________________
५०२
स्थानाङ्ग सूत्रम् ९/-/८७२
वाव्यञ्जनं-मषतिलकादि गुणाः-सौभाग्यादयःअथवा लक्षणव्यञ्जनयोर्ये गुणस्तैरुपेतो लक्षणव्यअनगुणोपेतः, उववेओत्ति तु प्राकृतत्वाद्वर्णागमतः, अथवा उप अपेत इति स्तिते शकन्ध्वादिदर्शनकारलोप इत्युपपेत इति लक्षणव्यञ्जनगुणोपपेतस्तं, लक्षणव्यञ्जनस्वरूपमिदमुक्तम् - ॥१॥ “मानुम्मानपमाणादि लक्खणं वंजणं तुमसमाई।
सहजंच लक्खणं वंजणं तु पच्छा समुप्पन्नं ।।" इति, लक्षणमेवाधिकृत्य विशेषणान्तरमह - ‘मानुम्मान' त्यादि, तत्र मान-जलद्रोणप्रमणता, सह्येवं-जलभृते कुण्डे प्रमातव्यपुरुष उपवेश्यते, ततो यज्जलं कुण्डान्निर्गच्छति तद्यदि द्रोणप्रमाणं भवति तदा स पुरुषः मानोपपन्न इत्युच्यते, उन्मानं तुलारोपितस्यार्द्धभारप्रमाणत, प्रमाणंआत्माङ्गुलेनाष्टोत्तरशताङ्गुलोच्छ्रयता, उक्तं च - ॥१॥ “जलदोण १ मद्धभारं २ समुहाई समुस्सिओ व जो नव उ ३।
मानुम्मानपमाणं तिविहं खलु लक्खणं एयं ॥” इति ततश्चमानोन्मानप्रमाणैः प्रतिपूर्णानि सुष्टुजातानि सर्वाण्यङ्गानि-शिरःप्रभृतीनि यस्मिस्तत् तथाविधं सुन्दरमङ्ग-शरीरं यस्य स तथा तं मानोन्मानप्रमाणप्रतिपूर्णसुजातसर्वाङ्गसुन्दरङ्ग, तथा शशिवत्सौम्याकारं कान्तं-कमनीयं प्रियं-प्रेमावहंदर्शनंयस्यस शशिसौम्याकारकान्तप्रियदर्शनस्तं, अत एव सुरूपमिति दारकं प्रजनिष्यति भद्रेति सम्बन्धः, ‘जं रयणिं च'त्ति यस्यां च रजन्यां 'तं रयणिं च'त्ति तस्यं रजन्यां पुनरिति, अर्द्धरात्र एव च तीर्थकरोत्पत्तिरिति रजनीग्रहणं,
___'से दारए पयाहिइत्ति स दारकः प्रजनिष्यते उत्पत्स्यत इति, 'सब्भितरबाहिरए'त्ति सहाभ्यन्तरेण बाह्यकेन च नगरभागेन यन्नगरं तत्र, सर्वत्र नगर इत्यर्थः, विशंत्या पलशतैर्भारो भवतिअथवा पुरुषोत्क्षेपणीयोभारोभारक इतियःप्रसिद्धः अग्रं-प्रमाणं ततो भार एवाग्रंभाराग्रं तेन भाराग्रेण भाराग्रशो-भारपरिमाणतः, एवं कुम्भाग्रशो, नवरंकुम्भ आढकषष्ठयादिप्रमाणतः, पदभवर्षश्चरत्नवर्षश्चवर्षिष्यति भविष्यतीत्यर्थः, 'जाव'त्तिकरणात 'निव्वत्तेअसइजाइकम्मकरणे संपत्ते'त्ति दृश्य, तत्र 'निवृत्ते' निर्वर्तित इत्यर्थः पाठान्तरतः निव्वत्तेवा निवृत्ते-उपरतेअशुचीनांअमेध्यानां जातकर्मणां-प्रसवव्यापाराणं करणे-विधाने सम्प्राप्ते-आगते 'बारसाहदिवसे'त्ति द्वादशानां पूरणो द्वादशः स एवाख्या यस्य स द्वादशाख्यः स चासौ दिवसश्चेति विग्रहः, अथवा द्वादशं च तदहश्च द्वादशाहस्तन्नामको दिवसो द्वादशाहदिवस इति,
'अयंतिइदं वक्ष्यमाणतय प्रत्यक्षासन्नं 'एयारूवं'तिएतदेव रूपं-स्वभावोयस्यनमात्रयापि प्रकरान्तरापन्नमित्यर्थः, किं तत् ? -नामधेयं-प्रशस्तं नाम, किंविधम् ? -गौणं न पारिभाषिकं, गौणमित्यमुखमपि स्यादित्याह-'गुणनिष्पन्नं' इति गुणानश्रित्य पद्भवर्षदीन्निष्पन्नं गुणनिष्पवमित्यक्षरघटना, ‘महापउमे महापउमे'त्ति तत्पित्रोः पालोचनाभिलापानुकरणं, 'तए णं'ति पर्यलोचनानन्तरं ‘महापउम' इति महापद्भ इत्येवंरूपं ‘साइरेगट्ठवासजायगं'ति सातिरेकाणिसाधिकान्यष्टौ वर्षाणि जातानि यस्य स तथा तं,
रायवन्नओ'त्ति राजवर्णको वक्तव्यः, सचायं-'महयाहिमवन्तमहन्तमलयमंदरमहिंदसारे' महता-गुणसमूहेनान्तर्भूतभावप्रत्ययत्वाद्वा महत्तय हिमवांश्च-वर्षधरपर्वतविशेषः महांश्चासौमलयश्च विन्ध्य इति चूर्णिकारः महामलयः स च मन्दरश्च-मेरुः महेन्द्रश्च-शक्रादिः ते इव सारः-प्रधानो यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org