SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ ५१२ स्थानाङ्ग सूत्रम् ९/-/८८३ ॥४॥ एतासु भृगुर्विचरति नागगजैरावतीषु वीथिषु चेत् । बहु वर्षेत् पर्जन्यसुलभौषधयोऽर्थवृद्धिश्च॥ ॥५॥ पशुसंज्ञासु च ३ मध्यमसस्यफलादिर्यदा चरेद् भृगुजः। अजमृगवैश्वानरवीथिष्वर्थभयार्दितो लोकः ॥ इति । वीथिविशेषचारेण च शुक्रादयो ग्रहा मनुजादीनामनुग्रहोपघातकारिणो भवन्तीति द्रव्यादिसामण्या कर्मणामुदयादिसद्भावादितिसम्बन्धात्प्रस्तुताध्ययनावतारि कर्मस्वरूपमाह मू. (८८४) नवविधे नोकसायवेयणिज्जे कम्मे पं० तं०-इथिवेते पुरिसवेते नपुंसगवेते हासे रती अरइ भये सोगे दुगुंछे। वृ. 'नवविहे'त्यादि, इह नोशब्दः साहचर्यार्थः कषायैः-क्रोधादिभिः सहचरा नोकषायाः, केवलानां नैषांप्राधान्यं किन्तु यैरनन्तानुबन्ध्यादिभिः सहोदयं यान्ति तद्विपाकसदृशमेव विपाकमादर्शयन्तीति, बुधग्रहवदन्यसंसर्गमनुवर्तन्ते, एवं च नोकषायतया वेद्यते यत्कर्म तन्नोकषायवेदनीयमिति, तत्रयदुदयेन स्त्रियाः पुंस्यभिलाषः पित्तोदयेनमधुराभिलाषवत्स फुफुकाग्निसमानः स्त्रीवेदः, यदुदयेन पुंसः स्त्रियाभिलाषः श्लेष्मोदयादम्लाभिलाषवत् स दावाग्निज्वालासमानः पुंवेदो, यदुदये नपुंसकस्य स्त्रीपुंसयोरुभयोरभिलाषः पित्तश्लेष्मणोरुदये मज्जिताभिलाषवत् स महानगरदाहाग्निसमानो नपुंसकवेद इति, यदुदयेन सनिमित्तमनिमित्तं वा हसतितत्कर्म हास्यं, यदुदयेन सचित्ताचित्तेषुबाह्यद्रव्येषु जीवस्य रतिरुत्पद्यते तद्रतिकर्म, यदुदयेन तेष्वेवारतिरुत्पद्यतेतदरतिकर्म, यदुदयेन भयवर्जितस्यापि जीवस्येहलोकादि सप्तप्रकारं भयमुत्पद्यते तद्भयकर्म, यदुदयेन शोकरहितस्यापि जीवस्याक्रन्दनादिः शोको जायते तच्छोककर्मेति, यदुदयेन च विष्ठादिबीभत्सपदार्थेभ्यो जुगुप्सते तज्जुगुप्साकम्र्मेति। मू. (८८५) चउरिंदियाणं नव जाइकुलकोडीजोणिपमुहसयसहस्सा पन्नत्ता, भुयगपरिसप्पथलयरपंचिंदियतिरिक्खजोणिणां नवजाइकुलकोडिजोणिपमुहसयसहस्सा प० । वृ. नवरं 'नव जाई'त्यादि, चतुरिन्द्रियाणां जातौ यानि कुलकोटीनां योनिप्रमुखाणांयोनिद्वारकाणां शतसहाम्राणि तानि तथा, भुजैर्गच्छन्तीति भुजगाः-गोधादय इति । ___ अनन्तरंकर्मोक्तं, तद्वशवर्तिनश्च नानाकुलकोटीभाजोभवन्तीति कुलकोटिसूत्रेसद्गताश्च कर्म चिन्वन्तीति चयादिसूत्रषट्कं मू. (८८६) जीवा णं नवट्ठाणनिवत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा ३ पुढविकाइयनिवत्तिते जाव पंचिंदितनिवत्तिते, एवं चिण उचिण जाव निजरा चेव।। मू. (८८७) नव पएसिता खंधा अनंता पन्नत्ता नवपएसोगाढा पोग्गला अनंता पन्नत्ता एवं नवगुणलुक्खा पोग्गला अनंता पन्नत्ता॥ वृ. कर्पुद्गलप्रस्तावात् पुद्गलसूत्राणि, सुगमानि चैतानि । स्थानं-९ - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता स्थानाङ्गसूत्रे नवमस्थानस्य टीका परिसमाप्ता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy