SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् ८/-/७०२ नो महाद्युतिषु शरीराभरणादिदीप्तया नो महानुभागेषु वैक्रियादिशक्तितः नो महाबलेषु-प्राणवत्सु नो महासौख्ययेषु नो महेशाख्ययेषु वा नो दूरंगतिकेषु-न सौधर्मादिगतिषु नो चिरस्थितिकेषुएकद्वयादिसागरोपमस्थितकेषुयापि च। ___ 'सेतस्य तत्र' देवलोकेषु 'बाह्या' अप्रत्यासन्नादासादिवत् अभ्यन्तरा' प्रत्यासन्ना पुत्रकलत्रादिवत् परिषत् परिवारोभवतिसापि नोआद्रियते नादरंकरोति, ‘नोपरिजानाति स्वामितया नाभिमन्यते 'नो' नैमहच्चतहँच-योग्यमहाहँतेनासनेनोपनिमन्त्रयते, किंबहुना?, दौर्भाग्यातिशयात्तस्य यावच्चतुःपञ्चाः देवा भाषणनिषेधायाभ्युत्तिष्ठन्ति-प्रयतन्ते, कथं ?, ‘मा बहु'मित्यादि, अनेनोपपातग.क्त, आजातिगर्हितत्वंतु सेणं'मित्यादिनाऽऽचष्टे, सेत्तिसोऽनालोचकस्ततोव्यन्तरादिरूपा देवलोकादवधेः आयुःकर्मपुद्गलनिर्जरणेन भवक्षयेण-आयुःकर्मादिनिबन्धनदेवपर्यायनाशेन स्थितक्षयेण-आयुःस्थितिबन्धक्षयेणदेवभवनिबन्धनशेषकर्मणांवा, अनन्तरंआयुःक्षयादेः समनन्तरमेव 'च्यवं' च्यवनं 'च्युत्वा' कृत्वा 'इहैव' प्रत्यक्ष मानुष्यके भवे पुंस्तया प्रत्याजायत इति सम्बन्धः, केषु कुलेषु कुटुम्बकेषु अन्वयेषु वा किंविधेषु? - ___यानि इमानि' वक्ष्यमाणतयाचप्रत्यक्षाणिभवन्ति, तद्यथा-अन्तकुलाणि-वरुटछिंपकादीनां प्रान्तकुलानि-चण्डालादीनां तुच्छकुलानि-अल्पमानुषाणि अगम्भीराशयानि वा दरिद्रकुलानिअनीश्वराणि कृपणकुलानि-तकणवृत्तीनि नटनग्नाचार्यादीनां भिक्षाककुलानि-भिक्षणवृत्तीनि तथाविधलिङ्गिकानां च तथाप्रकारेष्वन्तकुलादिष्वित्यर्थः, प्रत्यायाति प्रत्याजायते वा 'पुमि'त्ति पुमान् ‘अनिट्टे'त्यादि इष्यते स्म प्रयोजनवशादितीष्टः कान्तः-कान्तियोगात् प्रियः-प्रेमविषयः मनोज्ञःशुभस्वभावः मनसाअम्यते-गम्यते सौभाग्यतोऽनुस्मर्यत इति मनोऽमः एतन्निषेधात् प्रकृतविशेषणानि तथा हीनस्वरः-हस्वस्वरस्तथा दीनो-दैन्यवान् पुरुषस्तत्सम्बन्धित्वात्स्वरोऽपि दीनः स स्वरो यस्य स तथा, अनादेयवचनश्चासौ प्रत्याजातश्चेति अथवा प्रथमैकवचनलोपादनादेयवचनो भवति प्रत्याजातः सन्निति, शेषं कण्ठ्यं यावद् ‘भासउत्ति, अनेन प्रत्याजातिगर्हितत्वमुक्तमिति, 'मायी'त्यादिनाआलोचकस्येहलोकादिस्थानत्रयागर्हितत्वमुक्तविपर्ययस्वरूपमाह-हारेण विराजितंवक्षः-उरोयस्यसतथा कटकानिप्रतीतानितुटितानि-बाह्वाभरणाविशेषास्तैः स्तम्भितौ स्तब्धीकृतौ भुजौ-बाहू यस्य स तथा। ___अंगदे'त्यादि, कर्णावेवपीठे-सनेकुण्डलाधारत्वात्कर्णपीठे, मृष्टे-घृष्टेगण्डतलेच-कपोलतले चकर्णपीठे च यकाभ्यां तेमृष्टगण्डतलकर्णपीठेतेच ते कुण्डलेचेतिविशेषणोत्तरपदः प्राकृतत्वाकर्मधारयः, अङ्गदेच-केयूरेव्यक्ताभरणविशेषावित्यर्थः, कुण्डलमृष्टगण्डतलकर्णपीठेचघरयति यः स तथा, अथवा अङ्गदे च कुण्डले च मृष्टगण्डतले कर्णपीठे च-कर्णाभरणविशेषभूते धारयति यः स तथा, तथा विचित्राणि-विविधानि हस्ताभरणानि-अङ्गुलीयकादीनि यस्य स तथा, तथा विचित्राणि वस्त्राणिचाभरणानिच यस्य वस्त्राण्येव वाऽऽभरणानि-भूषणानि अवस्थाभरणानि वा-अवस्थोचितानीत्यर्थो यस्य स तथा, विचित्रा मालाश्च-पुष्पमाला मौलिश्च-शेखरो यस्य विचित्रमालानं वा मौलियस्य स तथा, कल्याणकानि-माङ्गल्यानि प्रवराणि-मूल्यादिना वस्त्राणि परिहितानि-निवसितानि येन तान्येव वा परिहितो-निवसितो यः स तथा, कल्याणकं प्रवरं च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy