परीत्तमिश्रकं यथा अनन्तकायलेशवति परीत्ते परीत्तोऽयमित्यभिदधतः८, अद्धामिस्सए'त्तिकालविषयंसत्यासत्यं यथाकश्चित् कस्मिंश्चित्प्रयोजने सहायांस्त्वरयन् परिणतप्राये वा वासरे एव रजनी वर्तत इति ब्रवीति ९, 'अद्धद्धामीसए'त्ति अद्धा-दिवसोरजनीवातदेकदेशः प्रहरादिः अद्धद्धा तद्विषयं मिश्रकं-सत्यासत्यं अद्धाद्धामिश्रकं, यथा कश्चित्कस्मिंश्चित्प्रयोजने प्रहरमात्र एव मध्याह्न इत्याह -
भाषाधिकारात्सकलभाषणीयार्थव्यापकं सत्यभाषरूपं दृष्टिवादंपर्यायतोदशधाऽऽह
मू. (९४३) दिट्टिवायस्सणंदसनामधेजा पं० तं०-दिट्टिवातेतिवा हेउवातेतिवाभूयवातेति वातच्चावातेति वा सम्मावातेति वा धम्मावातेति वा भासाविजतेतिवापुव्वगतेति वा अनुजोगगतेति वा सव्वपाणभूतजीवसत्तसुहावहेति वा ।
वृ. 'दिट्ठी' त्यादि, दृष्टयो दर्शनानि वदनं वादः दृष्टीनां वादो दृष्टिवादः दृष्टीनां वा पातो यस्मिन्नसौ दृष्टिपातः, सर्वनयदृष्टय इहाख्यायन्त इत्यर्थः, तस्य दश नामधेयानि नामानीत्यर्थः, तद्यथा-दृष्टिवाद इतिप्रतिपादितमेव, इतिशब्द उपप्रदर्शने वाशब्दोविकल्पे,तथा हिनोति-गमयति जिज्ञासितममिति हेतुः-अनुमानोत्थापकं लिङ्गमुपचारादनुमानमेव वा तद्वादो हेतुवादः, तथा भूताः-सद्भूताः पदार्थास्तेषांवादोभूतवादः, तथा तत्त्वानि-वस्तूनामैदम्पर्याणितेषांवादस्तत्त्ववादस्तथ्यो वा-सत्यो वादस्तथ्यवादः, तथा सम्यग्-अविपरीतोवादः सम्यग्वादः, तथा धर्माणांवस्तुपर्यायाणां धर्मस्य वा-चारित्रस्य वादो धर्मवादः, तथा भाषा-सत्यादिका तस्या विचयोनिरणयो भाषाविच्यः, भाषायावा-वाचोविजयः-समृद्धिर्यस्मिन्सभाषाविजयः, तथा सर्वश्रुतात्पूर्वं क्रियंतइतिपूर्वाणि-उत्पादपूर्वादीनिचतुर्दशतेषुगतः-अभ्यन्तरीभूतस्तत्स्वभावइत्यर्थइतिपूर्वगतः,
तथाऽनुयोगः-प्रथमानुयोगस्तीर्थकरादिपूर्वभवादिव्याख्यानग्रन्थो गण्डिकानुयोगश्च भरतनरपतिवंशजानां निर्वाणगमनानुत्तर विमानवक्तव्यताव्याख्यानग्रन्थ इति द्विरूपेऽनुयोगे गतोऽनुयोगगतः, एतौचपूर्वगतानुयोगगतौष्टिवादांशावपिष्टिवादतयोक्ती अवयवेसमुदायोपचारादिति, तथा सर्वे-विश्वे ते च ते प्राणाश्च-द्वीन्द्रियादयो भूताश्च-तरवः जीवाश्च-पञ्चेन्द्रियाः सत्त्वाश्च-पृथिव्यादयः इति द्वन्द्वे सति कर्मधारयः, ततस्तेषांसुखं शुभंवाआवहतीति सर्वप्राणभूतजीवसत्त्वसुखावहः, सुखावहत्वं च संयमप्रतिपादकत्वात् सत्त्वानां निर्वाणहेतुत्वाच्चेति ।
प्राणादीनांसुखावहोदृष्टिवादोऽशरूपत्वात् शस्त्रमेव हिदुःखावहमितिशस्त्रप्ररूपणायाह
मू. (९४४) दसविधे सत्थे पं० (तं०)मू. (९४५) 'सत्थमग्गी १ विसं २ लोणं ३, सिणेहो ४ खार ५ मंबिलं ६ ।
दुप्पउत्तोमणो ७ वाया ८, काया ९ भावो त अविरती १०॥ वृ. 'दसे'त्यादि, शस्यते-हिंस्यते अनेनेति शस्त्रं,
'सत्यं सिलोगो, शस्त्रं-हिंसकं वस्तु, तच्च द्विधा-द्रव्यतोभावतश्च, तत्रद्रव्यतस्तावदुच्यतेअग्निः-अनलः, सच विसदृशानलापेक्षया स्वकायशं भवति, पृथिव्याद्यपेक्षया तु परकायशं १ विषं-स्थावरजङ्गमभेदं २ लवणं-प्रतीतं ३ स्नेहः-तैलघृतादक्षारो-भस्मादि ५ अम्लं-काजिकं ६।
'भावो यत्ति इह द्रष्टव्यं तेन भावो-भावरूपं शस्त्रं, किं तदित्याह-दुष्प्रयुक्तं-अकुशलं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org