________________
४२८
स्थानाङ्ग सूत्रम् ७/-/६२९
वृ.इह च मङ्गीप्रभृतीनामेकविंशतिमूर्च्छनानांस्वरविशेषाः पूर्वगते स्वरप्राभृते भणिताः, अधुना तु तद्विनिर्गतेभ्यो भरतवैशाखिलादिशास्त्रेभ्यो विज्ञेया इति। मू. (६३०) सत्त सराओ कओ संभवंति गेयस्स का भवंति जोणी?।
कतिसमता उस्सासा कति वा गेयस्स आगारा? || वृ. 'सत्तस्सरा कओ' गाहा, इह चत्वारः प्रश्नाः, तत्र कुत इति स्थानात् का योनिरितिका जातिः तथा कति समया येषु ते कतिसमयाः, उच्छ्वासाः किंपरिमाणकाला इत्यर्थः, तथाऽऽकाराः-आकृतयः स्वरूपाणीत्यर्थः,। मू. (६३१) सत्त सरा नाभीतो भवंति गीतं च रुयजोणीतं ।
पादसमा ऊसासा तिन्नि य गीयस्स आगारा॥ वृ. 'सत्त सरा' गाहा प्रश्ननिर्वचनार्था स्पष्टा, नवरं रुदितं योनिः-जातिः समानरूपतया यस्य तद्दितयोनिकं, पादसमया उच्छ्वासा-यावद्भिः समयैः पादोवृत्तस्य नीयते तावत्समया उच्छ्वासा गीते भवन्तीत्यर्थः, आकारानाहमू. (६३२) आइमिउ आरभंता समुव्वहंता य मज्झगारंमि ।
अवसाने तज्जवितो तिन्नि य गेयस्स आगारा॥ वृ. 'आई' गाहा, आदौ-प्राथम्ये मृदु-कोमलमादिमृदु गीतमिति गम्यते, आरभमाणाः, इह समुदितत्रयापेक्षं बहुवचनमन्यथा एक एव आकारो द्वयमन्यद् वक्ष्यमाणलक्षणमिति, तथा समुद्वहन्तश्च महत्तां गीतध्वनेरिति गम्यते, मध्यकारे-मध्यभागे, तथा अवसाने च क्षपयन्तोगीतध्वनिमन्द्रीकुर्वन्योगीतस्याकाराभवन्ति, आदिमध्यावसानेषुगीतध्वनिः मृदुतारमन्द्रस्वभावः क्रमेण भवतीति भावः, किं चान्यत्मू. (६३३) छद्दोसे अट्टगुणे तिन्नि य वित्ताइं दो य भणितीओ।
____जाणाहिति सो गाहिइ सुसिक्खिओ रंगमज्झम्मि। वृ. 'छ दोसे' दारगाहा, षट् दोषा वर्जनीयाः.। मू. (६३४) भीतं दुतं रहस्सं गायंतो मा त गाहि उत्तालं ।
काकस्सरमणुनासंच होति गेयस्स छद्दोसा ॥ वृ.तानाह-भीयं गाहा, भीतं-त्रस्तमानसं १ द्रुतं-त्वरितं २ 'रहस्संति इस्वस्वरं लघुशब्दमित्यर्थः, पाठान्तरेण 'उप्पिच्छं' श्वासयुक्तं त्वरितं चेति उत्तालं-उत्प्राबल्यार्थे इत्यतितालमस्थानतालं वा, तालस्तु कंशिकादिशब्दविशेष इति ४, 'काकस्वरं' श्लक्ष्णाश्रव्यस्वरं, अनुनासं चसानुनासिकं नासिकाकृतस्वमित्यर्थः, किमित्याह-गायन् गानप्रवृत्तस्त्वं हे गायन ! मा गासीः, किमिति?, यत एते गेयस्य षट् दोषा इति । अष्टो गुणानाहमू. (६३५) पुन्नं १ रत्तं २ च अलंकियं ३ च वत्तं ४ तहा अविधुढे ५ ।
मधुरं ६ सम ७ सुकुमारं ८ अट्ठ गुणा होति गेयस्स ॥ वृ. 'पुनं गाहा, पूर्ण स्वरकलाभिः १ रक्तंगेयरागेणानुरक्तस्य २ अलङ्कृ तमन्यान्यस्वरविशेषाणां स्फुटशुभानांकरणात् ३ व्यक्तमक्षरस्वरस्फुटकरणत्वात् ४ ‘अविधुटुं' विक्रोशनमिव यन्न विस्वरं ५ मधुरं-मधुरस्वरं कोकिलारुतवत् ६ समं-तालवंशस्वरादिसमनुगतं ७ सुकुमारं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org