________________
४७६
जाव मंदरचूलितत्ति ।
वृ. 'दीहवेयड्डू'ति दीर्घग्रहणं वर्त्तुलवैताढ्यव्यवच्छेदार्थं, गुहाष्टकयोर्यथाक्रम देवाष्टके इति, गङ्गाकुण्डानि नीलवद्वर्षधरपर्वतदक्षिणमनितम्बस्थितानि षष्टियोजनायामविष्कम्भाणि मध्यवर्त्तिगङ्गादेवीसभवनद्वीपानि त्रिदिक्सतोरणद्वाराणि येभ्यः प्रत्येकं दक्षिणतोरणेन गङ्गा विनिर्गत्य विजयानि विभजन्त्यो भरतगङ्वाच्छीतामनुप्रविशन्तीति, एवं सिन्धुकुण्डान्यपि ! ‘अट्ठ उसभकूड' त्ति अष्टौ ऋषभकूटपर्वता अष्टास्वपि विजयेषु तद्भावात् ते च वर्षधरपर्व्वतप्रत्यासन्ना म्लेच्छखण्डत्रयमध्यखण्डवर्त्तिनः सर्वविजयभरतैरवतेषु भवन्ति, तत्प्रमाणं चेदम्
119 11
“सव्वेवि उसभकूडा उव्विद्धा अट्ठ जोयणा होंति ।
बारस अट्ठ य चउरो मूले मज्झुवरि विच्छिन्ना ॥"
इति, देवास्तन्निवासिन एवेति, नवरं 'एत्थ रत्तारत्तावईओ तासिं चेव कुंड' त्ति, शीताया दक्षिणतोऽपि अष्टौ दीर्घवैताढ्या इत्यादि सर्वं समानं केवलं गंगासिन्धुस्थाने रक्तारक्तवत्यौ वाच्ये, गङ्गादिकुण्डस्थानेऽपि रक्तादिकुण्डानि वाच्यानीति, तथाहि - 'अट्ठ रत्ताकुण्डा पन्नत्ता अट्ठ रत्तवईकुण्डा अट्ठ रत्ताओ अट्ठ रत्तवइओ' तथा निषधवर्षधरपर्व्वतोत्तरनितम्बवर्त्तीनि षष्टियोजनप्रमाणानि रक्तारक्तवतीकुण्डानि येभ्य उत्तरतोरणेन विनिर्गत्य ताः शीतामनुपतन्तीति, तथा धातकीमहाधातकीपद्भमहापद्भवृक्षाः जम्बूवृक्षसमानवक्तव्याः, यदाह
“जो भणिओ जंबूए विही उ सो चेव होइ एएसिं । देवकुरासुं सामलिरुक्खा जह जंबूदीवम्मि ॥” इति - क्षेत्राधिकारात् 'जंबुद्दीवे' त्यादि सूत्रचतुष्टयं, सुगमं,
मू. (७५४) जंबूदीवे २ मंदरे पव्वते भद्दसालवने अट्ठ दिसाहत्थिकूडा पं० तं० । वृ. नवरं 'भद्दसालवने 'त्ति मेरुपरिक्षेपतो भूम्यां भद्रशालवनमस्ति तत्राष्टौ शीताशीतोदयोरुभयकूलवर्त्तीनि पूर्वादिषु दिक्षु हस्त्याकाराणि कूटानि दिशाहस्तिकूटानि प्रज्ञप्तानि तद्यथापउमुत्तर नीलवंते सुहत्थि अंजणागिरी कुमुते य । पलासे वडिंसे (अट्ठमए) रोयणागिरी
मू. (७५५)
119 11
119 11
वृ. 'पउमे' सिलोगो, कण्ठ्यः नवरमस्य सप्रसंगो विभागोऽयम्“मेरुओ पन्नासं दिसि विदिसिं गंतु भद्दसासवणं । चउरो सिद्धाययणा दिसासु विदिसासु पासाया ।। छत्तीसुच्चा पणवीसवित्थडा दुगुणमायताययणा । चउवाविपरिक्खित्ता पासाया पंचसयउच्चा ।। ईसाणस्सुत्तरिमा पासाया दाहिणा य सक्कस्स । अ य हवंति कूड़ा सीतोसीतो दुभयकूले ॥ दो दो चउद्दिसिं मंदरस्स हिमवंतकूडसमकप्पा । पउमुत्तरोऽत्थ पढमो पुव्विम सीउत्तरे कूले ॥ तत्तो य नेलवंते सुहत्थि तह अंजणागिरी कुमुए । तहय पलासवडंसे अट्ठमए रोयणगिरी या ।।" इति
For Private & Personal Use Only
॥२॥
॥३॥
118 11
॥५॥
स्थानाङ्ग सूत्रम् ८/-/७५३
Jain Education International
?
www.jainelibrary.org