SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ४२२ 119 11 "लोगत्थनिबोहा वा निगमा तेसु कुसलो भवो वाऽयं । अहवा जं नेगगमो नेगपहा नेगमो तेणं ॥” इति, तत्रायं सर्वत्र सदित्येवमनुगताकारावबोधहेतुभूतां महासत्तामिच्छति अनुवृत्तव्यावृत्तावबोधहेतुभूतं च सामान्यविशेषं द्रव्यत्याविद व्यावृत्तावबोधहेतुभूतंच नित्यद्रव्यवृत्तिमन्त्यं विशेषमिति, आह-इत्थं तर्ह्ययं नैगमः सम्यग्धष्टिरेवास्तु सामान्यविशेषाभ्युपगमपरतवात् साधुवदिति, नैतदेवं, सामान्यविशेषवस्तूनामत्यन्तभेदाभ्युपगमपरत्वात्तस्येति, आह च भाष्यकारः"जं सामन्नविसेसे परोप्परं वत्थुओ य सो भिन्ने । मन्नइ अच्चं तमओ मिच्छादिट्ठी कणादोव्व ॥ दोहिवि नएहिं नीयं सत्थमुलएण तहवि मिच्छत्तं । जं सविसयपहाणत्तणेण अन्नोन्ननिरवेक्खा ॥” इति, 119 11 119 11 स्थानाङ्ग सूत्रम् ७/-/६०३ तथा सङ्ग्रहणं भेदानां सङ्गृह्णाति वा भेदान् सङ्गृ ह्यन्ते वा भेदा येन सङ्ग्रहः, उक्तञ्च"संगहणं संगिण्हइ संगिज्झते व तेण जं भेया। तो संगहोत्ति" एतदुक्तं भवति सामान्यप्रतिपादनपरः खल्वयं सदित्युक्ते सामान्यमेव प्रतिपद्यते न विशेषं, तथा च मन्यते - विशेषाः सामान्यतोऽर्थान्तरभूतास्युरनर्थान्तरभूता वा ? यद्यर्थान्तरभूता न सन्ति ते, सामान्यादर्थान्तरत्वात् खपुष्पवत्, अथानर्थान्तरभूताः सामान्यमात्रं ते, तदव्यतिरिक्तत्वात्, तत्स्वरूपवदिति, आह च 119 11 “सदिति भणियंमि जम्हा सव्वत्थानुप्पवत्तए बुद्धी । तो सव्वं तम्मत्तं नत्थि तदत्थंतरं किंचि ॥ कुंभ भावाऽनन्नो जइ तो भावो अहऽन्नहाऽभावो । एवं पडादओऽ विहु भावाऽनन्नत्ति तम्मत्तं ॥” इति, तथा व्यवहरणं व्यवहरतीति वा व्यवह्रियते वा - अपलप्यते सामान्यमनेन विशेषान् वाऽऽश्रित्य व्यवहारपरो व्यवहारः, आह च 119 11 “ववहरणं ववहरए स तेण ववहीरए व सामन्नं । ॥२॥ ववहारपरो य जओ विसेसओ तेण ववहारो ॥” इति, अयं हि विशेषप्रतिपादनपरः सदित्युक्ते विशेषानेव घटादीन् प्रतिपद्यते, तेषामेव व्यवहारहेतुत्वात्, न तदतिरिक्तं सामान्यं, तस्य व्यवहारापेतत्वात्, तथा च सामान्यं विशेषेभ्यो भिन्नमभिन्नं वा स्यात् ?, यदि भिन्नं विशेषव्यतिरेकेनोपलभ्येत, न चोपलभ्यते, अथभिन्नविशेषमात्रं तत्तदव्यतिरिक्तत्वात्तत्स्वरूपवदिति, आह च 119 11 “उवलंभव्ववहाराभावओ त (नि) व्विसेसभावाओ । तं नत्थ खपुप्फंपिव संति विसेसा सपच्चक्खं ॥” इति, तथा लोकसंव्यहारपरो व्यवहारः, तथाहि असौ पञ्चवर्णेऽपि भ्रमरादिवस्तुनि बहुतरत्वात् कृष्णत्वमेव मन्यते, आह च- 119 11 "बहुतरओत्तिय तं चिय गमेइ संतेवि सेसए मुयइ । संववहारपरतया ववहारो लोगमिच्छंति ॥” इति ३, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy